________________ न्यायकन्दलीसंवलितप्रशस्तपादमाध्यम न्यायकन्दली धर्मसङग्रहप्रवचनापेक्षया पूर्वकालभावीति क्त्वाप्रत्ययेनाभिधीयते तदेकवाक्यतामापादयितुम्, न त्वस्य पूर्वकालतामात्रमनद्यते, 'अनुवादे ता प्रयोजनाभावात् / हेतुमिति निविशेषणेन हेतुपदेन सर्वोत्पत्तिमतां 'निमित्तं प्रतिजानीते / ईश्वरमिति विशिष्टदेवताया अभिधानम्, लोके तद्विषयत्वेनैवास्य पदस्य प्रसिद्धः, लोक प्रसिद्धपदार्थोपसङग्रहपरत्वाच्चास्य शास्त्रस्य / मुनिमिति शुद्धात्मज्ञानप्रदीपक्षपिततमसमत्युग्रतपसं [टि०] अत्रैव च इत्यादि / अत्रैव चेति वर्तमानकालसामीप्यातिशयख्यापनार्थम्, 'शास्त्रादावेवेत्यर्थः / तदेकवाक्यतेति एकवाक्यत्वे हि सम्भवति वाक्यभेदस्यानुचितत्वात् स्वसमवेतद्वित्व द्विपृथक्त्वपरत्वापरत्वसंयोगविभागानां समवायिकारणत्वेऽपीश्वरस्य न दोषः / अथवा विशेषाविवक्षया निमित्तता कारणत्वमात्रमित्यर्थः 'जीवन्मुक्तमिति-मिथ्माज्ञानरागादि दोषरहितो जीवन्मुक्तः / दुःखप्रवृत्ती तु तस्यापि स्तः / मिथ्याज्ञानस्य तु" सम्यग्ज्ञानेन नाशितत्वादोषापाय: [पं०] व्योमशिवाचार्येण प्रणम्येत्यस्य पूर्वकालताऽनुवादमात्रमुक्तम्, तन्निषेद्धमाह - न त्वस्य पूर्वकालमात्रतामनूद्यते इति / अस्य प्रणम्येतिपदस्य सर्वोत्पत्तिमत्तां निमित्तकारण"मिति प्रतिजानोत इति / इह हि त्रिधा क (का) रणम्, समवायि, असमवायि निमित्तम् / तत्र घटस्य मृद्रव्यं समवायिकारणम्, कपालकुशूलादिसंयोगोऽसमवायिकारणम् चक्रचीवरादिसामग्री निमित्तकारणम् / ईश्वरः सर्वनिमित्तत्वानिमित्तकारणम् / तत एवेश्वरकर्तृकं जगदिति प्रतिज्ञाशास्त्रेऽस्मिन्निहियिष्यते। तद्विषयत्वेनैवेति-विशिष्टदेवताविषयत्वेनैव / अस्य पदस्येति = ईश्वरपदस्य। कापोती वृत्तिमिति - इह हि त्रिधा वृत्तिः। शालीना, [या]यावरी कापोती च / तत्र यावता धान्येन कुशूलमात्र कुंभीमात्रं वा परिपूर्यते, यहमेकाहं वा वर्तनं भवति, तावन्मात्रस्य परेण स्वयमानीय दीयमानस्य यः परिग्रहः सा शालीना वत्तिः / / "परस्मादपरिगहीतस्वात्मभाजनं द्विदलादिमयं तापसभाजनं वा समादाय यत्प्रत्यंगणं भिक्षाटनं सा यायावरी वृत्तिः / 2 / रथ्यापतितान्नकणमात्रोपजीवनं कापोती वृत्तिः / 3 / “अत्र निरवकाश. कणान वा "मक्षयत्वित्युपालम्मस्तत्रभवतामिति [कु०] एवं तहि सर्वोत्पत्तिमन्निमित्तत्वेनेश्वरसिद्धेः ईश्वरमिति पुनर्वचनं किमर्थमित्यत आह ईश्वरमिति (कं. 2.10) / लोकप्रसिद्धदेवताभिष्यभावपदानुवादेन शास्त्रस्य लोकप्रसिद्धप्रपदार्थोपसङ्ग्रहपरत्वसूचने कल्पितविषयत्वं निरस्तमिति भावः / त_श्वर मित्यनेनैव सिद्धे मङ्गले शास्त्रस्य च कल्पितविषयतो निरस्ते हेतुमिति किमर्थमिति चेत्, न, प्रमाणोपदर्शनपरत्वात् / कणादस्य लोकप्रसिद्धमेव मुनित्वम्, किमर्थमभिधीयत इत्यत आह मुनिमितीति (कं. 2.11) / तमसो मिथ्याज्ञानस्य क्षपणो न रागद्वेषमोहकृता. [सः] प्रमादविप्रलिप्सादयो निवर्तिताः / उग्रतपस्तया उन्मादादयः / 1 पूर्वकालमात्रताम्-कं. 1,2 / 2 अनुवादे वा-कं. 1,2 / 3 निमित्ततां-कं. 1,2 / 4 प्रसिद्धार्थोपसङ्ग्रहत्त्वादस्य-कं. 1, 2 / 5 शास्त्रादावित्यर्थ:-अ; 6 तदेकवाक्येति-अ, ब, क; 7 पृथक्त्व -अ, ब; 8 समवाय-अ, ब, क; 9 पाठोऽयं मु' पुस्तके नास्ति किन्तु तत्रव (2) पादटिप्पणेऽन्यपुस्तकस्थः सूचितःजे नं. 1, 3 पुस्तकयोरस्ति / 10 'तु' अबक पुस्तकेषु नास्ति / 11 निमिततां प्रतिजानीते-कं. 12 व्यहमे० -'अ' पु. 13 तस्मादप्रतिगृह्णीतः 'अ' पु. 14 अत एव निर०-कं. 15 भक्षयित्वेत्युपा०–'अ' पु..