________________ टिप्पणपञ्जिकाकुसुमोदगमादिटीकात्रयोपेतम् 351 न्यायकन्दली अपि च शक्तस्य जनकत्वम् ? अशक्तस्य वा? अशक्तस्य जनकत्वे तावदतिप्रसक्तिः / शक्तस्य जनकत्वे तु किमस्य शक्तिः सर्वत्र? क्वचिदेव वा? सर्वत्र चेत् ? सैवातिव्याप्तिः। अथ क्वचिदेव ? कथमसति तस्मिन् कारणस्य तत्र शक्तिनियतेति वक्तव्यम्, असतो विषयत्वायोगात् / तस्माच्छक्तस्य यच्छक्यं शक्तिविषयो योऽर्थः, तस्य करणात्प्रागपि शक्यं सदेव / इतोऽपि सत्कार्यम्-कारणभावात्, कारणस्वभावं कार्यमिति नान्योऽवयवी अवयवेभ्यस्तद्देशत्वात् / यत्तु यस्मादन्यन्न तत्तस्य देशो यथा गौरश्वस्येत्यादिभिः प्रमाणः प्रतिपादितम्, कारणं च सत्, अतस्तदव्यतिरेकि कार्यमपि सदेवेति / तदेतदुक्तम् असदकरणादुपादानग्रहणात् सर्वसम्भवाभावात् / शक्तस्य शक्यकरणात कारणभावाच्च सत्कार्यमिति / / अनोच्यते, यदि करणव्यापारात् प्रागपि पटस्तन्तुषु सम्मेव, किमित्युपलब्धिकारणेषु सत्सु सत्यामपि जिज्ञासायां नोपलभ्यते ? अनभिव्यक्तत्वादिति चेत् ? रि०] कारणात्मकत्वस्यासिद्धि निराचष्टे नान्योऽवयवी इति 'तद्देशत्वाद् इति :- तेऽवयवा 'देशो यस्येति विग्रहः / यत्त्ववयवस्थानीय गवादि यस्मादवयव स्थानीयादश्वादेरनत्यत् (रन्यत्) 'तत्पञ्चम्यन्तव्यपदेश्यमवयवस्थानीयमश्वादि तस्यावयवि'स्थानीयस्य गवादेर्देशो न भवतीति तात्पर्याधः / अत्र. विवक्षावधावप्रधानस्यापि पञ्चम्यन्तस्थैव यत्तच्छब्दाभ्यां परामर्शः प्रधानस्यैव तु परामर्श व्यतिरेकस्य वक्रत्वं स्यादिति / सायोक्तहेतूनां प्रतिकूलतर्कमाह यदि कारणब्यापारेति / सदसत्स्वभावकं तु इति :-'वस्तुनः कालान्तरेऽपि स्वभाव"त्यागायोगादत्र स्वभावशब्दो [पं तत्र शक्तिरिति (कं. 143.17) प्रतिनियते कार्ये शक्तिः / शक्यमिति (कं. 143.19) कार्य घटादि / अवयवोति (कं 143.20) पटादिः / अवयवेभ्य इति (कं. 143.20) तन्त्वादिभ्यः / तद्देशत्वादिति (कं. 143.20) अवयवदेशत्वात् तदेतदुक्तमिति (कं. 143.22) ईश्वरकृष्णेन साङ्ख्यसप्तत्याम् / अत्रोच्यते इति (कं. 143.25) श्रीधरेण / तस्यैवानुपपत्ति चोषितेति (कं. 144.1) कि (मि)त्युपलब्धिकारणेषु सत्सु सत्यामपि जिज्ञासायां नोपलभ्यते (कं. 143.26) इत्यनेन सन्दर्भेण पृष्टा इत्यर्थः / सर्वदेति (कं. 144.5) [10] अतिव्याप्तिरिति (कं. 143.17) कार्यविशेषनियमानुपपत्तिरित्यर्थः / "असतो विषयत्वायोगादिति (क. 143.18) ऽसत्वव्याघात इत्यर्थः / तददेशत्वादिति] (कं. 143.20) कदाचिदपि देशाविरहादित्यर्थः / इत्यादिभिरिति (कं. 143.21) विकृत्स्नके देशवत्तित्त्वानपपत्त्यादिता कार्यात ग्राह्याणि अवयव्यतिरेकसाधकानि प्रमाणानि, आदिग्रहणेन गृह्यन्ते / अस्तु कारणस्वभावं कार्य ततः किमित्यत आह कारणं चेति (कं. 143.22) / 1 तदात्वाद् - अ; 2 अवयवो-अ, ब, क; 3 देशे-ड; 4 स्थानीयादनन्यत्-भ, स्थानीयादेखन्यत् -ड; 5 पञ्चम्यन्तव्यपदेशाम् - ड; 6 स्थानीयस्य - अ, क; 7 ऽतिरेकस्य - अ, 8 वक्तृत्वं - अ, ब, क; 9 'वस्तुतः' इति अबपुस्तकयो स्ति; 10 स्यागाद् योगा - अ, 11 भसति - पा. र. पु. /