________________ न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् न्यायकन्दली ___ [6] सम्बन्धप्रयोजनयोरनभिधाने श्रोता न प्रवर्तते, 'प्रयोजनाधिगतिपूर्वक त्वात्सर्वप्रेक्षावत्प्रवृत्तेः। तस्याप्रवृत्तौ च शास्त्रं कृतमपि न कृतं स्यादनुपादेयत्वात् / अतः 'शास्त्रारम्भं समादधानः प्रेक्षावत्प्रवृत्त्यङ्गं तस्य सम्बन्धं प्रयोजनञ्चादौ श्लोकस्योत्तरार्द्धन कथयति--पदार्थधर्मेत्यादि। पदार्था द्रव्यादयः षट्, तेषां धर्माः साधारणासाधारणस्वभावाः सङगृह्यन्ते सङक्षेपेणाभिधीयन्तेऽनेनेति पदार्थधर्मसङग्रहः / प्रवक्ष्यत इति / पदार्थधर्माणां सङक्षेपेणाभिधायकोऽयं ग्रन्थः प्रकृष्टो मया वक्ष्यत इति ग्रन्थकर्तुः प्रतिज्ञा / ग्रन्थस्य चेयं प्रकृष्टता यदन्यत्र ग्रन्थे विस्तरेणेतस्ततोऽभिहितानामिहैकत्र तावतामेव पदार्थधर्माणां ग्रन्थे सङक्षेपेण कथनम् / एतदर्थमेव चास्यारम्भः सत्स्वप्युपनिबन्धान्तरेषु पदार्थधर्माणां सङग्रहः पदार्थधर्मप्रतीतिहेतुः। पदार्थधर्मप्रतीतिश्च न पुरुषार्थः, सुखदुःखाप्तिहान्योः 'पुरुषप्रयोजनत्वात् / तस्मादयमपुरुषार्थहेतुत्वादनुपादेय एवेत्याशङ्कय तस्य पुरुषार्थफलतां प्रतिपादयितुमुक्तं महोदय इति / [टि०] [6] तेषां धर्मा इति- यद्यपि षटपदार्थातिरिक्तस्य धर्मान्तरस्याभावे त एव धर्मास्तथापि “भेदविवक्षया तेषामित्यत्र षष्ठी यथा शिलापूत्रकस्य शरीरमित्यत्र / [पं०] [6] साधारणासाधारणस्वभावा इति - नवपुराणादयः साधारणाः, पृथबुध्नोदरादयस्त्वसाधारणाः घटस्य धर्माः / संगह्यन्ते = संक्षेपेणाभिधीयन्ते / अनेनेति = पदार्थधर्मसंग्रह इति / अत्र पंसि संज्ञायां घः / अन्यत्र ग्रन्थे इति कणादसूत्रोपरि आत्रेयकृतभाष्ये। उपनिबन्धान्तरेष्विति-आत्रेयतन्त्रादिष्वयमिति पदार्थधर्मसंग्रहः / वाच्यवाचकभाव इति-पदार्थधर्मा वाच्याः, (अ) संग्रहस्तु वाचकः / साध्यसाधनभाव इति- महोदयः साध्यः, पदार्थधर्मसंग्रहप्रतिपत्तिस्तु साधनम् / [कु०] [6] प्रयोजनावगतिपूर्वकत्वादिति (कं. 3.7) यन्निष्प्रयोजनं तन्नं प्रवृत्तियोग्यं यथा काकदन्तपरीक्षेत्यर्थकृतमपि न कृतं स्यादिति / भकृतत्वं कृतकार्यकरणमुपचारेण यथा पुत्रकार्याकरणात् पुत्रोऽपि सन्नपुत्र इति / कृतस्य च कार्य ख्यातुः प्रवर्तनमेव तदिदमाहा "नुपादेयत्वादि (दि)ति / तेषां धर्मा इति (कं. 3.10) विशेषणत्वावस्थाकृतेन भेदेन षष्ठी-प्रयोगः / सङक्षेपेणेति (कं. 3.11) सूत्रे बहुषु प्रदेशेषु विप्रकीर्णानामेकत्र सङ्कलनम् / यदन्यत्रेति (कं. 3.13) इतस्ततोऽभिहितानाम् / एकत्रेति (कं. 3.13) सङ्ग्रहपदलब्ध [अ]नूद्यविस्तरेणाभिहितानाम् / "ग्रन्थसङ्ग क्षेपेणाभिधानमिति (कं. 3.14) / प्रकर्षप्रदर्शनापौनरुक्त्यम् एतदर्थं सङ्ग्रहार्थं प्रकर्षार्थं च / सुखदुःखाप्तिहान्योः पुरुषप्रयो 1 नावगति-जे. 1, जे. 3 / 2 कृतमकृतं स्यात्-कं. 1, कं. 2 / 3 शास्त्रारम्भमादधानः-कं. 1, कं. 2 / 4 भिधायको ग्रन्थः-कं. 1, कं.२। 5 एतदेव-क. 1, कं. 2 / 6 तत्प्रतीतिश्च- जे. 1, जे. 3 / 7 प्रयोजकत्वात्-कं. 1, कं. 2 / 8 विवक्षा-अ; 9 मित्यर्थः-अ; 10 प्रतीकमिदं-कं. पुस्तके नास्ति / 11 ग्रन्थे सङ्क्षपेण कथनम-कं.१ पुस्तके पाठः /