________________ न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् न्यायकन्दली __[2] 'शास्त्रारम्भेऽभिमतां देवतां शास्त्रस्य प्रणेतारं गुरुञ्च श्लोकस्य पूर्वार्द्धन नमस्यति-प्रणम्येति / कारम्भे हि देवता गुरवश्च नमस्क्रियन्ते इति / शिष्टाचारोऽयम् / [टि०] [2] [मङ्गलवादो-भाष्यमङ्गलश्लोकार्थसहितः / ] [पं०] जगदुपप्लवकारिणं निग्रहात् / न विद्यते सत्या = सत्यभामा यस्यासौऽसत्यस्तथाविधः संकल्पो मनोव्यापारो यस्य मुक्तत्वात्, सः तथा तम् / नित्यं शाश्वतं यद्विज्ञानं तस्मादिक्पाथिक्यं विजिरू पृथगभावे वेजनं विक, तां रहतित्यजतीति / नित्यविज्ञानविग्रहस्तं = ज्ञानात्मकमित्यर्थः / ब्रह्मपक्षे जगत्कारणं ब्रह्माणं ईश्वरं सर्गसमर्थं देवं-इच्छाशीलतया न विद्यते आदि प्रसिद्ध निधनं मृत्युर्यस्य शाश्वतत्वात् / सत्यसंकल्पं सत्यानवदानं सम्यक् कल्पयति = रचयतीति सत्यसंकल्पस्तम / नित्यविज्ञानः क्षीरनीरविवेचनकलाकुशलो वि:=पक्षी हंसस्तत्र ग्रह आदरो यस्य स तथा तं नित्यविज्ञानविग्रहम् / भूयोऽपि त्रयीमयं नमस्कारमाह :ध्यानकतानममसो विगतप्रचाराः पश्यन्ति यं कमपि निर्मलमद्वितीयम् / ज्ञानात्मने विघटिताखिलबन्धनाय तस्मै नमो भगवते पुरुषोत्तमाय / / कं.। 2 // ध्याने एकतानं-एकविस्तारं- अथवा ध्यानकतां नयति-प्रापयति / यद्वा ध्यानकतामानयति जीवयति, ध्यानकतानं ईदृशं मनो येषां ते-तथा विगतप्रचारास्त्यक्तबालेन्द्रियव्यापारा: निरुद्धपवनचारा वा कि (क)मप्यनिर्वचनीयम् / निर्मलं - विशुद्धम् / न विद्यते द्वितीयो यस्य सोऽद्वितीयः / तं शक्तिरहितत्वात् परमशिवस्य-अथवा द्वयोर्भावो द्विता, न द्विता = अद्विता तस्यै हितं = अद्वितीयम्, अद्वैतवादप्रतिष्ठापकत्वात् / पुरुषोत्तमाय -विष्णवे / अथवा पुरे शरीरे शयनात्पुरुषाः = प्राणिनस्तेषामुत्प्राबल्येन तमारात्रि ( ? ) यस्मात्स पुरुषोत्तम-ईश्वरस्तस्मै / अथवा पुरुषानुत्तमयति = क्लेशयति गर्भवासादिना पुरुषोत्तमो ब्रह्मा तस्मै। शेषं सुगमम् / ___अथवा प्रस्तुतग्रंथकार: श्रीधरो भट्टः भक्तः परमवैष्णवः प्रशस्तकरदेवस्य पर[म] माहेश्वरस्य भाष्यं विवरीषुः प्रथमपद्ये केवलमीश्वरमेव शरणीभूतवान् / समुचितत्त्वात् / द्वितीयपद्ये तु केवलं विष्णुं नतवान् / इष्टत्वादिति नमस्कारद्वयार्थः / [2] गुरुमिति कणावं श्लोकस्य पूर्वार्धन प्रणम्य हेतुमीश्वरं मनि कणाबमनमत / इत्येवंरूपेण नमस्यतीति भाष्यकारः प्रशस्तकरदेवः / / प्रेक्षावरिनुष्ठीयमानत्वादिति –यो यः (नमस्कारः) प्रेक्षावद्भिरनुष्ठीयते स सफल:, [कु०] तथापि धर्माधर्मयोर्जगत्कारणतया ईश्वरत्वप्रसङ्गात् आह - अनादिनिधनमिति तथापि परमाणुषु प्रसङ्गोऽत आह देवमिति (कं. 1.5) / दीव्यतीति देवः / देवत्वैव मेषादयः पदादिषु द्रष्टव्या इत्यत्र देवनं च गतिः / गतिश्च ज्ञामम् / न च परमाणनां तत्सम्भवः, तथापि जीवानामनित्यज्ञानवतामनादिनिधनानां धर्माधर्मद्वारा परमाण्वधिष्ठाने जगत्कर्तृत्वेनेश्वरत्वसम्भवोऽत आह सत्यसङ्कल्पमिति (कं. 1.6) सङ्कल्पः इच्छा सत्या अप्रतिहता यस्य स तथोक्तः / न चैवं जोवाः तेषामिच्छायाः प्रतिबन्धसम्भवात / यथोक्तं भगवानाथपादेन (भगवताक्षपादेन) "ईश्वरः कारणं पुरुष (:) 'कर्मफलादर्शनात्" (न्या. सू.४-१-१९) इति / तथापि तत्रभवतां योगधिसम्पन्नानां जीवन्मक्तानामनादिभवपरम्परोपात्तकर्माशयप्रक्षयाय परितस्तत्फलोपभोगभागिनः कायानिमिमाणानां सत्स्वकल्पनयो [सत्य 1 ग्रन्थारम्भे-जे. 1, 2, 3 / 2 अथ च इति-'अ' पुस्तके. 3 कर्माफल्यदर्शनात् इति सूत्रे पाठः /