________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपेतम् न्यायकन्दली फलं च नमस्कारस्य विघ्नोपशमः / न तावदय'मफलः, प्रेक्षावद्भिरनुष्ठीयमानत्वात् / अन्यफलोऽपि न करिम्भे नियमेनानुष्ठीयेत, अविघ्नेन प्रारिप्सितपरिसमाप्तेस्तदानोमपेक्षितत्वात्, फलान्तरस्यानभिसंहितत्वाच्च / [टि०] फलंच नमकारस्य-इत्यादिना प्रमाणं सूचितम् / विवादाध्यासितो नमस्कारो विघ्ननिवृत्तिफल: "सफलत्वे सति अन्यफलरहितत्वाद् दधिदुर्वादिवदिति; व्यतिरेके 'सन्ध्याकर्मादिवदिति / सफलत्वे सतीति विशेषणस्यासिद्धि परिहरति न तावदयम् इति / विशेष्यासिद्धि परिहरति अन्यफलोऽपीति / [पं०] यथा दानादि: / यः सफलो न भवति सः प्रेक्षावद्भिरपि न क्रियते / यथा कण्टकशाखामर्दनम् / इति साधनमत्र द्रष्टव्यम् / अन्यफल-इत्यादि विघ्नोपशमलक्षणात् फलादन्यफलोऽपि यदि स्यात्तदा न निश्चयेन कर्मारम्भ क्रियेतेत्यर्थः / तदानीमिति कर्मारम्भकाले, अनमिसंहितत्वादिति मनसि अनंगीकृतत्वात् / [कु०] सङ्कल्पनया] ईश्वरत्वप्रसङ्गोऽत आह नित्यविज्ञानविग्रहमिति (कं. 1.6) / विगृह्यते विविच्य ज्ञायते तदितरेभ्यो येन स विग्रहः व्यावर्तको धर्म इति यावत् / नित्यं विज्ञानं विग्रहो यस्य स तथोक्तः। न च योगिनां नित्यज्ञानं सम्भव (ति) इति य (ज) गत्कारणमित्यस्यानन्तरं नित्यविज्ञानविग्रहमिति सम्बन्धे तु पदान्तराणि स्तुत्यर्थानि / . तदेवमीश्वरस्वरूपविवेचनपूर्वकं तत्सद्भावेऽनुमानं प्रमाण [म ] भिधाय श्रुतिस्मृतीतिहासपुराणेषु प्राचुर्येण प्रस्ततानां परुषोत्तमादिशब्दानां स एव वाच्यो न त त (5) व्यान्तरं व्यावर्तकधर्मविरहात / स च केवलं नानुमानगम्यः किन्तु योगिप्रत्यक्षगम्योऽपीति प्रतिपाद[य] नमस्करोति ध्यानकतानमनस इति (कं.१-७) / निर्मलं संसारमलरहितं यं कमपि पुरुषोत्तमं वासुदेवं वा अद्वितीयम् न तु पूर्वोक्तादन्यं द्वितीयमित्यर्थः / ज्ञानमात्मा धर्मो यस्य स ज्ञानात्मा, तस्मै विघटिताखिलान्युपासकानां बन्धनानि येनेति तदुपासनायाः फलसूचनम् / भगवते ऐश्वर्यादियुक्ताय तस्मै पूर्वोक्ताय नित्यं विज्ञानविग्रहाय परमेश्वराय नम इति / एवं च नित्यज्ञानेच्छाप्रयत्नवत्तया पुरुषोत्तमशब्दवाच्योऽपीश्वरान्न भिद्यते इति प्रतिपादितं भवति / उक्तं च भविष्योत्तरे : ब्रह्माविष्णुविषाङ्कश्च त्रयो देवाः सनातनाः / , नामभेदैः कृपाभेदैभिद्यन्ते बस्तुतोऽन्यथा / / वस्तुतः परमार्थतः अन्यथा न भिद्यन्ते इत्यर्थः / [2] भाष्याद्यश्लोकपूर्वार्द्धस्याप्रस्तुतत्त्वशङ्कां निराचिकीर्षस्तात्पर्यमाह- 'ग्रन्थारम्भ इति (कं. 1-9) / नमस्क्रियाप्यप्रस्तुतेत्यत आह कारम्भ इति (कं. 1-10) / शिष्टाचारोऽपि [३]ष्टोपा (य) [तयव] एव क्रियते / भनेन किमिष्टं सिद्धयतीत्यत आह फलं चेति (कं. 1-11) / अत्र विप्रतिपत्तिरफलत्वादन्यफलत्वाद्वेति विकल्पे नाद्यः पक्ष इत्याह न तावदिति (कं. 1-11) / अनुष्ठानं नाम कालान्तरभावीष्टोपायता ज्ञानपूर्वकं करणं ततश्च निष्ठीवनादिना न व्यभिचारः तथापि 'चैत्यं वन्देत स्वर्गकाम' इत्यादिभिविपुलस्थानामनुष्ठानेन व्यभिचारः तं तद्] 1 मफलं-जे. 1 / 2 नभिसंहित्वात्-कं.१। 3 मुदितम्-अ, मुञ्जितम्-त्र; 4 विघ्ननिवृत्ति-अ; 5 फलत्वे-म, सत्त्वफलत्वे-ब; 6 सन्ध्य-अB७ तावदयम्-ड; 8 शास्त्रारस्भ इति (कं.१)