________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपेतम् 355 न्यायकन्दली योरन्यतरविनाशाद्विनश्येत् ? अथ गुणानतिरेकिणी ? तदाश्रयविनाशाद्विरोधिगुण'प्रादुर्भावाद्वा विनश्यदिति, समवायस्यानभ्युपगमात् / यस्य यतो विनाशं प्रतीमस्तस्य तमेव विनाशहेतुं ब्रूमो न पुनरमुं त्वत्कृतं समयमभ्युपगच्छामः, प्रतोतिपराहतत्वात् / यदि चावश्यमभ्युपेयस्तदा द्रव्यगुणयोरेव विनाशं प्रत्यभ्युपगम्यतां यत्र परिदृष्टः, शक्तिः पुनरियं सादृश्यवत् पदार्थान्तरं प्रकारान्तरेणापि विनंक्ष्यति / कार्योत्पादानुत्पादाभ्यां वह्नावधिगता शक्तिः 'कुत इयं सर्वभावेषु कल्प्यते इति 'चेत् ? यत्किञ्चिदेतत्, एकत्र तस्याः कार्योत्पादानुगुणत्वेन 'कल्पितायाः सर्वत्र तदुत्पत्त्यैवात्रानुमानात् / ___ अत्रोच्यते-न मन्त्रादिसन्निधौ कार्यानुत्पत्तिरदृष्टं रूपमाक्षिपति / यथान्वयव्यतिरेकाभ्याम'वळूतसामर्थ्यो वह्निर्दाहस्य कारणम्, तथा प्रतिबन्धक मन्त्रादिप्रागभावोऽपि कारणम् / स च मन्त्रादिप्रयोगे सति निवृत्त इति सामग्रीवैगुण्यादेव दाहस्यानुत्पत्तिर्न तु शक्तिवैकल्यात् / भावस्य भावरूपकारणनियतत्वदर्शनादभावकार्यत्वं नास्तीति चेत् ? [पं०] (कं. 145.4) वह्नयुद्देशेन मन्त्रस्य प्रयुक्तत्वादित्यर्थः / तदुद्देशेन प्राप्तत्वादित्यपि पाठः सोऽपि सुगमः / संयुक्तसमबायलक्षण: सम्बन्धोप्यत्रास्ति, यतो वह्निना संयुक्ते आकाशे मन्त्ररूपशब्दस्य समवायादिति सम्बन्धाभावोप्यसिद्ध इति / इत्यप्यूह्यम् ? अभिचार इति (कं. 145.4) मारणाद्यात्मकः / व्यक्तिमिति (कं. 145.5) वह्निव्यक्तिम् / समवाय्यसमवायिकारणयोरिति (कं. 145.7) समवाथिकारणं वह्निः, असमवायिकारणं शक्तिवह्निसंयोगः / गुणानतिरेकिणीति (कं. 145.8) स्पर्शनामनि गुणेऽन्तर्भावात् / विरोधि गुणप्रादुर्भावाद्वा विनश्येदिति (कं. 145.8) यथा पाकजोत्पत्तौ श्यामादयः / समयस्येति (कं. 145.9) त्वत्समयस्य / त्वत्कृतमिति (कं. 145.10) त्वया वैशेषिकेण कृतम् / अभ्युपेय इति (कं. 145.11) त्वत्समयोऽङ्गीकर्तव्यः / द्रव्यगुणयोरेव विनाशं प्रत्यभ्युपगम्यतामिति (कं. 145.11) द्रव्यगुणयोरेव विनाशं प्रति विनाशे हेतुरङ्गीक्रियतामित्यर्थः / सादृश्यवदिति (कं. 145.12) उपमानसाधनाय सादृश्यं नाम पदार्थो भाट्टः कल्पते / प्रकारान्तरेणापि विनंक्ष्यतीति (कं. 145.12) पदार्थान्तरत्वादेव मन्त्रादिना विनंक्ष्यतीत्यर्थः / तदुत्पत्ताविति (कं. 145.14) कार्योत्पत्तौ। तदुत्पत्ताव [नु] मानादित्यत्र शक्ति: कल्प्यते इत्यनेन योगः / __अदृष्टं रूपमिति (कं. 145.15) शक्तिलक्षणम् / भावस्य भावरूपकारणनियतत्वदर्शनादिति (कं. 145.18) दाहो भावः, स च भावरूपादेव कारणाद् भवितुमर्हति कथमभावात् ? / अभावकार्यत्वं नास्तीति (कं. 145.19) दाहोऽभावकार्यत्वं न प्राप्नोतीत्यर्थः / नित्यानां कर्मणामिति (कं. 145.19) देवपित्रतिथिभूतयज्ञा हि नित्यमनुष्ठानं दर्शपौर्णमासाद्याश्रयनैमित्तिकम् / अकरणादिति (कं. 145.19) अभावरूपात् / प्रत्यवायस्येति (कं. 145.20) [कु०] अर्थापत्तिमन्यथोपपत्त्या दूषयति अत्रोच्यत इति (कं. 145.15) / प्रागिति विशेषणम् / यत्र मन्त्रादिनाऽयं निविषीभावः सपर्यादीनां तद्विषयं द्रष्टव्यम् / परमार्थस्तू कारणस्वरूपाविनाशक एवं प्रतिबन्धकः। तज्जातीयसंसर्गाभावोऽपि कारणमिति भावः / कारणत्वस्य भावकनियतत्वान्नाभावः कारणमिति शङ्कते "भावस्वरूपेति (कं. 145.18) / 1 प्रादुर्भावाद्धि-जे. 2 / 2 कुत एव - जे. 1; कं. 1, कं. 2 / 3 चेत् एकत्र-कं. 1; कं. 2 / 4 अवधारिताया:-जे. 1, जे. 2 / 5 यथा हि-जे. 1, जे. 3 / 6 अवधारित -जे.२ / 7 मन्त्रादे:-जे. 1, जे. 2 / 8 कन्दल्या नास्ति / 9 तदुत्पत्त्यैव-कं / 10 भावरूप - क /