________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटोकात्रयोपेतम् न्यायकन्दली महानुदयो महत्फलमपवर्गलक्षणं यस्मात्सङग्रहादसौ महोदयः सङग्रहः / एतेन सङग्रहस्य पदार्थधम्मैः सह वाच्यवाचकभावः, तत्प्रतिपत्त्या च महोदयेन सह साध्यसाधनभावः सम्बन्धो दर्शितः। [7] नन भोः क एष महोदयो नाम ? (1) 'सवासनक्लेशसमुच्छेदो ज्ञानोपरम इत्येके / तथा च पठन्ति-न प्रेत्य सज्ञास्तीति / तदयुक्तम्, सर्वतः प्रियतमस्यात्मनः समुच्छेदाय प्रेक्षावत्प्रवृत्त्यनुपपत्तेः, बन्धविच्छेदपर्यायस्य मुक्तिशब्दस्यातदर्थत्वाच्च / [टि०] [7] माध्यमिकमाशंकते-सवासना' इति / चित्ते विषयोपरागो वासना। रागद्वेषमोहाः क्लेशाः / ननु बौद्धमते क्लेशानामेव ज्ञानरूपत्वात्तदुच्छेदकथनेनैव ज्ञानोच्छेदे कथिते पुनर्ज्ञानोच्छेद इति व्यर्थम्? नैवम् / "उपरमशब्दस्य सन्तत्युच्छेदार्थत्वात् / न, प्रेत्य इति- प्रकर्षणापुनर्भवेन गत्वा ज्ञानं न भवति. प्रकर्षेण गमने सज्ञायाः पुनरनुत्पत्तिरित्यर्थः / सर्वतः प्रियतमस्य इति - आत्मनो ज्ञानात्मकत्वात / [पं०] [7] सवासनाक्लेशसमुच्छेदे इति - चित्तस्य विषयोपरागो वासना / अविद्या-ऽस्मिता-राग-द्वेषाभिनिवेशा: क्लेशाः / वासनासहितानां क्लेशानामात्यंतिके उच्छे दे सतीत्यर्थः / ज्ञानोपरम इति ज्ञानसंतत्युच्छेदः। इत्येक इतिएके = माध्यमिकाख्या चतुर्थबौद्धाः / न प्रेत्य संज्ञास्तीति-प्रेत्यामुत्रभवान्तरे इति वचनाद्भवान्तरे संज्ञाज्ञानं नास्तीत्यर्थः / सर्वत इति-सर्वेभ्यः पुत्रकलत्रादिभ्यः / आत्मन इति- ज्ञानरूपस्यातदर्यत्वात् / चेति-मक्तिशब्दस्य सम्बन्धविच्छेद एवार्थो, न पुनर्ज्ञानसंतानोच्छेदेऽर्थो भवितुमर्हतीत्यर्थः / [कु.] जनत्वादिति (कं. 3.16) व्यतिरेकव्याप्तिप्रदर्शनमेतत् / हेतुः सुखदुःखाप्तिहानिव्यतिरिक्तत्वादित्यनुसन्धेयः इत्यतो न वैयधिकरण्यं फलवत्सन्निधावफलं तदङ्गमिति न्यायेनापुरुषार्थस्यापि पदार्थधर्माप्रतीतिहेतुभूतस्य सङ्ग्रहस्योपयोगं दर्शयन् सम्बन्ध्य व्याचष्टे एतेनेति (कं. 3.18) / - [7] सवासनेति (कं. 3.21) रागद्वेषमोहा: क्लेशाः / वासनास्तदीयसंस्काराः / ताभिः सह वर्तते ये तेषां समुच्छेदः / सर्वक्षयस्य रागस्य तदपकारिविषयस्य च द्वेषस्य निवृत्तिः। ततश्चालयविज्ञानसन्ततेस्तु छेदोपसर्गः / नत्वात्मा नाम कश्चिदस्तीति सौगताः / तदेतदनुपपन्नं बुद्धीन्द्रियशरीरमनोव्यतिरिक्तस्य नित्यस्य विभोरात्मनः सत्त्वे वासत्त्वे च समुच्छेदस्याशक्तत्वादित्येतत्सुबोधमित्यनादृत्य प्रवृत्त्यनुपपत्तिव्यवहारविरोधं वाऽह सर्वत: प्रियतमस्येति * (कं. 3.22) / विशुद्धाया अनन्तायाश्चित्तसन्ततेरनुच्छेदान्न प्रवृत्त्यनुपपत्तिः, नापि व्यवहारविरोध इति पूर्वस्माद्विशेषः। 1 सवासनासमुच्छेदो-कं. 1; सवासनसमुच्छेदो-कं. 2 / 2 प्रेत्य-प्रकर्षण इत्वा गत्वा-टिप्पण-जे. 1 / . 3 सेवासना-अ; 4 थिते-अ; 5 उपर-ड; 6 आत्तानो-अ, ब.