________________ टिप्पणपञ्जिकाकुसुमोदगमादिटीकात्रयोपेतम् न्यायकन्दली साक्षादशेषतत्त्वावबोधयुक्तं जीवन्मुक्तं पुरुषविशेषमाह, इत्थम्भूत एवार्थे मुनिशब्दस्य लोके प्रयोगदर्शनात् / कणादमिति तस्य कापोती वृत्तिमनुतिष्ठतो रथ्यानिपतितांस्तण्डुलक'णानादायादायादाय प्रत्यहं 'कृतस्याहारस्याहारनिमित्ता सञ्जा। अत एव "निरवकाशः कणान् वा 'भक्षयित्वा" इत्युपालम्भस्तत्रभवताम् / इदं हि तस्य 'नामेति तच्छब्दसङ्कीर्तनं कृतं प्रशस्तदेवेन, न त्वियं तदुपनिबन्धवैशिष्टयख्यापनाय युक्तिरभिहिता, तदुपनिबन्धवैशिष्टयस्य मन्वादिवाक्यवन्महाजनपरिग्रहादेव प्रतीतेः / न चास्य कणाद'शास्त्रवैशिष्टयख्यापनेन किञ्चित्प्रयोजनमस्ति / [टि०] प्रवृत्त्या च दोषरूपसहकार्यभावाज्जन्म न जायते / जीवनमुक्तत्वं च साक्षादशेष"तत्त्वावबोधात्, सोऽप्यत्युग्रतपस्त्वात्, तदपि विशुद्धात्मज्ञानक्षपिततमस्त्वात् शरीरादिव्यतिरिक्तात्मास्तित्वनिश्चये सति तपसि प्रवृत्तेरिति योजना। अन्यथा तु साक्षादशेषतत्त्वाव"बोधेत्यनेनैवात्मज्ञानस्य सिद्धत्वात्तदुपादानस्यानर्थक्यप्रसङ्गाः / तस्य "कापोतीम् इति / शालीनायायावरीकापोतीप्रभृतयो हि ऋषीणां वृत्तयः / अत एव इति / मीमांसकहिं स्वशास्त्रे उपहासः "कृतः " "कणान् वा भक्षयित्वाथ माहिषाणि दधीनि वा / "युक्तियुक्तावबोधश्चेत् तद्धि ग्राह्यमसंशयम् // " [पं०] तत्रभवतां = अस्मत्पूज्यानां मीमांसकानां, परैः बौद्धर्दत्त उपालंभः कणान् वा भक्षयित्वा तु माहिषाणि दधीनि वा / . युक्तियुक्तावबोधश्चेत्, तत्रैवास्माकमादरः / / "इति-स उपालंभो नो निरवकाशोप्रस्तुत इत्यर्थः / तच्छब्दसंकीर्तनमिति = कणादशब्देन संकीर्तनम् / न त्वियं [कु०] अशेषतत्त्वावबोधिना ज्ञानम् / एनेन मुनेर्यथावस्थितार्थदर्शनं यथादृष्टप्रतिपादकत्वं च दर्शितं तथापि तत्त्वसाक्षात्कारानन्तरमपवृक्षः [क्तः] [त्तः] कथं शास्त्रं प्रणिनायेति शङ्कामपनेतुमाह “जीवन्मुक्तमिति (कं. 2.12) साक्षात्कृततत्त्वोऽपि तावत्कालमवतिष्ठते यावदुपभोगादुपार्जितकर्माशयं क्षिणोति / तादृशश्च मुनिः शास्त्रं प्रणीतबानिति न वातपुत्रीयता शास्त्रस्येति भावः / 1 जीवन्मुक्तं इति-कं. 1, 2. इत्यत्र नास्ति किन्तु 2 पु. इत्यत्र सर्वत्र तालपत्रपुस्तकेषु चास्ति। 2 लोके दर्शनात् - कं. 1, कं. 2 / 3 कणानादाय प्रत्यहं-कं. 1, कं. 2 / 4 कृताहारनिमित्ता--कं. 1, कं. 2 / 5 भक्षयत-कं. 1, कं. 2 / श्लोकोऽयं राजशेखरकृतपञ्जिकायामित्थं दत्तः 'कणान् वा भक्षयित्वा तु माहिषाणि दधीनि वा / युक्तियुक्तावबोधश्चेत्तत्रैवास्माकमादरः // अत: 'भक्षयित्वा' इत्येव पाठः समीचीनः / 6 नामधेयमिति -जे. 1, जे. 3 / 7 शास्त्रख्यापनेन-कं. 1, कं. 2 / 8 दोषापायरूप-अ; 9 जन्यते-ड; 10 तत्त्वाबोधत अ; 11 बोधित्यनेनैव-अ, ब, 12 कापोतीति-ड; 13 'कृत'-अ-पुस्तके नास्ति / 14 कारणान्-अ, ब; 15 भक्षयत्वात्तु-अ, ब, क; 16 युक्तायुक्ताव-अ; 17 इत्युपालंभो निरवकाश:-'अ' पु. 18 पाठोऽयंकं. 1. पुस्तकसम्पादकेन न स्वीकृतः किन्तु 2.6 इत्यत्र वर्तते /