________________ न्यायकन्दलीसंवलितप्रशस्तपादमाध्यम न्यायकन्दली तावता तत्पूर्वकस्य ग्रन्थस्य वैशिष्टयसिद्धिरिति चेन्न, अवश्यं तत्पूर्वकत्वेन स्वग्रन्थस्य वैशिष्टयसिद्धिः, कर्तृदोषेणाऽयथार्थस्यापि निबन्धस्य सम्भावनास्पदत्वात् / सम्भावितप्रामाण्ये प्रशस्तदेवे पुरुषदोषाणा'मसम्भव इति चेत् ? एवं तहि यथा कणादशिनां तच्छिष्याणां पुरुषप्रत्ययादेव तथात्वनिश्चयात् तदुपनिबन्धे प्रवृत्तिः, अपरेषाञ्च पुरुषान्तरसंवादात्, एवं प्रशस्तदेवकृतोपनिबन्धेऽपि तच्छिष्याणामपरेषाञ्च प्रवृत्तिर्भविष्यतीति नार्थस्तत्पूर्वकत्वख्यापनेन। __[5] किमर्थ तहि कणादनमस्कारः ? विघ्नोपशमायेत्युक्तम्, यथेश्वरस्य नमस्कारः। सोऽपि हि न तत्पूर्वकत्वख्यापनाय, व्यभिचारात् / 'या यस्येष्टा देवता स तां प्रणम्य सर्वकर्माणि प्रस्तौति, न कर्मणां तत्पूर्वकत्वेन, भक्तिश्रद्धामात्रनिबन्ध [टि.] अत्र च पूर्वार्धे 'यत् शास्त्रं कृतमित्यध्याहार्यम् / 'नस्वियम् इति उप सामस्त्येन निबध्यन्ते अर्था अत्र इत्युपनिबन्धो मूलशास्त्रमेव / न चास्य इति 'प्रशस्तकरस्य / [5] अत्यभिचारमेव भावयति या यस्य इत्यादि। "तपाच मीमांसा इति [पं०] तदुपनिबन्धवैशिष्टयख्यापनाय युक्तिरमिहितेति-रथ्यानिपतितान्कणान् य भक्षितवानिति कृत्वा एतस्य संबन्धिशास्त्रं बिशिष्टमिति युक्ति भिहितेत्यर्थः / अस्येति-प्रशस्तदेवस्य। तावतंति-कणादशास्त्रवैशिष्टयख्यापनेन तत्पूर्वकस्येति = कणादशास्त्रपूर्वकस्य / स्वग्रन्थस्येति भाष्यस्य / तच्छिष्याणामिति=कणादशिष्याणाम् / तथात्वनिश्चयादिति=सत्यत्वनिश्चयात् / नार्थ इति -न प्रयोजनम् / [5] व्यभिचारादिति - न खलु यो य ईश्वरपूर्वको ग्रन्थः, स स विशिष्ट इत्यस्ति नियमः / कर्तृदोषेणान्यथापि [कु०] ननु शास्त्रप्रणेतृनिर्देशास्तत्प्रणयनोपयोगिनो धर्मा निर्दिष्टव्याः। ते च मुनिमिच्छा (न्वा) नेनैव निर्दिष्टा आहारविशेषप्रतिपादनं तु क्वोपयुज्यत इत्यत आह कणादमिति (कं. 2.13) / न मया आहारविशेषः शास्त्रारम्भणोपयोगितया निदिश्यते किन्तु मुनेरुक्तवैशिष्टयप्रतिपादनाय, तच्च विघ्नोपशमायेति भावः / तहि तदुपनिबन्धवैशिष्टयं कुत इत्यत आह-तदुपनिबन्धवैशिष्टयस्येति (कं. 2.17) / अयं चाङ्गीकृत्य वादः परमार्थतस्तु तदुपनिबन्धवैशिष्टयस्थापनं प्रकृतानुपयोग्यवेत्याह न चेति (कं. 2.18) / विशिष्टव्याख्येयविषयतया व्याख्यानवैशिष्टयख्यापनोपयोगमाशङ्कय नि[राक] रोति तावते [ति] (कं. 2.19) / [5] सा चोदयति "किमर्थमिति (कं. 2.25) ईश्वरप्रणामेनैव विघ्नोपशमे सिद्ध किमर्थः कणादप्रणाम इति भावः / परिहरति विघ्नोपशमायेत्युक्तमिति (कं. 2.25) हि प्रथितो हि मङ्गलारा[चारो विघ्नोपशमहेतुरिति भावः / दृष्टान्तस्य साध्यविकलत्वमाशङ्कय परिहरति सोऽपीति (कं. 3.1) / 1 मसम्भावना-जे. 3 / 2 प्रशस्तकरनिबन्धेपि-जे. 1, जे.३। 3 कणादस्य-जे. 1, जे. 3 / 4 यस्य हि या-कं. 1, कं. 3 / 5 कर्मण:-कं. 1, कं 3 / 6 बत्-अ, ब, क; 7 नन्वयमिति-अ, ब; 8' 'एतचिह्नान्तर्गतो पाठः-अ-पुस्तके नास्ति; प्रशस्तकरस्य व्यभिचारमेव भावयन्नाह-ड; 9 यस्य हि या-मु. 10 यथा मु. 11 किमर्थ:-कं.१।