________________ 364 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् प्रशस्तपादभाष्यम् 'कि कारणम् ? कारणसंयोगिना 'ह्यकारणेन कार्यमवश्यं संयुज्यत इति न्यायः / अतः पार्थिवं द्वचणुकं कारणसंयोगि'नाप्येनाणुना सम्बद्धयते / आप्यमपि द्वयणुकं कारणसंयोगिना पार्थिवेनेति / __ न्यायकन्दली नाप्येन चाप्यस्य परमाणोर्युगपत्संयोगौ भवतस्तदा ताभ्यां संयोगाभ्यां पार्थिवाप्ये द्वयणुके युगपदारभ्यते / समानजातीयसंयोगस्य द्रव्यान्तरोत्पत्तिहेतुत्वात् / ततो यस्मिन्नेव काले पार्थिवाप्यद्वयणुकयोः कारणगुणपूर्वक्रमेण रूपाद्युत्पत्तिः, तस्मिन्नेव काले इतरेतरकारणाकारणगतात् संयोगादितरेतरकार्याकार्यगतौ संयोगौ युगपदुत्पद्यते / इतरेतरे पार्थिवाप्ये द्वयणुके, तयोः कारणाकारणे परस्परसंयुक्तौ पार्थिवाप्यपरमाणू, पार्थिवः परमाणुरितरस्य पार्थिवद्वयणुकस्य कारणमितरस्याप्यस्य द्वयणुकस्याकारणम् / एवमाप्यपरमाणुरितरस्याप्यद्वयणुकस्य कारणमितरस्य पार्थिवद्वयणुकस्याकारणम् / तयोः संयोगाद् इतरस्य पार्थिवपरमाणोर्यत्कार्य पार्थिवं द्वयणुकमकार्यश्चाप्यः परमाणुः, तयोः संयोगो भवति / एवमितरस्याप्यपरमाणोर्यत्कार्यमाप्यं द्वयणुकमकार्यस्तु पार्थिवः परमाणुस्तयोरपि संयोगो भवतीत्येकस्माद् द्वयोरुत्पत्तिः / किं कारणम् ? पार्थिवाप्ययोद्वर्यणुकयोविजातीयपरमाणुसंयोगे कि प्रमाणम् ? इति पृष्टः सन् प्रमाणमाह-कारणसंयोगिनेति / पार्थिवपरमाणुराप्यद्वयणुकेन सह [fro] ग्राहकप्रमाणबाधो वा / द्वितीये सिद्धसाधनम् / तृतीये आश्रयासिद्धिमिग्राहकप्रमाणबाधश्चेति / तस्माद् विभूनां 'परस्पर संयोगो नास्तीति पक्षः कार्यः / ननु परमाण्वाकाशयोरिति एतेन विवादाध्यासितः संयोगो कार्यों न भवति [पं०] तत्कारणसंयोगित्वादिति (कं. 149.10) तस्य व्यणुकस्य कारणं परमाणुस्तत्संयोगित्वात् द्वयणुकेनापि संयोगः संयुक्तसंयोग इत्यर्थः / परसंयुक्ततुरीवदिति (कं. 149.10) यथा तुरीस्तंतु(ल)क्षणकारणसंयुक्ता सती कार्येण परेणापि संपूज्यते / यतः कारणसंयोगिना कार्य संयूज्यत इति (कं. 149.11) कारणसंयुक्तत्वे कार्यमपि संयुज्यते [0] अर्थप्राधान्याद्यैवं प्रयोगः / यथाभाष्यं तु पार्थिवं द्वयणुकमाप्येन परमाणुना संयुज्यते / प्राप्तं च चणुकं पार्थिवेन परमाणुना तदकार्यत्वे सति तत्संयोगिकार्यत्वात् / तुर्या पट इवेति द्रष्टव्यः उपसंहार इति न्यायसिद्धस्य प्रकृते योजनमित्यर्थः / अत्र च यद्येतौ संयोगौ न स्यातां कारणाभावाद् द्वचणुकयो: परस्परसंयोगो न स्यादिति तर्कः / भत एव तत्कारणप्रश्नोत्तरे नासङ्गते / / किं कारणसंयोगिना हि कार्यम् - दे। 2 हि कार्यमवश्यं -जे। 3 अणुना-जे / 4 घणुकं पार्थिवेनेति -जे, व्यो.(४९२) दे / 5 तस्याप्ययणुकस्य कारणमाप्यपरमाणुस्तेन सह संयोगित्वात्-टिप्पण-जे. 3 / 6 परस्पर-म, व