________________ न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् प्रशस्तपादभाष्यम् तत्रान्यतरकर्मजः क्रियावता निष्क्रियस्य, यथा स्थाणोः श्येनेन, विभूनां च मूतः / उभयकर्मजो विरुद्धदिकक्रिययोः संनिपातः, यथा मल्लयोर्मेषयोर्वा / _ न्यायकन्दली चशब्दोऽवधारणे-संयोगस्त्रिविध एव। त्रैविध्यमेव दर्शयति-अन्यतरकर्मज इत्यादिना / द्वयोः संयोगिनोर्मध्ये यदन्यतरद् द्रव्यं तत्र यत्कर्म तदन्यतरकर्म तस्माज्जातोऽन्यतरकर्मजः / उभयोव्ययोः कर्मणी उभयकर्मणी ताभ्यां जात उभयकर्मजः / 'संयोगादपि संयोगो जायते / तत्रान्यतरकर्मजः / तत्र तेषां त्रयाणां मध्ये 'क्रियावता द्रव्येण निष्क्रियस्य द्रव्यस्य संयोगोऽन्यतरकर्मजः। अस्योदाहरणम्-यथा स्थाणोः श्येनेन विभूनां च मृत्तः / निष्क्रियस्य स्थाणोः क्रियावता श्यनेन सह संयोगः श्येनकर्मजः / एवमाकाशादीनां विभनां निष्क्रियाणां क्रियावद्भिर्मूर्तेरसर्वगतद्रव्यपरिमाणैः मूर्तद्रव्यकर्मजः / नन्वेकस्य मन्दं गच्छतोऽपरेण तत्पृष्ठमनुधावतान्यतरकर्मजः संयोगो दृष्टः कथमुक्तं क्रियावता निष्क्रियस्येति ? सत्यम् / निष्क्रियत्ववाचोयुक्तिस्तु विवक्षितसंयोगहेतुभूतकर्माभिप्रायेणेति मन्तव्यम् / [टि०] संयोगजे संयोगे जनयितव्ये गुणकारम्भे तु सापेक्ष इति सूत्रकारप्रतिपादनात् 'पूर्वः संयोगः स्वोत्पत्त्यनन्तरमदृष्टविशेषमपेक्षते पाक जगुणारम्भे वह्निसंयोगस्योष्ण्यापेक्षस्यैव कारणत्वदर्शनात् / परमाणूनां 'त्र्यणुकादी इति :महतः कार्यद्रव्यस्य कार्यद्रव्यारब्धत्वनियमादिति पृथिव्यधिकारे दर्शितम् / [पं०] 'संयोगः (ग) उत्पन्नमात्रस्य चिरोत्पन्नस्य वेति (कं. 147.6) उत्पन्नमात्रस्योदाहरणमिहैव वक्ष्यते / चिरोत्पन्नस्य तूदाहरणं विभागे वक्ष्यते / तन्तुवीरणसंयोगादिति (कं. 147.10) वीरणशब्देन कूर्चकमुच्यते / निष्क्रियस्येति (कं. 147.11) अनेन कर्मजः संयोगोऽत्र नास्तीत्युक्तम् / 'वीरणसंयुक्तस्य तन्तोः' (कं. 147.10) इत्यत आरभ्य [प्राक्तनात्तन्तुवीरण-संयोया देकस्माद्भवतीत्यन्तेन सन्दर्भेणोक्तस्यार्थ[स्य] स्पष्टतार्थ यन्त्र कमिदं द्रष्टव्यम् / द्विकार्याकार्यगतश्चायमिति (कं. 147.14) [कु०] भसर्वगतेति (कं. 146.18) परमाणुश्विरोत्पन्नघटादिभिश्चेत्यर्थः / अचिरोत्पन्नस्य घटादेः कारणाकारणसंयोगजः कारणसंयोगपूर्वक: कार्याकार्यसंयोग इति विवेक्तव्यम् / ___सक्रियस्येति (कं. 146.23) चरण इव श्येनेऽपि क्रिया तावदस्त्येव / न च तया संयोगारम्भे कश्चिदन्तराय इति भावः / 1 स्त्रिविधः-जे. 1 / 2 यत्कर्म तस्माज्जातो-कं. 1, कं. 2 / 3 संयोगाच्च-जे. 1; जे. 2 / 4 क्रियावता निष्क्रियस्य -जे. 2 / 5 पूर्वसंयोगः-8; 6 त्र्यणकादीनि-अ, ब; 7 संयोग:-कं /