________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपेतम् न्यायकन्दली ध्यानकतानमनसो विगतप्रचाराः पश्यन्ति यं 'कमपि निर्मलमद्वितीयम् / ज्ञानात्मने विघटिताखिलबन्धनाय तस्मै नमो भगवते पुरुषोत्तमाय // 2 // [टि०] ध्यानके इति-कर्तुर्वैष्णवत्वात् पुरुषोत्तमस्य रुचितस्य नमस्कारः। यत एव ध्यानपरायणमनसोऽत एव विगतप्रचाराः / अद्वितीयत्वं वेदान्ताभिप्रायेण / विघटितानि 'आश्रितानां बन्धनानि येन, स्वयं नित्यमुक्तत्वात् / अथवा 'महेश्वरोऽपि पुरुषेषत्तम इति तस्यैव नमस्कारः / अत्राद्वितीयमिति न विद्यते द्वितीयो यस्य / ज्ञानात्मने इति ज्ञानधर्मवते इत्यर्थः / आत्मशब्दो धर्मेऽपि वर्तते यथा घटत्वं (टात्मा) घटस्य स्वरूपं घटस्य धर्म इत्यर्थ: / शेषं प्राग्वत् / / 2 / / [पं०] [1] [-स्यतम् / अनादि[रि]त्यस्मिन्नुच्यमाने प्रागभावे [म] साधारण्यं प्राप्नोति / प्रागभावो ह्यनादिः सनिधनश्र वक्ष्यते। अनिधनमित्यस्मिन्नुच्यमाने प्रध्वंसाभावो न साधारण्यं प्राप्नोति / 5 प्रध्वंसाभावो हि सादिरनिधनश्च वक्ष्यते / इत्युभयपदोपादानम् / समस्तेन चेतरेतराभावेन साधारण्यं प्राप्नोति / इतरेतराभावो ह्यनाद्यनिधनो वक्ष्यते / अत देवशब्दोपादानाद्विशेषः / देवः क्रीडनशील: / प्रागभावप्रध्वंसाभावेतरेतराभाषा झवस्तुरूपाः / ईश्वरस्तु वस्तुरूप इति देवशब्देन [ध्वन्यते / जगत्कारणमित्यदृष्टसाधारण्यम् / अत ईश्वरपदोपादानम् / ईश्वरं = शिवम् / सती = पार्वती। तस्यां (न)(?) संकल्पो यस्यासौ सत्यसंकल्पः / -पराचीनावस्थापक्षे / अर्वाचीनावस्थापक्षे तु न तथा। (अ) (?) सत्यसंकल्पं-अथवा सत्यसंकल्प [त्वं ] तन्मनोव्यापारानुसारेण भूतानां भौतिकानां च चेष्टनात् / नित्यं विज्ञानमेव विग्रहः / शरीरं यस्य सः तथा तम / अथवा-अनादिनिधनमित्यन्यथा व्याख्यायते / अनन्ति = प्राणन्ति इति अनाः प्राणिनस्तेषां आदिर्घसत्वं = संहार इति यावत् / नितरां धनति = गर्जति अनादिनिधमस्तम् / 'देवं जयवन्तम् / जगतः कं = सुखम्, खं = शब्दम, ऋच्छत्तिप्रापयति रम्यादित्वात्कर्तरि युट प्रत्यये जगत्कारणम् / _ * अद्याश्वाह्यद्यास्य [ ] व्याख्याः सन्तु विपश्चिताम् / देशेऽत्र या न दृश्यन्ते ततोत्रः [त्र] प्रयतामहे // 7 // - तत्र तावत्प्रारिप्सितग्रन्थपरिसमाप्तिप्रबय (?) परिपन्थिप्रत्यूहप्रशमफलमभीष्ट न परमेश्वरस्वरूपविवेचनपूर्वकं तत्प्रपत्तिलक्षणं मङ्गलमाचरति-अनादिनिधनमिति (कं. 1.5) / मङ्गलाचारस्यैतदेकफलत्वं मयेवानंतरं व्याख्यास्यति / तत्र (ई)श्वरं प्रपद्य इत्युक्तो तत्सद्भावे प्रमाणमभिदधान एवेश (श्व) रपदार्थतया लोकप्रसिद्धचा प्रसक्तत् (?) राजादी. (दि)व्यवच्छिति: छिनत्ति जगत्कारणमिति (कं. 1.5) / अत्र जगच्छब्दः कार्यवर्गपरतः तदितरस्य कारणानपेक्षित्वात् / प्रमाणं चेदं विवादपदं बुद्धिमत्कर्तृकारणं कार्यत्वाद् घटवदिति / अस्य प्रपञ्चः सृष्टिसंहारपादे भविष्यति 1 किमपि-जे. 3 / 2 परायणे त एव-अ, परायणा-ब, क; 3 आश्रितानी-अ,ब; 4 महेश्वरेऽपि-अ, ब, क; 5 [ ] एतद् चिह्नान्तर्गतो पाठः 'अ' पुस्तके नास्ति। 6 मूलकन्दल्यां सत्यसंकल्पमिति पदम् / 'अ' इत्यवग्रहत्वेन कल्पितं पञ्जिकाकारण, अथवा लेखकदोषोऽयम् / * Some words are missing in verses No. 2, 3 & 7 through scribal error.