________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपेतम् न्यायकन्दली [4] अक्षरार्थो 'व्याक्रियते -प्रणम्येति / प्रकर्षबाचिना 'प्र'शब्देन भक्तिश्रद्धातिशयपूर्वकं नमस्कारमाचष्टे / स हि धर्मोत्पादकस्तिरयत्यन्तरायबीजं नापरः / अत एव कृतननस्कारस्यापि कादम्बादेरपरिसमाप्तिः, विशिष्टनमस्काराभावात तदवैशिष्ट्यस्य च कार्यगम्यत्वात् / अत्रैव च नमस्कारः क्रियमाणोऽपि करिष्यमाणपदार्थ [टि०] [4] प्रकर्षवाचिना इति- 'प्र'शब्दस्य द्योतकत्वेन वाचकत्वाभावात्प्रकर्ष' वाचयतीति णिगन्तस्य णिन् / भक्ति. कायिकी प्रता। श्रद्धा तथेति प्रत्ययः / स हि धर्म इति- स भक्तिश्रद्धातिशयपूर्वको नमस्कारः / तस्य चाशुतरविनाशत्वेन कालान्तरेऽन्तरायबीजतिरोधानासमर्थत्वाशङ्कायामुक्तं धर्मोत्पादक इति / नन्वन्तरायशब्देन ताबद ग्रन्थपरिसमाप्तिप्रागभावोऽभिधीयते स चानादिरिति कथमुक्तमन्त राय बीजमिति ?, नैवम् / अन्तरायशब्देनात्र ग्रन्थकरणे सामग्रीप्रतिबन्धका आलस्यमान्द्यादय १°उच्यन्ते, तेषां चाधर्मः कारणमिति / नमस्कार: कृत एव ‘क्त्वा' प्रत्यये"नानद्यते इति व्योमशिवेन व्याख्यातम, तद्विधिनिषेधाभावानि(वान्निष्प्रयोजनमिति दूषयिष्यन् अन्यथा व्याचष्टे (पं०] [4] अक्षरार्थ इति-अक्षरैनिष्पन्नत्वात्पदमप्यक्षरमुच्यते / ततश्च पदार्थ इत्यर्थः / प्रकर्षवाचिना प्रशब्देनेतिनन 'प्र'शब्दश्चादित्वात्धीतको न वाचकः, ततः कथं प्रकर्षवाचिनेत्युपपद्यते? सत्यम् / अत्र णिजन्तं प्रकर्ष वाचयतीति, अतो न दोषः / भक्तिश्रद्धेति - भक्तिः कायिकी, श्रद्धा मानसी इच्छा / स हि धर्मोत्पावकस्तिरयत्यन्त रायबोजमिति - नमस्कारो ह्याशुतरविनाशी, तज्जनितस्तु धर्मश्चिरस्थायो। ततो धर्मोसादकत्वान्नमस्कारो अंतरायाणां जाडयमांखादीनां बीजं = पापं तिरस्करोतीत्यर्थः / नापर इति-यो भक्तिश्रद्धाशयपूर्वको नमस्कारो न भवति सो अन्तरायबीजं= पापं न तिरस्करोति, तथाविधधर्माजनकत्वादित्यर्थः / कार्यगम्यत्वादिति-कार्यमपरिसमाप्तिः / . नन्विह नमस्कार: क्रियमाणो वर्तते, क्रियमाणस्य च कथं पूर्वकालभावित्वमिति परवचनमाशंक्याह- अत्रैव च नमस्कार इत्यादि / तदेकवाक्यतामापादयितुमिति / क्त्वाप्रत्ययान्तस्य हि एकवाक्यताऽवश्यं कर्तव्या / यदुक्तं संभवत्येकवाक्यत्वे, वाक्य भेदो हि नेष्यते१२ / इष्यते वाक्यभेदस्तु पूर्वापरविरोधतः / / [कु०] [4] मक्तिश्रद्धातिशयपूर्व कमिति (कं. 2.3) भजनं भक्तिः / आत्मनो वा पुरुषार्थस्य वा तदधीनता बुद्धिश्रद्धाआस्तिक्यम / स होति (कं. 2.4)? प्रभृति च इत्यर्थः / ननु महता यत्नेन जगन्नगसरद्ममूलस्तग रूपकालङ्कारेण क्रियमाणो महाकवेर्बाणस्य नमस्कारः कथमप्रकृष्टोऽत आह-तदवैशिष्टयस्य (कं. 2.6) वेति / ननु 'नमामि' इति प्राधान्येन नमस्कारेऽभिधातव्ये किमर्थं क्रियान्तरोपसर्जनतया ष्टा? (क्त्वा) प्रत्ययेन निदिश्यतेऽत आह तत्रैवेति (कं. 2.6) / ग्रन्थादावेव क्रियमाणो नमस्कारो ग्रन्थपरिसमाप्तिप्रत्यूहप्रशमैकफलतया ग्रन्थप्रवचनैकहेतरिति पूर्वकालाभिधायिना 'क्त्वा' प्रत्ययेन निर्दिष्ट इत्यर्थः / तदिदमाह तदेकवाक्येति (कं. 2.8) / हेतुहेतुमद्भावो ह्येकवाक्यता तस्य हेतुमित्यपेक्षायामाह-हेतुमिति (कं. 2.9) / प्रसक्तसङ्कोचे कारणाभावादिति भावः / 1 व्याह्रियते-कं. 1, कं. 2 / 2 'च'-कं. 1, कं. 2 इत्यत्र नास्ति / 3 प्रसिद्ध [ निका]-अ, ब, 4 श्राद्धाअब; 5 स हि वि-ड 6 सद्-ड. 7 चाषुत वि-अ, ब; 8. एकवाक्यत्वे हि नैव-अ; 9 अन्त्य-अ, ब; 10 उच्यतेषां-अ; 11 नत्पद्यते-अ, ब 12 नेष्यताम्-'अ' पु. 13 'वा' कं. 1 पुस्तके नास्ति / - 14 अत्रैव-कं. 1.