________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपेतम् 359 प्रशस्तपादभाष्यम् संयोगजस्तूत्पन्नमात्रस्य विरोत्पन्नस्य वा 'निष्क्रियस्य कारणसंयोगिभिरकारणः कारणाकारणसंयोगपूर्वकः कार्याकार्यगतः संयोगः। स चैकस्माद् द्वाभ्यां बहुभ्यश्च भवति / एकस्मात्तावत् तन्तुवीरणसंयोगाद् द्वितन्तुकवीरणसंयोगः / न्यायकन्दली प्रथमं श्येन चरणस्थाणुशिरसोः संयोगः, तदनु स्थाणुश्येनावयविनोः। तत्रावयवयोः संयोगः कर्मजः, अवयविनोस्तु संयोगजः संयोग इति केचित् / तदप्यसारम्, 'सक्रियस्याप्यवयविनः 'क्रियात एवावयव्यन्तरेण संयोगात् / यदि चैवं नेष्यते, अवयवानामपि स्वावयवापेक्षयावयवित्वेन सर्वत्रावयविषु कर्मजस्य संयोगस्योच्छेदः 'स्यात्, तथा सति चावयविनि कर्माभावो वक्तव्यः, त्यक्तव्यं वावयविकर्मणः संयोगविभागयो'रनपेक्षकारणं 'कर्मति कर्मलक्षणमिति / दुरक्षरदुर्विदग्धानां युक्तिमाचार्यवचनं चोत्सृजतामन्धानामिव पदे पदे कियत् स्खलितं 'उपदर्शयिष्यामः / वारभ्यारम्भकपक्षे विश्वस्यातीन्द्रियत्वमित्येव दूषणमस्ति तत्कथं पथि व्यधिकारे दर्शितत्वादित्युक्तमत ‘आरभ्यारम्भकवादमुपदर्शयन् विश्वस्यातीन्द्रियत्वं च परिहरन्नाह 'अथ यदि परमाणव इति / पिं०] अयं संयोगः / अन्यस्यासम्भवादिति (कं. 147 15) निष्क्रियस्येत्यनेन कर्मणो निषेधात संयोगो हि संयोगस्या समवायिकारणं प्रत्यामत्तौ स्यादतः प्रत्यासत्ति दर्शयति "प्रत्यासत्तिश्चात्रेत्यादि (कं. 147.15) पर: प्राह संयोगस्यकस्येत्यादि. (कं. 147.19) ! 'गुणान्तरमारभन्त इति सूत्रविरोध इति (कं. 147.19) अत्र सूत्रे गुणा इति बहुवचनात् बहव एव गुणाः खल गुणान्तर[मार भन्ते न त्वेको द्वौ इत्यर्थः सम्भवति / भवता तु संयोगस्य 'गुणस्यैकस्यापि संयोगाख्यगुणान्तरारम्भकत्वं प्रोच्यते तत्कथं न सूत्रविरोध इति पराभिप्रायः / सूरिराह नेत्यादि किला अवधिभेदेन दिग्द्वयस्य सहावस्थानसम्भवाहिशोः किं कृतो विरोध इत्यत आह याभ्यामिति (कं. 147.2) / वीरण (णे) तयोरपि निमित्तकारणत्वात् कथं कारणाकारणसंयोगपूर्वकत्वं ताभ्यां द्वितन्तुकादिसंयोगस्येत्यतं अकारणेति तन्त्वन्तरमिति वीरणेनासंयुक्तमिति शेषः / सूत्रे बहुवचनं विवक्षितमिति भ्रान्तश्चोदयति संयोगस्येति (कं. 147.18) / परिहरति-नेति (कं. 147.19) / तदश्रुतेति (कं. 147.22) तन्मते परमाणुवृत्तिभ्यां गुणाभ्यां व्यणुके कस्यचिदपि गुणस्य नारम्भावयणुकस्य निर्गुणत्वप्रसक्तौ तन्मूलस्य व्यणुकादिकार्यप्रवाहस्य निर्गुणत्वप्रसक्तिरिति महानयं दोष इत्युपलम्भार्थः / 1 अक्रियस्य -जे. व्यो (489) / 2 सक्रियस्यावयविनः-जे. 1, जे. 2 / 3 क्रियावत - कं. 1, कं. 2 / 4 स्यादिति - कं. 1, कं. 2 / 5 रनपेक्ष्य-जे. 3 / 6 कर्मेति लक्षणम् - जे. 1, जे. 2, जे. 3 / 7 दर्शयिष्यामः -कं. 1, कं. 2 / 8 आरम्भवाद - अ, ब, क, 9 अथवा-मु. जे.१, जे. 3 / 10 अत्र प्रत्यासत्तिश्चात्रेत्यातंतंबीदि-इति पाठोऽशुद्धः / शुद्धस्तु परिकल्प्य स्थापितः / 11 द्रव्याणि द्रव्यान्तरमारभते गुणाश्च गुणान्तरम् (वै. सू.