________________ 354 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् न्यायकन्दली एतत्तु विमृश्यतां केयं शक्तिरिति ? अतीन्द्रिया काचिदित्यार्याः / तदयुक्तम्, तस्याः सद्भावे प्रमाणाभावात् / अथ मन्यसे यथाभूतादेव वह्नहोत्पत्तिरवगता तथाभूतादेव मन्त्रौषधिसन्निधाने सति न दृश्यते, यदि दृष्टमेव रूपं दाहस्य 'कारणं तस्य समग्रस्य सम्भवाद् दाहानुत्पादो न स्यात् / अस्ति च तदनुत्पत्तिः, 'सेयं दृष्टरूपस्य वैगुण्यं गमयन्ती हुतभुजि शक्तेरतीन्द्रियायाः सत्त्वं कल्पयति, यस्या मन्त्रादिनाभिभवो विनाशो वा क्रियते / यत्र प्रतीकारवशेन पुनः कार्योदयस्तत्राभिभवः, यत्र तु सर्वथैवानुत्पत्तिः कार्यस्य तत्र विनाशः / न चैतद्वाच्यम्-न मन्त्रो वह्निसंयुक्तो नापि तत्समवेतः कथं व्यधिकरणां क्ति विनाशयेत्, विनाशयति चेदतिप्रसङ्गः स्यादिति, 'तद्देशेन प्राप्तत्वात् / यथैवा सम्बद्धोऽप्यभिचारो यमुद्दिश्य क्रियते तमेवं हिनस्ति न पुरुषान्तरम्, एवं यामेव व्यक्तिमभिसन्धाय मन्त्रः प्रयुज्यते तस्या एव शक्ति निरुणद्धि न सर्वासाम् / नाप्येतदुद्घोषणीयम्-यदि शक्तिर्द्रव्यात्मिका ? समवाय्यसमवायिकारण [टि०] इति / नित्यानां सन्ध्यावन्दनादीनाम् / न तु नित्याकरणस्य इति :- अस्यैव व्याख्यानं कारणप्रागभावस्येति / ननु यद्येकमेव कार्यमनेकस्मात् कारणादुत्पद्यते तदा प्रत्येकमेकस्य कार्य करणकाले द्वितीयस्याकारणत्वदर्शनादहेतुकत्व(दहेतुत्व) मेव स्यादत आह दृष्टो होकरूपस्यापि इति :- स्फोटरूपतया चात्रकरूपता अवान्तरभेदस्य तु सूक्ष्मस्य विद्यमानत्वात् / [पं01 उत्पत्तेः प्रागपि कारणे कारणं शक्तिरूपतयाऽस्तीति वादिनं साङ्ख्यमाशङ्खच वैशेषिक: शक्तिममन्यमानः प्राह एतत्तु विमृश्यतां केयं शक्तिरितीति (कं. 144.24) / अतीन्द्रिया काचिदित्याचार्या इति (कं. 144.24) शक्तयः सर्वभावानां कार्यार्थापत्तिगोचराः / इति वादिनो मीमांसका अतीन्द्रियां शक्ति मन्यन्ते इत्यर्थः / यदि दृष्टमेव रूपं वाहस्य कारणमित्य(कं. १४४.२६)स्मा त्पुरस्त देत्यध्याहार्यम् / दाहानुत्पाद इति (कं. 144.27) स्फोटजननानुत्पाद: / "दृष्टरूपस्येति (कं. 144.28) भास्वरतादेः / 'प्रतीकारवशेनेति / उत्तम्भकमन्त्रादिन! / न मन्त्रो वह्निसंयुक्तो नापि समवेत इति (क. 145.2) कोऽर्थः ? नात्र संयोगो नापि समवाय इत्यर्थः / व्यधिकरणमिति (कं. 145.3) भिन्नाधारम् / शक्तिहि वह्नावस्ति न मन्त्रे / अतिप्रसङ्गः स्यादिति (कं. 145.4) सर्वजगतिनामपि वह्नीनां विनाशप्राप्तेः / तदुद्देशेन 'प्रयुक्तत्वादिति [कु०] विविनक्ति यत्रेति (कं. 145.1) / परिहाराभासमाशङ्कय परिहरति "न सदुद्देशेति (कं..१४५.४) / परिहाराभासान्तरमाशङ्कय निराकरोति नाप्येतदिति (कं. 145.6) / समस्य षडेव पदार्था इति / समयस्य विनाशप्रक्रियासमयस्य वेत्येवेत्यर्थः / 1 कारणं स्यात्तस्य सम्भवाद्-कं. 1, कं.२।२ अदष्टरूपस्य इति सर्वत्रपाठः किन्तु नरचन्द्रसूरिटिप्पणे 'दष्टरूपस्य' इति मर्थानुसारी पाठः स चास्माभिः समीचीनत्वात्स्वीकृतः-सं। ३न तदुद्देशेन प्रयुक्तत्त्वाभावात् - जे. 1 / 4 सम्बद्धोऽभिचारो- जे. 2 / 5 अभिध्याय - जे. 2 / 6 कारण - अ, ब, ड; 7 अदृष्टरूपस्य - कं / 8 अप्रतीकारवशेन - अ। 9 प्राप्तत्त्वात् - कं। 10 तदुद्देश-कं।