________________ 360 न्यायकन्दलीसंबलितप्रशस्तपादभाष्यम् न्यायकन्दली उभयकर्मजो विरुद्धदिक्रिययोः सन्निपातः / याभ्यां दिग्भ्यां द्वयोः 'परस्परदेशमागच्छतोरन्योन्यप्रतीघातो भवति ते विरुद्ध दिशौ, यथा प्राचीप्रतीच्यौ दक्षिणोदीच्याविति। विरुद्धयोदिशोः क्रिया ययोर्द्रव्ययोस्ते विरुद्धदिकक्रिये, तयोः सन्निपात उभयकर्मजः संयोगः, प्रत्येकमन्यत्र द्वयोरपि सामर्थ्यावधारणात् / यथा मल्लयोर्मेषयो।त्युदाहरणम् / संयोगजस्तु संयोग उत्पन्नमात्रस्य चिरोत्पन्नस्य वा निष्क्रियस्य कारणसंयोगिभिरकारणैः कारणाकारणसंयोगपूर्वकः कार्याकार्यगतः / कारणशब्देनात्र समवायिकारणम'भिमतम्, अकारण'शब्देन च समवायिकारणादन्यदुच्यते। शेषमुदाहरणे व्यक्तीकरिष्यामः। स चैकस्माद् द्वाभ्यां बहुभ्यश्च भवति / 'एकस्मात् तावत् तन्तुवीरणसंयोगाद् द्वितन्तुकवीरणसंयोगः। वीरणसंयुक्तस्य तन्तोस्तन्त्वन्तरेण संयोगादुत्पन्नमात्रस्य 'द्वितन्तुकद्रव्यस्य निष्क्रियस्य समवायिकारणभूतैकतन्तुसंयोगिना वीरणेन संयोगः प्राक्तनात् तन्तुवीरणसंयोगादेकस्माद्भवति, स चायं कारणाकारणसंयोगपूर्वकः कथ्यते, द्वितन्तुकस्य समवायिकारणं तन्तुरकारणं वीरणं तयोः संयोगेन जनितत्वात् / कार्याकार्यगतश्चायं [पं०] (कं. 147.20) / 'समानजात्यारम्भकाणामेव गुणानामिति (कं. 147.22) रूपादीनाम् / अथ नियम इति (कं. 147.23) बहव एवारभन्ते इत्येवंरूपः / न सर्वेषामिति (कं. 147.23) कोऽर्थः ?,संयोगस्त्वेकोऽप्यारभते / इति समाधानमिति (कं. 147.23) व्योमशिवेनोक्तम् / अश्रुतव्याख्यातृणामिति (कं. 147.23) अश्रुतमेव गुरुभ्यः स्वमनीषिकया ये व्याचक्षते [ते]षां व्योमशिवादीनां / नास्माकमिति (कं. 147.24) यतो व्योमशिवव्याख्यानेऽस्मिन् परमाणुद्वयगतरूपयोर्बहुत्वाभावात् / तत्कारणसंयोगित्वादिति (कं. 147.25) द्वितन्तुककारणं द्वौ तन्तु, ताभ्यां सह संयुक्तमाकाशम् / न च तस्य संयोगस्य कारणान्तरमस्तीति (कं. 147.26) किन्तु द्वितन्तुका [का] शसंयोगस्य तन्तुद्वयाकाशसंयोग एव कारणमित्यर्थः / तस्योत्पत्तिरिति (कं. 148.1) द्वितन्तुकाकाशसंयोगस्योत्पत्तिः। . [क०] आकाशस्य द्वितन्तुकेन संयोगे प्रमाणमाह आकाशं तावदिति (कं. 147.24) / पटस्तु काया[य] स्तन्त्वन्तरे च एतादश्याः सहानवस्थिति-दर्शनात्स्वदेशेऽपि त्रितन्तुकस्थितिद्वितन्तकं न विरुणद्धीत्यङ्गीकर्तव्यमेव एवमनङ्गीकारे तु सतोरेव समवाय्यसमवायिनो विप्लु[त] तन्तुकेऽस्याकारणको विनाश: कल्पनीयः स्यात् / न तृतीयतन्तुसंयोगस्य विनाशकारणत्वं, नो (त) दनाभिधातव्यतिरिक्तस्य संयोगस्योत्पादने (नं) प्रत्येव सामर्थ्यावधारणादिति भावः / 1 परस्परमागच्छतो-कं. 1; कं. 2 / 2 अभिप्रेतम - जे. 2; जे. 3 / 4 एकस्मात्तन्तु-कं. 1; कं. 2 / 5 द्वितन्तुकस्य-जे. 1; जे. 2 / 7 समानजात्यारम्भकाणामयं नियमः-कं.। 3 शब्देन समवायि - कं. 1; कं. 2 / 6 कारणाकारणपूर्व-कं. 1; कं. 2 /