________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटोकात्रयोपेतम् 353 न्यायकन्दली सबसतोरेकत्र न विरोध इति चेत् ? कालभेदेन समावेशात् / प्रागुत्पतेः पटस्य धर्मिणोऽभावात् कथमसत्त्वं तस्य धर्म इति चेत् ? यादृशो यक्षस्तादृशो बलिः, सत्त्वमसतो धर्मो न स्यादसत्त्वं त्वसत एव युक्तम् / यदसत्पूर्वमासीत् तस्य कथं सत्त्वमिति चेत् ? कारणसामर्थ्यात्, अस्ति स कोऽपि महिमा तुर्यादीनां यदेतेषु सम्भूय व्याप्रियमाणेष्वसम्मेव 'पटः संभवति / असतोऽसम्बद्धस्य जन्यत्वेऽतिप्रसक्तिरिति 'चेन्न, तन्तुजातीयस्य पटजातीय एव सामर्थ्यात् / कुत एतत् ? त्वत्पक्षेऽपि कुत एतत् ? तन्तुष्वेव पटात्मता न सर्वत्रेति ? वस्तुस्वाभाव्यादिति चेत् ? सैवात्रापि भविष्यति / अत एव चोपादान'नियमोऽपि अन्वयव्यतिरेकाभ्यां तज्जातीय नियमेन तज्जातीयस्य शक्त्यवधारणात् / यत्पुनरेतत् कार्यकारणयोरव्यतिरेकात् कारणावस्थानादेव कार्यस्याप्यवस्थानमिति, तदसिद्धमसिद्धन साधितम्, कार्यकारणयोः स्वरूपशक्तिसंस्थानभेदस्य प्रत्यक्षसिद्धत्वात् / प्रधानात्मकविश्वस्यातीन्द्रियत्वप्रसङ्गाच्च / तद्देशत्वं तु तदाश्रितत्वमात्रनिबन्धनमेवेत्यलं वृद्धेष्वप्तिनिर्बन्धेन / [टि०] अथ शक्तस्य शक्यकरणादिति प्रस्तावतः 'शक्ति निराचिकीर्षुराह एतत्तु विमृश्यताम् इत्यादि:-आचार्या भट्टाः / यदि दृष्टमेव इति :- रूपं स्वरूपम् / 'सेयं दृष्टेति सेयं मणिमन्त्रादिसान्निध्ये दाहानुत्पत्तिः पूर्वदाह करणकाले दृष्टं 'यद्रपं तस्य वैगुण्य[मसामयं गमयन्ती समर्थायाः शक्तेरतीन्द्रियाया: सद्भावं कल्पयति / मण्यादिना यस्याः प्रतिबन्धे सत्यपि पूर्वदष्टे दाहानत्पत्तिरित्यर्थः / अर्थापत्तेरन्यथोपपत्ति दर्शयति न मन्त्रादी इत्यादि / न नित्यानाम् [पं०] पटजातीयस्येति कार्यस्येत्यर्थः / कारणावस्थानादेवेति (कं. 144.20) कारणास्तित्वादेव साधितमिति (कं. 144.21) हे सांङख्य त्वया। प्रधानात्मत्वे विश्वस्यातीन्द्रियत्वप्रसङ्गाच्चेति (कं. 144.22) कारणात्मकं चेत्कार्य तया विश्वं कार्य प्रधानं कारणम् / प्रधानं चातीन्द्रियं तत्कार्यस्य विश्वस्यातीन्द्रियत्वं प्रसज्जतीत्यर्थः। तद्देशत्वमिति (कं. 144.23) कारणदेशत्वम् अवयवदेशत्वमिति यावत् / तदाश्रितत्वमात्रनिबन्धनमेवेति (कं. 144.23) कारणाश्रितत्वमात्रहेतुकम् अवयवाश्रितत्वमात्रहेतुकमिति यावत् / अलं वृद्धष्वतिनिबंधनेनेति (कं. 144.23) उपहासवाक्यमेतत् / [कु०] प्रत्येकं दूषयितुमाह यच्चोक्तमिति (कं. 144.9) / असदेकेति (कं. 144.10) अरूपास्प [द] स्य दृष्टान्तत्वे तत्त्वव्याघात इत्यर्थः / असदेकस्वभावमिति स्वभावप्रतियोगितया प्रमाणासिद्धमित्यर्थः / कथमिति (कं. 144.11) यदि भावयोविषयम् / .. 1 पट: सन् भवति -जे. 2 / 2 चेन्नैतत्- कं. 1 कं. 2 / 3 नियम:-कं. 1, कं. 2 / 4 नियमने-कं. 1, कं. 2 / 5 शक्ति- अ; 6 सेयमदष्टे - म. जे. 1, जे. 3 / 7 कारण-अ, ब; 8 तद्रूपं - अ, ब; 9 प्रधानात्मके - कं. 1, कं. 2 /