________________ टिप्पणपञ्जिकाकुसुमोदगमादिटीकात्रयोपेतम् 361 प्रशस्तपादभाष्यम् द्वाभ्यां तन्त्वाकाशसंयोगाभ्या'मेको द्वितन्तुकाकाशसंयोगः / बहुभ्यश्च तन्तुतुरीसंयोगेभ्य 'एकः पटतुरीसंयोगः / न्यायकन्दली तन्तुकार्ये द्वितन्तुके तदकार्ये च वीरणे समवेतत्वात् संयोगस्य संयोगहेतुत्वमन्यस्यासम्भवात् परिशेषसिद्धम् / प्रत्यासत्तिश्चात्र कार्यैकार्थसमवायः, तन्तुवीरणसंयोगस्य द्वितन्तुकवीरणसंयोगेन कार्येण सहैकस्मिन्नर्थे वीरणे समवायात् / संयोगस्यैकस्य संयोगजनकत्वे गुणाश्च गुणान्तरमारभन्त इति सूत्रविरोधः ? न, सूत्रार्थापरिज्ञानात् / गुणानामपि गुणं प्रति कारणत्वमित्यनेन कथ्यते, न पुनरस्यायमर्थो बहव एव गुणा आरभन्ते, नैको न द्वावित्यवधारणस्याश्रवणात् / यत्पुनरत्र गुणाश्च गुणान्तरमारभन्त इति, कारणवृत्तीनां 'समानजात्यारम्भकाणां गुणानामयं नियमो न सर्वेषामिति समाधानम्, तदश्रुतव्याख्यातृणां प्रकृष्टधियामेव, निर्वहति नास्माकम् / / द्वाभ्यां तन्त्वाकाशसंयोगाभ्यां द्वितन्तुकाकाशसंयोग इति / आकाशं तावदुत्पन्नमात्रेण द्वितन्तुकेन समं संयज्यते, तत्कारणसंयोगित्वात् द्वितन्तुककारणसंयुक्तवीरणवत् / न च तस्य संयोगस्य कारणान्तरमस्ति, अतो द्वितन्तुककारणयोस्तत्वो राकाशसंयोगाभ्यामेव तस्योत्पत्तिः / / बहुभ्यश्च तन्तुतुरीसंयोगेभ्य एकः पटतुरीसंयोगः, पटकारणानां तन्तूनां प्रत्येक तुर्या सह ये संयोगाः, तेभ्यो बहुभ्य एकः पटतुर्योः संयोगो जायते / 'पटारम्भकत्वं च [पं०] न च मूर्तानां समानदेशतादोष इति (कं. 148.4) बहूनां द्वितन्तुवादीनां खण्डावयविनां समानदेशता न प्राप्नोतीत्यर्थः / 'अपरस्येति (कं. 148.6) अवयविनः / तेष्विति (कं. 148.9) द्वितन्तुकादिषु / दुर्घटमिदमिति (कं. 148.9) इदम् अल्पतरतमादिभावेन खण्डावयविग्रहणम् / [कु०] अत एवेति (कं. 148.8) आरभ्यारम्भसाधकस्य प्रत्यक्षस्यानुकूलस्तर्कः / न चैवमन्त्यो यत्पदक्षीन ? द्वितन्तुकानुपलब्धिप्रसङ्गः, ईदृशसमानाद[दे] शस्याभ्युपगमेन तथारम्भस्याप्यविशेषात् / “नष्टेष्विति (कं. 148.9) दुर्घटत्वमवस्थितसंयोगः खण्डपटारम्भे अन्त्यावयविनाशापेक्षितया द्रव्यारम्भे निरपेक्ष इत्यनेन विरोधो यातात् / * अवतिष्ठमाने तु द्वितन्तुकाद्यनपलब्धिप्रसङ्गाच्च / 1 द्वितन्तुकाकाशसंयोगः-जे. दे। द्वितन्त्वाकाश-कि। 2 एकपटतुरी-कि। 3 समानजात्यारम्भकारणान्तंकं. 1, कं. 2 / 4 रकारणाकाशसंयोगाभ्यामेव - जे. 3 / 5 सह संयोगः - कं. 1; कं. 2 / 6 पटारम्भकत्वं तु-कं. 1; कं. 2 / 7 परस्य-कं / 8 विनष्टेषु-के।