________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपेतम् 367 न्यायकन्दली परमाण्वाकाशसंयोगस्य नित्यता / इदं तावदित्थं परिहतम्, विभूनां परस्परतः संयोगे का प्रतिक्रिया ? 'न ह्यसावन्यतरकर्मजः, नाप्युभयकर्मजः, तेषां निष्क्रियत्वात् / नापि संयोगजः, कार्यस्य हि कारणसंयोगिना अकारणेन संयोगजः संयोगो भवति / न चायं विभूना'मुपपद्यते, नित्यत्वात् / अस्ति च तेषां संयोग आकाशममूर्तेनापि द्रव्येण समं संयुज्यते मूर्तद्रव्यसंयोगित्वात् 'पटाविवदित्यनुमानात् 'प्रतीतेः / 'सदाकारणवग्नित्यं तस्मावनुपपन्नमिदम्, अजः संयोगो नास्तीति / तत्राह-विभूनामिति। यत्र युतसिद्धिस्तत्रैव संयोगो दृष्टः / युतसिद्धिश्चाकाशादिषु नास्ति, अतो व्यापकाभावात् संयोगोऽपि तेषु न भवति / यच्च संयोगप्रतिपावकमनुमानमुक्तम्, तदसाधनम्, उभयपक्षसमत्वात् / यथे विभूनां संयोगं प्रशस्ति, तथा ताभ्यामेव हेतुदृष्टान्ताभ्यां विभागमपि / अस्तु द्वयोरप्युपपत्तिः, प्रमाणेन तथाभावप्रतीतेरिति चेन्न, संयोगविभागयोरेकस्य नित्यत्वेऽन्यतरस्यासम्भवाविति द्वयोरष्यसिद्धिः, परस्परप्रतिबन्धात् / __ अथ केयं युतसिद्धिर्यस्या अभावाद्विभूनां संयोगो न सिद्धयति? अत्राह-सा पुनरिति / [वि.] मानस्य विभागसाधनद्वारेण संयोगाभावसाधकत्वात्प्रकरणसमत्वम्, अनिष्टापादानत्वं वा। 'द्विविधाप्याकाशादिषु इति:- नन् यत्रैव रूपयुतसिद्धिद्वयम्यावृत्त्या संयोगव्यावत्ति"स्तत्र संयोगगतं कार्यत्वमपि प्रयोजकम, अकार्ये तु संयोगे नवं भविष्यति ? न वाच्यम्, अजसंयोग साधकप्रमाणस्य विभागसाधकत्वेन बाधितत्वात् / नन विभागस्य संयोगनाशकत्वात् पूर्वक्षणे विभागे सति द्वितीयक्षणे[संयोगनाशादेकत्र क्षणे] द्वयोरप्यवस्थानं प्राप्नोतीत्याह यद्यपि विभागकाल इति / / संयोगः / / [पं०] भ्रान्तेः पुरुषधर्मत्वादिति (कं. 149.26) भ्रान्तत्वादेव कणादेन नोक्त इत्यर्थः / एकस्येति (कं. 150.1) अवयविनः / अन्यतरकर्मजौ इति (कं. 150.2) अन्यतरपुरुषकर्मजो। परमाणकर्मजौ भवत इति (कं. 150.3) अनेनैतदुक्तं भवति संयोगोऽप्यन्यतरकर्मजोऽयं संयोगः। तयोरिति (कं. 150.3) संयोगविभागयोः। नित्यत्वादिति (कं. 150.7) कारणाभावादित्यर्थ: / अतो व्यापकाभावात्संयोगोऽपि तेषु न भवतीति (कं. 150.11) संयोगो हि युतसिद्धया व्याप्तोस्ति ? नैव अग्निना च धर्म इत्यर्थः / यथेदमिति (कं. 150.12) इदं संयोगप्रतिपादकमनुमानम् / [कु०] "द्वयोव्ययोरिति (कं. 150.17) व्यापकं तु लक्षणमप्राप्तयोविद्यमानत्वं युतसिद्धिरिति / तद्भेदकथनं तु भाष्यकारीयम् / व्यापकनिवृत्त्या [व्या] प्यनिवृत्ति दर्शयितुमिदमेव प्रकारद्वयमप्राप्तयोविद्यमानताया एक प्रकारान्तराभावादिति / ननु यद्येकार्थसमवेताद्विभागात संयोगो विनश्यति तहि पटारम्भके कस्मिश्चित्तन्तौ वर्तमानाद्वस्त्रादि 1 न चासौ- जे. 3 / 2 मुत्पद्यते-जे. 3 / 3 पटवद-कं. 1, क. 2; घटवद-जे. 2 / 4 प्रतीतः - कं. 1; कं. 2 / 5 चाकारण-कं. 1, कं. 2 6 तत्र-जे. 1 / 7 शास्ति - कं. 1, कं.२। 8 संयोगश्चेन्नित्यो विभागो न भवति, विभागश्चेन्नित्यः सयोगा न भवति-जे. 3 / 9 द्विधा-मु. जे. 3: द्विविधा-जे. 1; 10 सत्र-अ। 11 साधन-अ; 12 [ ] एतच्चिह्नान्तर्गतः पाठः अपुस्तके आवृत्तः / 13 द्वयोरन्यत रस्य-कं /