________________ 362 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् न्यायकन्दली तन्तूनां खण्डावयविद्रव्यारम्भपरम्परया। न च मूर्तानां समानदेशतादोषः, यावत्सु तन्तुष्वेकोऽवयवी वर्तते, तावत्स्वेवान्यूनानतिरिक्तेषु अपरस्य समवायानभ्युपगमात् / द्वितन्तुकं द्वयोस्तन्त्वोः समवैति, त्रितन्तुकं तु तयोस्तन्त्वन्तरे च तदधिकं द्रव्यं तेषु चेत्युत्तरोत्तरेषु कल्पनायां कुतः समानदेशत्वम् ? अत एव च पटपाटिते तिष्ठति चाल्पतरसमादिभावभेदेन खण्डावयविग्रहणम् / तेषु विनष्टेषु तु यद्यारभ्यते पटो दुर्घटमिदम् / . नन्वेवं बालशरीरावयवा 'अविनष्टे एव तस्मिन्नाहारावयवसहिताः शरीरान्तरमारभेरन् ? आरभन्ताम् ? यदि पट इव खण्डावयविनां वृद्धशरीरे तिष्ठति विनाशिते वा पूर्वशरीराणामुपलम्भः सम्भवति ? अथ 'नास्ति, न तत्रायं विधिः, यथादर्शनं व्यवस्थापनात् / एतेनारभ्यारम्भकवादपक्षे परमाण्ववस्थितस्य जगतो ग्रहणं न स्यावित्यपि प्रत्युक्तम्, परमाणूनां त्र्यणुकादिकारणत्वाभावस्य पृथिव्यधिकारे दर्शितत्वात् / अथवा यदि परमाणवो द्वयणुकमारभ्य तत्सहितास्त्र्यणुकमारभन्ते, व्यणुकसहिताश्च द्रव्यान्तरम्, [पं०] तस्मिन्निति (कं. 148.10) बालशरीरे / वृद्धशरीरे इति (कं. 148.11) वृद्धेः परिसमाप्तत्वात् पूर्णावयवित्वं दर्शयितुं वृद्धशरीरमुक्तम् / अथ नास्तीति (कं. 148.12) पूर्णशरीराणामुपलम्भ: कर्ता / अयं विधिरिति (कं. 148.12) यदविनष्टेषु पूर्वावयविषु शरीरान्तरारम्भः / आरम्यारम्भकवावपक्ष इति (कं. 148.12) भारम्भका अवयवाः, भारभ्या अवयविनः, अवयवाश्च परमाणवः / परमाण्यवस्थितस्य जगतो ग्रहणं न स्यारिति (कं. 148.13) परमाणनामतीन्द्रियत्वात् परमाणुनिमितस्य जगतोऽतीन्द्रियत्वं प्राप्नोति इत्यर्थः / परमाणूनां 'त्र्यणुकादिकारणत्वाभावस्य पृथिव्यधिकारे दर्शितत्वादिति (कं. 148.13) पृथिव्यधिकारे हि परमाणुभ्यां द्वयणुकं त्रिभिवणुकैस्त्र्यणुकमारभ्यते इति प्रोक्तम्, अतः कथमतीन्द्रियत्वप्रसङ्ग इत्यर्थः / तत्सहिता इति (कं. 148.15) द्वयणुकसहिता। महत्त्वानेकद्रव्यवत्त्वरूपविशेषाणामिति (कं. 148.16) रूपविशेष उद्भूतरूपता। महत्वानेकद्रव्यवत्वं च रूपविशेषश्चेति द्वन्द्वः / तेष्विति (कं. 148.17) उपलब्धिकारणेषु / अतीन्द्रियाश्रयत्वादतीन्द्रियत्वमिति [कु०] यथादर्शनं "व्यवस्थानादिति (कं. 148.12) शरीरस्य (स्या) पाकनिक्षिप्तकुम्भतुल्यतया विनाशकारणं सम्भवतीति भावः / परमाणनामिति (कं. 148.13) महद्रव्यं कार्यरेवारभ्यते इति द्रव्याधिकारे प्रदर्शितमिति भावः / परमाणनां महदारम्भमभ्युपगम्यापि परिहरति 'अथ यदीति (कं. 148.14) / अतीन्द्रियत्वे साध्ये अतीन्द्रियाश्रयत्वं त्र्यणुकादौ व्यभिचरतीत्यर्थः / द्वयणुकारम्भ इति प्रार्थ्यते इत्यत आह परमाणूनामिति (कं. 148.19) / बहुत्त्वस्य कार्यसमवेतस्य महत्त्वारम्भकत्वमित्यर्थः / 1 परस्य - कं. 1; कं.२। 2 तन्त्वन्तरे चेत्यु...-कं.१; कं. 2; तन्त्वन्तरे च एवं तदधिकं द्रव्यं तेषु तन्त्वन्तरे... -जे.१। 3 तस्मिन्नविनष्ट एव-जे. 2, जे. 3 / 4 न सम्भवत्युपलम्भः पूर्वशरीराणामित्यर्थः --टिप्पण -जे. 3 / 5 सहितास्तु-कं. 1; कं. 2 / 6 व्यगुकारणत्वाभावस्य इति पनि कायामर्थदृष्ट्या अशुद्धः पाठः व्यणुकादि इति कन्दल्यां शुद्ध किन्तु तत्र कारणत्वभावस्येति अशुद्धम् / 7 व्यवस्थापनात् - कं। 8 अथवा - कं / /