________________ 356 न्यायकन्वलीसंवलितप्रशस्तपादभाष्यम् न्यायकन्दली न, नित्यानां कर्मणामकरणात् प्रत्यवायस्योत्पादात्, अन्यथा नित्याकरणे प्रायश्चित्तानुष्ठानं न स्याद्वैयर्थ्यात् / नित्यानामकरणेऽन्यकरणात् प्रत्यवायो न तु नित्याकरणस्य करणप्रागभावस्य हेतुत्वमिति 'चेत् ? न, नित्याकरणस्यापि तद्भावभावित्वनियतस्य सहायत्वेन व्यापारात् / ननु यदि प्रतिबन्धकस्य प्रयोगे तदभावो निवृत्त इति दाहस्यानुत्पत्तिस्तदा प्रतिबन्धकप्रतिबन्धकेऽपि दाहो न स्यात्, तत्कारणस्य प्रागभावस्य निवृत्तत्वात्। दृश्यते च प्रतिबन्धकस्यापरेण मन्त्रादिना प्रतिबन्धे सति दाहः, तेन नाभावः कारणमित्य'वस्थिते च शक्तिः कारणम् / सा च प्राक्तनेन प्रतिबद्धा द्वितीयेनोत्तम्भितेति कल्पना अवकाशं लभते / तदप्यपेशलम्, दृष्टे सम्भवत्यदृष्टकल्पनानवकाशात् / कदाचित् प्रतिबन्धकमन्त्राद्यभावसहिता सामग्री कारणम्, कदाचिद् द्वितीय'मन्त्रादिसहिता कारणमित्यस्यां कल्पनायां को विरोधः ? यदनुरोधाददृष्टमाश्रीयते / दृष्टो होकरूपस्यापि कार्यस्य सामग्रीभेदः, यथा दारुनिर्मथनप्रभवो वह्निः सूर्यकान्तप्रभवश्चेति तर्कसिद्धान्तरहस्यम् / मीमांसासिद्धान्त रहस्यं तु तत्त्वप्रबोधे कथितमस्माभिः / [पं०] दोषस्य / अन्यकरणादिति (क. 145.21) स्त्रीसेवादिकरणात् / नित्याकरणस्येति (कं. 145.21) व्याख्येयं पदं करणप्रागभावस्येति (कं. 145.21) व्याख्यानं पदम् / हेतुत्वमिति (कं. 145.22) प्रत्यवायं प्रति / तद्धावभावित्वनियतस्पेति (कं. 145.22) अन्यकरणभावभावित्वनियतस्य / सहायत्वेन व्यापारादिति (कं. 145.22) न ह्यन्यकरणेन प्रत्यवाय: किन्तु नित्याकरणत्वे सति अन्यकरणं प्रत्यवायजनकम् अतः सहायत्वेन विशेषणत्वेनाभावस्यापि हेतुत्वमिति भावः / तदमा[व] इति (कं. 145.23) प्रतिबन्धकाभावः / प्रतिबन्धकप्रतिबन्धेऽपीति (कं. 145.24) दाहप्रतिबन्धकस्य स्तम्भकमन्त्रस्य उत्तम्भकमन्त्रण प्रतिबन्धे सत्यपीत्यर्थः / तत्कारणस्य प्रागभावस्य निवृत्तत्वादिति (कं. 145.24) यदा प्रतिबन्धकस्य प्रयोगः कृतस्तदा प्रागभावस्तेषां निवृत्त इति दाहानुत्पाद: प्रागभावस्य तत्कारणस्य निवृत्तत्वात् / पुनर्यदा उत्तम्भकमन्त्रादिना प्रतिबन्धकानां प्रतिबन्धः कृतस्तदापि दाहो न प्राप्नोति दाहकारणस्य निवृत्तत्वात् प्रागभावस्य प्रागेव निमित्तत्वात् / प्रागभावो हि अनादि: सान्तस्ततः सकृद्विनष्ट: कथं पुनरु [त्प] द्यतामिति भावः / प्रतिबन्धकस्यति (कं. 145.25) दाहस्तम्भकस्य मम्बादेः / अपरेणेति (के. 145.25) उत्तम्भकेन / 'द्वितीयमन्त्रसहितेति (कं. 146.1) उत्तम्भकमन्त्रसदिता / अ (कं. 146.2) शक्त्याख्यम् / एकरूपस्यापीति (कं. 146.2) उभयत्रापि स्फोटजननात् / च शब्दोऽवधारणे इति (कं. 146.11) भिन्नक्रमश्चेत्यपि द्रष्टव्यम् / [१०]परिहरति नेति (कं. 145.19) / मा भू [त्] प्रत्यवाय इत्याह अन्यथेति (कं. 145.20) / 'न नित्याकरणस्येति (कं. 145.21) अन्वयव्यतिरेकसाम्ये पक्षपातो निष्प्रमाण इत्यर्थः / न चानियतहेतुकत्व उत्तम्भकाभावविशिष्टस्यैव च मन्त्रादेः प्रतिबन्धकत्वादित्येवं सम्भवत्यपि परिहारे 'कार्ययातिभेदमामृत्यपि परिहरति दृष्टोहीति (कं. 146.2) / अत[स्तस्य शक्यस्य शक्यकरणादित्यसिद्धो हेतुरित्यर्थः / 1 चेत् नित्याकरणस्य - कं. 1, कं. 2 2 त्यवस्थितेयं - कं. 1, कं. 2; त्यवस्थिते शक्तिः कारणम् - जे. 3 / 3 मन्त्रसहिता-जे. १,जे. 2 / 4 रहस्यं तत्त्वप्रबोधे-कं. 1, कं. 2 / 5 द्वितीयादि-कं। 6 न तु-के। 7 कारण - Ms. / 8 नार्थः स्पष्ट:-सं /