________________ टिप्पणपञ्जिकाकूसमोदगमादिटीकात्रयोपेतम् न्यायकन्दली नत्वान्नमस्कारस्य / 'यथा मीमांसावातिककृता नमस्कृतः सोमार्द्धधरः। न च तत्पूर्विका मीमांसेत्यस्ति प्रवादः / अन्विति ईश्वरप्रणामादनन्तरतां कणादप्रणामस्य 'परामशति, अत 'ईश्वरमादौ प्रणम्य इति ईश्वरप्रणामस्य परामर्शः। 'अत ईश्वरप्रणामादनु पश्चात् कणादं प्रणम्येत्यर्थः। [टि.] " विशुद्धज्ञानदेहाय 'त्रिलोकीदिव्यचक्षुषे / श्रेयः प्राप्तिनिमित्ताय नमः सोमार्धधार[रिणे // " “अत इति- अनु 'इत्येतावत्येवोक्ते "सान्तरत्वमपि "कणावप्रणामस्य स्यादित्यानन्तर्यप्रतिपादनायोक्तमत इति / [पं०] संभवादित्यर्थः / न कर्मणां तत्पूर्वकत्वेनेति-न खलु कर्माणि देवतापूर्वाणि / यथा कृष्यादौ-नहि कृषिदेवतया साथेर(?) नाम्न्या कृषिः कृता। * मीमांसाबातिककृतेति- शबरस्वामिना नमस्कृतः। सोमार्धधर इति - विशुद्धज्ञानदेहाय त्रिवेदीदिव्यचक्षुषे / गुणत्रयविभागाय नमः सोमार्धधारिणे // इत्यनेन लोकेन नमस्कृत इत्यर्थः / म च तत्पूविका मीमांसेति-न चेश्वरपूर्विका मीमांसा वेदमूलत्वात्तस्या इत्यर्थः / तस्येति-प्रेक्षावतस्तस्य सम्बन्धमिति शास्त्रस्य सम्बन्धः / [कु०] नन "यदि तत्पूर्वकत्वख्यापनं प्रयोजनं नाभिसमधास्यत् ईश्वरं न नमो करिष्यत इति तर्केण व्याप्तिनिश्चयसम्भवात् कथं व्यभिचार इत्याशङ्कय तर्के उपाधिमाह "या यस्येति (कं. 3.2) / तत्पूर्वकत्वख्यापनप्रयोजनाभिसंधानाभावेऽपि देवताया इष्टत्वादेव नमस्कारो घटिष्यत इति भावः / तत्पूर्वकत्वेनेति (कं. 3.2) ? विष्पापयिषितेनेति (चिरायापयिषितेनेति?) शेषः / नन्विष्टत्वमेव प्रयोजकमिति कुतो निश्चितमतः प्रत्यक्षं प्रमाणमाह भक्तिबद्धति (कं. 3.3) / न च तत्पूविकेति यदि भीमांसयोगीश्वरपूर्वकत्वं विष्पापयिषितं (चिरायापयिषितं)स्यात् कथं तत्रेश्वरं निराकुर्या दिति भावः / ननु यदि तन्निराकरणात्तदसत्त्वमभिप्रेत कथं तहि भक्ति शब्दे [श्रद्धे] अपि स्याताम् / उपास्यत्वेन चोदिते भविष्यतः, निराकरणं चानुमानस्यैवेत्यविरोधः। ईश्वरप्रणामस्य परामर्श इति पश्चाद्धावस्यावधिसापेक्षत्वे प्रत्यासत्तरीश्वरप्रणामस्यैवावधित्वेऽर्थलभ्येऽपि शिष्यबद्धिवेशद्यायेति भावः / 1 तथा च इत्यधिकं जे. 1, जे. 3 पुस्तकयोः। 2 सोमावतंस-कं. 1, कं. 2 3 दर्शयति-जे. 1, जे. 3 / 4 ईश्वरं प्रणम्य-जे. 1, जे. 3 / 5 'अत'-इति कं. 1, कं. 2 पुस्तकयो स्ति। 6 देहाय त्रवेदी (?) अ,ब ; 7 श्रयः अ. 8 अत इतीति-ड; अन्विति - मु., अत इति ईश्वरप्रणामस्य परामर्श:-जे. 1, 3; 9 इत्येतावित्येके–अ, ब, 10 -रित्वमपि-ड; 11 करणाद-अ, ब; करणादि-ड; 12 न कर्मणस्तत्पूर्वकत्वेनेति-कं. *भ. पुस्तके अतः पराणि त्रीणि पत्राणि नोपलभ्यन्ते। 13 जदि-प्र.। 14 यस्य हि या-कं.१।