________________ न्यायकन्दलीसंवलितप्रशस्तपावभाध्यम न्यायकन्दली [3] ननु किं नमस्कारादेव विघ्नोपशमः ? 'किमुत अन्यस्मादपि भवति ? न तावन्नमस्कारादेवेत्यस्ति नियमः, असत्यपि नमस्कारे न्यायमीमांसाभाष्ययोः परिसमाप्तत्वात् / यदि चान्यस्मादपि तदा भवति नमस्कारस्य नियमेनोपादानं निरुपपत्तिकम् / अत्रोच्यते - नमस्कारादेव विघ्नोपशमः, करिम्भे सद्भिनियमेन तस्योपादानात् / न च न्यायमीमांसाभाष्यकाराभ्यां न कृतो नमस्कारः, 'किन्तु तत्रानुपनिबद्धः। कथमेषा प्रतीतिरिति चेत् ? कर्तुः शिष्टतयैव / अस्तु वा तावदपरः / प्रेक्षावान् म्लेच्छोपि तावद् गुर्वारम्भे कर्मणि न प्रवर्त्तते यावदिष्टां देवतां न नमस्यति / यदिमौ परमास्तिको पक्षिलशबरस्वामिनौ नानुतिष्ठत इत्यसम्भावनमिदम् / [टि०] [3] अत्र ‘परो विघ्नोपशमफलत्वेऽन्वयव्यतिरेकाभावमापादयति ननु कि नमस्कारादेव इति / .. [पं०] [3] 'यदा चान्यस्मादपि भवतीति अत्र विघ्नोपशमः कर्ता। किंतु तत्रानुपनिबद्ध इति-किंतु न ग्रन्थे निबद्ध इत्यर्थः / पक्षिलस्वामिशवरस्वामिनाविति / पक्षिलस्वामो न्यायमाष्यकारश्चाणक्यः / मोमांसाभाष्यकार: शबरस्वामी। [कु०]निवृत्तये प्रेक्षावद्भिरिति (कं. 1-12) पदम् / न द्वितीय इत्याह "नाप्यन्यफल इति। अत्रेदं प्रमाणम्- "कर्मादौ मङ्गलाचारो न विघ्नोपशमव्यतिरिक्तफलो नियमेन प्रेक्षावद्धिः पूर्वमनष्ठीयमानत्वात्" नियमेन प्रेक्षावद्धिः पूर्व यन्नानुष्ठीयते न तत् तत्फलकं यथा स्वर्गफला [ल:] कारीरी न च विघ्नोपशमव्यतिरिक्तवृष्टिफलतया कारीरी विवक्ष्यत इति वाच्यम् अनुष्ठातुभिरिष्यमाणेनैव न फलोऽफलवानिति साध्यस्य विवक्षितत्वात् / अनिष्यमाणतया विघ्नोपशमोऽप्यफलमित्यतस्तदिच्छायां प्रत्यक्षं प्रमाणमाह-अविघ्नेनेति (कं. 1.13) / [3] [न] सति भावमात्रण कारणत्वं किन्तु सत्येव भावेन तच्चेह नास्तीत्याशयवाँचोदयति नन्विति (कं. 1.14) / सत्यम्, सत्येव भावेन कारणत्वं तच्च न्यायमीमांसामाध्यपरिसमाप्त्याऽनुमाय इत्याशयवान् परिहरति अत्रोच्यत-इति (कं. 1.17) // अदर्शनं कुत इत्यत आह न चेति (कं. 1.18) / शिष्टतया परिसमापितसत्कार्यतया। म्लेच्छोऽपीति (कं.२.१) / निन्दितमृगयादिष्वपि नमस्कारेण विघ्नोपशमः किं पुनर्महति कार्ये। न च सत्यपि मङ्गलाचारे किरणावल्यादेविघ्ना (?) प्रतिहतत्वान्न विघ्नोपशमहेतुर्मङ्गलमिति वाच्यम्-शिष्टाचारानुमिताम्नायलिङ्गाके कारणे सत्यपि कर्मकर्तृ (सा न)? वैगुण्येन फलानुदयसम्भवाल्लिङ्गावसेये हि व्यभिचारदोषा यत्र तर्हि कर्मादिसाद्गुण्यं तत्र कथं फलानुदये (य) सम्भवाल्लिङ्गावसेये हि व्यभिचारदोषः यत्र तर्हि काय? [नुद] इति चेत्, न, दृष्टहेतुसाद्गुणेप्यदृष्टहेतुसाद्गुण्यस्य दुर्विज्ञानत्वात् तदृष्टसाद्गुण्यासाद्गुण्यसन्देहेन हेतुत्वमपि सन्दिह्यत इत्यकारणत्वमेव ज्याय इति चेत्, न, दृष्टगुणभूयस्त्वेनादृष्टवैगुण्यस्यापि परिहारसम्भवात् / दृश्यते ह्यसहायतायाः समर्थस्य सहायसम्पतौ शत्रुक्षये सामर्थ्यम् / न च विघ्नहेतुसामोनिश्चयात्तदु(पाय)? [दान]एव न कारणमनुपादेयम्, निवर्त्यसन्देहेऽपि निवर्तकस्योपादानात् / न हि पाथाः [योधाः? ] पाटवरां [पाटच्चर] निश्चिता धनुराददते इति / 1 उत-कं. 1, कं.२। 2 यदा-कं. 1, कं.२। 3 तदा नियमेनोपादानं-कं. 1, कं.२। 4 'तस्य' इति-जे. 1,3 इत्यत्र नास्ति। 5 किन्त्वनुपनिबद्धः-जे. 1, 3. 6 यावदिष्टान्न-कं. 1, कं. 2 / 7 पक्षिलस्वामिशबरस्वामिनी -जे. 1, 3, पक्षिलशिवस्वामिनी-कं. 4. पु. 8 अपरो-अ, ब, क; अव परो-ड; 9 उतान्यास्मादपि भवति-कं / 10 अन्यफलोऽपि न (कं. 1)