________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटोकात्रयोपैतम् 357 प्रशस्तपादभाष्यम् [142] अथ कथं लक्षणः ? कतिविधश्चेति। अप्राप्तयोः प्राप्तिः संयोगः। स च त्रिविधःअन्यतरकर्मजः, उभयकर्मजः, 'संयोगजश्च संयोग इति / न्यायकन्दली [142] संयोगः संयुक्तप्रत्ययनिमित्तमित्यवगतं तावत्, 'किन्त्वस्य स्वरूपं भेदश्च न ज्ञायते तदर्थ 'परिपृच्छति-अथ कथं लक्षणः कतिविधश्चेति / अथेति प्रश्नोपक्षेपे, कथंशब्दः किंशब्दार्थे, यथा को धर्मः कथं लक्षण इति / लक्षणशब्दश्च स्वरूपवदन इति किस्वरूपः संयोगः ? कतिविधश्चेति कतिप्रकार इत्यर्थः / लक्षणं कथयति-अप्राप्तयोः प्राप्तिः संयोगः। पूर्व मप्राप्तयोव्ययोः पश्चाद्या प्राप्तिः परस्परसंश्लेषः स संयोगः / अप्राप्तयोरिति समवायव्यवच्छेदार्थम् / इदानीं तस्य भेदं प्रतिपादयति-स च त्रिविध इति / [टि०] [142] त्यक्तव्यं वा इति :-"स्वाश्रये इति ज्ञेयम्, अन्यथा श्येनकर्मणोऽपि स्वावयवसंयोगविभाग कारणत्वेन लक्षणत्यागवचनमनुपपन्नं स्यात् / गुणाश्च गुणान्तरम् इति बहव एव गुणा न त्वेकः संयोग आरम्भक इति भावः / "तवश्रुतव्याख्यातृणाम् इति :- अत्र च व्याख्याने परमाणुद्वयगतरूपयोर्बहुत्वाभावावयणुके रूपं न स्यात् / अत्र च [पं०] [142] विभूनामिति (कं. 146.16) व्यापकद्रव्याणामाकाशादीनाम् / कथमुक्त क्रियावता निष्क्रियस्येतीति (कं. 146.19) किन्तु सक्रियस्यापि भवतीति पराभिप्रायः / विवक्षितसंयोगहेतभूतकर्माभिप्रायेणेति (कं. 146.20) विवक्षितसंयोगहेतुभूतं च कर्म पृष्टानुधाविन एवेत्यन्यकर्मजत्वम् / मन्दं गच्छतस्तु न संयोगहेतुभूतं कर्मेत्यर्थः / अवयवयोरिति (कं. 146.22) चरणशिरसोः। संयोगज इति (कं. 146.22) अवयवसंयोगाज्जातम् / केचिदिति (कं. 146.23) व्योमशिवादयः / त्यक्तव्यं वाऽवयविकर्मणः संयोगविभागयोरनपेक्षकारणं कर्मेति लक्षणमिति (कं. 146.26) तच्चावयवि कर्मणि अयमत्र तात्पर्यार्थः संयोगविभागयोरनपेक्षं सत्कारणं कर्मति कर्मलक्षणम / तच्चावयवि कर्मणि न घटते तन्मते अवयवसंयोगजत्वादवयविसंयोगस्य / अतोऽवयवसंयोगापेक्षत्वान्नवयविकर्मणो नापेक्षकारणत्वम् / [कु०] [142] किन्त्वस्येति (कं. 146.4) प्रत्ययेन प्रत्येतव्यमात्रसिद्धेरवान्तरव्यावर्तकधर्माज्ञाने ब्यावृत्तस्वरूपं दुनिमित्यर्थः / कथं शब्दः कि शब्दार्थ (कं. 146.6) इति-विभक्तिप्रतिपत्तिरूपकव्युत्पन्न इत्यर्थः / लक्षण शब्दः स्वरूपवचन इति कर्मणि ल्युडन्तः व्यावृत्तः स्वरूपवचन इत्यर्थः / अत एव व्यावृत्ते व्यावर्तकाधानतया लक्षणं कथयतीत्यनेनाविरोधः / इदानीमिति (कं. 146.10) विभागव्याख्यानं सुगमम् / 1 संयोगजश्व - कं. 1, कं. 2, देः संयोगजश्चेति -कि। 2 किन्तु तस्य -जे. 3 / 3 पृच्छति - जे. 1, जे. 2 / 4 मप्राप्तयोः पश्चात् -जे. 2 / 5 भाश्रये-अ, ब, क; 6 करणत्वेन-अ, ब, क / 7 तवश्रुत-अ, ब, 8 शन्दश्च -कं /