________________ 366 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् प्रशस्तपादभाष्यम् परमाणुभिराकाशादीनां प्रदेशवृत्तिरन्यतरकर्मजः संयोगः / विभूनां तु परस्परतः संयोगो नास्ति, युतसिद्धयभावात् / सा पुनर्द्वयोरन्यतरस्य वा पृथग्गतिमत्त्वं 'पृथगाश्रयायित्वं चेति / न्यायकन्दली त्रिविध एव संयोग इत्युक्तम् / नित्यस्यापि संयोगस्य सम्भवादिति केचित्, तत्प्रतिषेधार्थमाह- नास्त्यजः संयोगः, परिमण्डलवत् पृथगनभिधानात् / सर्वज्ञेन महर्षिणा सर्वार्थोपदेशाय प्रवृत्तेन पृथगनभिधानात्, अजः संयोगो नास्ति, खपुष्पवत् / एतदेव विवृणोति-यथेत्यादिना। संयोगोऽजो न भवतीति प्रतिज्ञार्थो न पुनरजः संयोगो नास्तीति, आश्रयासिद्धत्वात् / ननु परमाण्वाकाशयोः संयोगो नित्य एव, तयोनित्यस्वादप्राप्त्यभावाच्च / यत्पुनरयं कणादेन नोक्तः, तद् भ्रान्तेः पुरुषधर्मत्वात्, अत आह-'परमाणुभिराकाशादीनामिति / 'यथा महतो न्यग्रोधस्य मूलाग्रावयवव्यापिन एकस्य मूलादग्रमग्रान्मूलं गच्छता पुरुषेण संयोगविभागावन्यतरकर्मजौ युगपत्प्रतीयेते, तथा व्यापिनोऽप्याकाशस्य परमाणुना सह संयोगविभागौ परमाणुकर्मजो 'भवतः, तयोरव्याप्यवृत्तित्वादिति न [टि०] संयोगवदिति प्रमाणम् / अप्राप्तिपूर्वकत्वं च तत्र तथा प्रत्यय भावावेवागतम / विभुद्वयसंयोगस्य नित्यत्वे युक्तिम्पसहरति 'सदकारणवदिति सदिति प्रागभावव्यवच्छेदार्थम्, तस्य सत्तालिङ्गितत्वाभावात् / अतो 'व्यापकाभावाद् इति :- एवं च संयोगस्य ब्यापकानुपलब्धिप्रतिकूलतर्कबाधितत्वं दर्शितम् / यथेदं विभूनाम् इति अत्र च प्रतिपक्षानु [पं०] महषिणेति (कं. 149.22) कणादेन / संयोगोऽजो न भवतीति प्रतिज्ञार्थ इति (कं. 149.24) संयोग इति धर्मी, अजो न भवतीति साध्यो धर्मः इति भावना। आश्रयासिद्धत्त्वत्वादिति (कं. 149.25) हि संयोगोऽपि नास्ति किन्त्वजत्वं नास्ति / अप्राप्त्यभावाच्चेति (कं. 149.26) सततं सम्बद्धत्वाच्चेत्यर्थः। सततं सम्बद्धत्वं च संयोगो न भवति / अप्राप्तयोः प्राप्तिः संयोग इति वचनादित्याशयः / कि.] मूर्तद्रव्यसंयोगेन संयोगाभावस्य स्थापितुमशक्यत्वादित्यत आह यथेदमिति (कं. 150.12) / उभयो,दि. प्रतिवादिरभिमतसाधनाद् उभयपक्षसमत्वं न तु साध्यतद्विपर्ययसाधनादिति भावः / अन्यतरस्यासम्भवादिति (कं. 150.15) यस्य येन यदा संयोगस्तस्य तेन तदेव विरोधाद्विभागोऽनङ्गीकार इत्यर्थः / 1 युताश्रयसमवायित्वं चेति -जे. व्यो. (494) दे। 2 आह आकाशादीनामिति -जे. 1. जे. 2, जे: 3 / 3 यथा हि न्यग्रोधस्य-जे.३ / 4 संभवतः-जे. 2 / 5 भावादपगतम्-ड; 6 स च मु. सदकारणवद्-जे. 1 जे. 3; 7 ग्यापिका-अ, ब;