________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपेतम् प्रशस्तपादभाष्यम् [143] एकस्माच्च द्वयोरुत्पत्तिः, कथम् ? यदा पार्थिवाप्ययोरण्वोः संयोगे सत्यन्येन पार्थिवेन पार्थिवस्य, 'आप्येन चाप्यस्य युगपत्संयोगौ भवतस्तदा ताभ्यां संयोगाभ्यां पार्थिवाप्ये द्वयणुके युगपदारभ्यते / ततो यस्मिन्नेव काले द्वयणुकयोः कारणगुणपूर्वक्रमेण रूपाद्युत्पत्तिस्तस्मिन्नेव काले इतरेतरकारणाकरणसंयोगादितरेतरकार्याकार्यगतौ संयोगौ युगपदुत्पद्यते / न्यायकन्दली तथापि कुतो विश्वस्याग्रहणम् ? महत्त्वानेकद्रव्यवत्त्वरूपविशेषाणामुपलब्धिकारणानां सम्भवात् / अथ सत्स्वपि तेष्वतीन्द्रियाश्रयत्वादतीन्द्रि'यत्वम्, एवं द्वयणुकारब्धस्य त्र्यणुकस्यातीन्द्रियत्वे तत्पूर्वकस्य विश्वस्यातीन्द्रियत्वं त्वत्पक्षेऽपि दुनिवारम् / तस्मान्नेयमत्रानुपपत्तिः / परमाणूनां व्यणुकानारम्भकत्वे पृथिब्यधिकारोक्तैव युक्तिरनुगन्तव्या। [143] एकस्माच्च संयोगाद् द्वयोः संयोगयोरुत्पत्तिः कथमित्यज्ञेन पृष्टः सन्नाह-यदेति / पार्थिवाप्ययोः परमाण्वोः संयोगे सत्यन्येन पार्थिवेन परमाणुना पार्थिवस्य परमाणो'रन्ये[टि०] [143] तयोः संयोगाद् इति विजातीयेन दूघणुकेनेति शेषः / न पुनरज इति :- नन्वेवमपि पक्षे कि संयोगमात्रं पक्षीकृत्य ? मूर्तयोर्वा संयोगो ? अमूर्तयोर्वा ? तत्राद्ये अंशतः सिद्धसाधनमंशतः स्वाश्रयासिद्धिमि पिं० (कं. 148.17) अतीन्द्रियाः परमाणवस्ते आश्रयो यस्य तत अतीन्द्रियाश्रयं तस्य भावोऽतीन्द्रियाश्रयत्वम् तस्माद् विश्वस्यातीन्द्रियत्वं प्राप्नोतीति परवाक्यम् / श्रीधरवाक्यम् एवमित्यादि (कं. 148.18) विश्वस्यातीन्द्रियत्वं त्वत्पक्षेऽपि दुनिवारमिति (कं. 148.19) द्वयणकस्यापि परमाणवदतीन्द्रियत्वादिति भाव: / [143] समान जातीयस्य संयोगस्य द्रव्यान्तरोत्पत्तिहेतुत्वादिति (कं. 148.24) पूर्वं हि पार्थिवाप्ययोः संयुक्तयोरपि नारम्भकत्वमासीत् विजातीयत्वादिति भावः / पार्थिवाप्ययोः परमाण्वोः संयोगे सति (कं. 148.21) इत्यत आरभ्य एकस्माच्च द्वयोरुत्पत्तिरि (त्यन्ते)न (कं. 148.20) सन्दर्भण योऽर्थः प्रतिपादितस्तस्य स्पष्टतार्थ यन्त्रकमिदमवधार्यम् / पप आ [कु०] [143] पायिवाप्ययोरिति (कं. 149.21) [स] जातीयतया द्रव्याणा[मा] रम्भं विवक्षति एवमन्येन पाथिवेऽन्येनेत्यादिना / सजातीयतया द्रव्यारम्भं विवक्षति / पार्थिव इति पूरणीयम् इतरथा हेतो गासिद्धिप्रसङ्गात् / 1 अन्येन चाप्येन - कं. 1; कं. 2 / 2 यस्मिन् - कं.१; कं. 2 कि। 3 तीन्द्रिवत्वमेव - कं. 1; कं.२। 4 रनुमन्तम्या -जे. 1; रवगन्तव्या 2 / जे. 2; जे. 3 / 5 द्वयोरुत्पत्तिः-कं. 1; कं. 2; कं. 3 / 6 अन्येनाप्येनाप्यस्य - जे. 1: जे. 2 जे. 3 / 7 संयोऽमूर्तयो-अ; 8 जातीयसंयोगस्य - कं। 9 एकस्माच्च संयोगा द्-कं /