________________ प्रशस्तपादभाष्यम् अथवा पदार्थधर्मसङ्ग्रहः प्रशस्तपादभाष्यम् प्रणम्य हेतुमीश्वरं मुनि कणादमन्वतः / पदार्थधर्मसङ्ग्रहः प्रवक्ष्यते महोदयः॥ [कन्दलीटिप्पणम् ] __ " अहम्' " [1] अव्याहतमनाद्यन्तमनन्तमहिमास्पदम् / विष्टपत्रितयोद्योति ज्योतिस्तन्मे प्रसीदतु // 1 // यथाम्नायं यथाप्रज्ञमात्मनः स्मृतिहेतवे / कन्दलीटिप्पनारम्भसंरम्भः क्रियते मया // 2 // [पञ्जिका] ॐ नमः सर्वज्ञाय // अनन्तदर्शनज्ञानसुखवीर्यमयात्मने / जिनाय तस्मै कस्मैचित् परस्मै महसे नमः / / श्रीमज्जिनप्रभविभोरधिगम्य न्यायकन्दली किञ्चित् / तस्यां विवृतिलवमहं करवं स्वपरोपकाराय / / [कुसुमोद्गम] // श्री गणाधिपतये नमः // नित्यज्ञानदयैश्वर्यं (य) सिन्धवे बन्धवे नमः / शिवाय विदुषां बन्धविध्वंसनपटीयसे // 1 // नमो विनायकाय स्तादन्तरायाटवीमिव / समूलमुन्मूलयितुं [दन्तुरं] बिभ्रते निजम् / / 2 // ? अभूदभूतपूर्वाणां गुणानामाकरो नृपः / वंशे रवे रितुंगोल: [वीरः] शस्त्रविदां पतिः // 3 // ? 1 अहम् नमः-ड; 2 स्मृतितवे-अ.