________________ न्यायकन्दलीसंवलितप्रशस्तपावमाध्यम न्यायकन्दली (1) अनादिनिधनं देवं जगत्कारणमीश्वरम् / प्रपद्ये . सत्यसङ्कल्पं नित्यविज्ञानविग्रहम् // 1 // [ कन्दलीमङ्गलश्लोकार्थः। [टि०] अनादिनिधने इत्यादि:-ननु अनादिनिधनत्वं शरीरापेक्षया वा? आत्मापेक्षया वा? नाद्यः, तस्य शरीराभावात् / ' नापरः. अस्मदाद्यात्मसाधारणत्वेन तदुत्कर्षाख्यापकत्वाभावात् / नैवम् 'स्वादृष्टोपग्रहाद् भोगायतनस्य ग्रहणमादिर्मोचनं निधनमिति / न तु तथाप्येकतरोपादानेनैव परस्परापेक्षत्वाद् द्वितीये लब्धे द्वयोरुपादानं व्यर्थम् / प्रागभावप्रध्वंसाभावयो रप्येककरूपत्वात् / ईश्वरस्या साधारणताख्यापनार्थं जगच्छब्दोऽत्र सङ्कुचितवृत्तिः, तेन 'नित्यं प्रत्यकृतत्वेऽपि न दोषः / टीकानमस्कारोऽयम् / तेन भाष्यवन्न केवल एव कर्तृशब्दः प्रयुक्तः / शरीरकार्यसदि करणसमर्थत्वाद् ज्ञानमेव शरीरम् / "इतरदेवताव्यवच्छेदेन तत्प्रतिपत्त्या नमस्काराक्षेपः // 1 // [पं०] इह फिल पूर्वमजिह्मब्रह्माभ्यासदूरीकृतप्रमादाय मुनये कणादाय स्वयमीश्वर उलूकरूपधारी प्रत्यक्षीभूय द्रव्यगुणकर्मसामान्यविशेषसमवायलक्षणं पदार्थषट्कमुपदिदेश / तदनु स महर्षिर्लोकानुकम्पया षट्पदार्थरहस्यप्रपञ्चनपराणि सूत्राणि रचयाञ्चकार / तेषु सूत्रेषु प्रशस्तकरदेवो भाष्यं सकृद् गुणनमात्रेण महोग्रदष्टकविषापहारदृष्टलोकोत्तरवैभवं चकार / तत्र चतस्रो वृत्तयो निर्वृत्ताः एकां व्योमवतीनाम्नी वृत्ति व्योमशिवाचार्यों जुगुम्फ / द्वितीया तु न्यायकन्दल्य भिधाना श्रीधराचार्यः संददर्भ / तृतीयां किरणावलीनाम्नीमुदयनाचार्यस्ततान / चतुर्थी तु लीलावतीति ख्यातां श्रीवत्साचार्यों बबन्ध / चतस्रोऽपि गम्भीरार्थाः / / तत्रेमां न्यायकन्दली प्रारभमानः श्रीधरदेवः शिष्टसमयपरिपालनायेश्वरविष्णब्रह्मलक्षणाभिष्टदैवतत्रयीमेकेनाद्यश्लोकेन प्रणिदधानः प्राह / स चायम् / अनादिनिधनं देवं जगत्कारणमीश्वरम् / प्रपद्ये सत्यसंकल्पं नियविज्ञानविग्रहम् // कं। 1 // . ............................................. [कु.] तस्य पुत्रो महावीर: शिडिलब्रह्मभूपतिः / सा[शा] सद्विषभरं स्पष्टं व्याचष्टे न्यायकन्दली // 4 // श्रीमन्महावनमुनीन्द्रपदाक्षभक्ति ___ भास्वत्प्रभोपरमिस्त्रान् ( ? ) / लब्ध्वा[ब्धां] गुरौ [रो] मुंनिवरादमरावतीति ख्यातात्यितं वधमनोध (?) यदात्मविद्यम् // 5 // न तत्त्वं (?) न द्रव्यं त्यजति गुणवर्गम्वनुधियां विधत्ते संतोषं विकसति वसन्कर्मनियतम् / द्वयी जाति (:) श्लाघ्या न जहति विशेषा स्व:निलयम् गुणाद्यैः सम्बन्धः स्फुरति शिडिलब्रह्मनृपतौ / / 6 / / [टि०] 1 स्वादृष्टोपग्रहो-अ, ब, क; 2 विधन-अ, 3 तथाप्यक-ब, क :..4 रप्येकेक - अ; 5 साधारणत्वा - अ, ब; 6 नित्यं द्रव्य - अ, ब, क; 7 देवताऽवच्छेदे - अ.