________________ 350 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् न्यायकन्दली [141] इदं त्विह निरूप्यते-कि सक्रियते ? असदेव वा ? सक्रियत इति सांख्याः / असदकरणात्, न यसतो गगनकुसुमस्य सत्त्वं केनचिच्छक्यं कर्तुम्, सतश्च सत्कारणं युक्तमेव, तद्धर्मत्वात् / दृष्टं हि तिलेषु सत एव तैलस्य निष्पीडनेन करणम् / असतस्तु करणे न निदर्शनमस्ति / इतश्च सत्कार्यम्-उपादानग्रहणात, उपादानानि कारणानि तेषां कार्येण ग्रहणं कार्यस्य तैः सह सम्बन्धः, 'तस्मात्कार्य सदेव, अविद्यमानस्य सम्बन्धाभावात् / असम्बद्धमेव कार्य कारणैः क्रियत इति चेत् ? न, सर्वसम्भवाभावात्, असम्बद्धत्वाविशेषे सर्व सर्वस्माद्भवेत् / न चैवम्, तस्मात् कार्य प्रागुत्पत्तेः कारणैः सह सम्बद्धम् / यथाहुः असत्त्वान्नास्ति सम्बन्धः कारणः सत्त्वसङ्गिभिः / असम्बद्धस्य चोत्पत्तिमिच्छतो न व्यवस्थितिः // इति / [टि०] [141] दृष्टं हि तिलेषु इति :-एतावता ग्रन्थेनान्वयव्यतिरेकानुमावं सूचितम्, विवादाध्यासित मुत्पत्तेः 'प्राक् सत् उत्पद्यमानत्वात् 'अन्वयेन यथा तैलं व्यतिरेकेण यथा गगनकुसुममिति / उपासनानि इति :-कार्यमुत्पत्तेः प्राक् कारणेषु सत् सम्बध्यमानत्वात्, यथा 'तिलेषु तैलम् / तथा विवादाध्यासितं कारणेषत्पत्तेः प्रागपि 'सम्बद्ध क्रियमाणत्वाद् तद्वदेति / 'सर्वसम्भवाभावादिति-'तर्कत्वेनात्रोपात्तम् / सायमते "त्वयमपि हेतुः विवादाध्यासितं कार्यमुत्पतेः प्रागपि स्वकारणेष्वप्यस्ति, तस्मादेव जायमानत्वात् तैलवत् / तस्य कारणात्प्रागपि इति :-करणमत्रोत्पादनक्रिया / "तस्माच्छक्तस्य इति :- पूर्वत्रव पक्षे तच्छक्यत्वादिति हेतौ / तद्वत् कारणभावाद् इति "तत्रैव पक्षे "तदात्मकत्वाद इति हेतुः / [पं०] [141] तदर्मत्वादिति (कं. 143.7) यत: कारणं सतो धर्मः / सर्व सर्वस्माद्भवेदिति (कं. 143.11) सर्वकार्य स्यात् सर्वस्माद्भावादित्यर्थः / यथाहुरिति (कं. 143.12) साङ्घचमतमाश्रित्य भट्टाचार्याः / असत्त्वादित्यादि (कं. 143.13) श्लोकः / व्याख्या: कार्यस्यासत्वात्कारणः सह न सम्बन्धः किन्तु सत्त्वादेव सम्बन्ध इति पूर्वार्धतात्पर्यार्थः / उत्तराद्धं सुगमम् / [कु०] [141] ननु सत्कार्यनये अभावासहकृतोऽपि परिणतिविशेषः संयुक्तिप्रत्ययनिमित्त [1]न वस्त्वन्तरमिति मतमुत्थापयति इदं स्विति (कं. 143.5) / असदकरणादिति (कं. 143.6) अत्रासदिति निरुपाख्यानमभिप्रेतं यदाह गगनकुसुमस्येति (कं. 143.6) अत्र प्रयोगः- यत्कार्यम, उत्पत्तेः प्रागपि सत्कार्यत्वात्तैलमिव तिल इति सत्कार्यम् ; उपादानग्रहणादिप्रयोगश्व कार्य प्रागुत्पत्तेः सत् कारणकारणसम्बन्धित्वात् उत्पन्न घट इव / हेत्य सिद्धिमाशङ्कय परिहरति असम्बद्धमेवेति (कं. 143.19) / 1 तस्मात्तत्-कं. 1, कं. 2 / 2 मुत्पद्यते -; 3 प्रागसत-अ, ब, क; 4 अन्वयिन-अ; 5 कारणेऽप्यसत् - अ, ब 6 सम्बद्धः - अ, ब; 7 त्वंद्व देवेति-भ, स्वदेवेति-क; 8 सर्वसम्भवाद् -अ 9 तत्विानानोपात्तम् -भ; 10 स्वयमपि-3; 11 प्रापि - ड; 12 तस्माम्बालस्य - ड; 13 म तत्रैव; 14 तबास्मेकरवात - अ, ब /