________________ टिप्पणपञ्जिकाकुसुमोदगमापिटीकात्रयोपेतम् न्यायकन्दली स्यावित्यर्थः / अत्र सूत्रे वार्तमामिकप्रतीतिहेतुत्वेनाभिधीयमानेषु तन्तुषु संयुक्तेष्वेवानपेक्षशब्दप्रयोगात् संयोगो द्रव्यारम्भे निरपेक्ष इति प्रतीयते इति तात्पर्यम् / तुशम्देन पूर्वस्माद्विशेष प्रतिपादयन्नाह-गणकारम्भे तु सापेक्षः। कुतो नातमित्यत भाह-संयुक्तसमवायादिति / अग्नेवैशेषिकमित्यग्निगतमुष्णत्वं विवक्षितम् / तत्पार्षिवपरमाणुसंयुक्त वह्नौ समवायात् परमाणौ रूपायुत्पत्तिकारणमित्यस्माद्वचनाद् गणारम्भे परमाण्वग्निसंयोगस्योष्णस्पर्शसापेक्षत्वं प्रतीयते, अन्यथा वह्निसंयोगजेषु रूपारिषु वह्निस्पर्शस्य कारणत्वाभिधानायोगात, बद्धघारम्भे आत्ममनःसंयोगस्य स्वाश्रयस्वनिमित्तकारणव्यतिरेकेणापि धर्माद्यपेक्षत्वमिति यथासंभवमप्यूह्यम्, 'कर्मारम्भेऽपि संयोगस्य सापेक्षत्वं, वायुगतवेगापेक्षस्य तृणवायुसंयोगस्य तृणे कर्मारम्भकत्वात् / बोजविनाशानन्तरमङ्करस्योत्पत्तेर्मुत्पिण्डध्वंसानन्तरं घटस्योत्पादादभावादेव द्रव्यस्योत्पादो न संयोगादिति चेत् ? तवयुक्तम्, अवयवसंयोगविशेषेभ्यो द्रव्यस्योत्पत्तिदर्शनात्, 'अमावस्य निरतिशयत्वे कार्यविशेषस्याकस्मिकत्वप्रसङ्गाच्च / [पं०] 'स्वाश्रयस्वनिमित्तकारणव्यतिरेकेणापीति (कं. 142.26) अत्र स्वाश्रयः आत्ममनोलक्षणः / स्वनिमित्तकारणं मनःकर्मरूपालोकादि / पर: प्राह बोजविनाशानन्तर( कं. १४३.२)मित्यादि / अभावस्य निरतिशयत्वे कार्यविशेषस्याकस्मिकस्वप्रसङ्गाच्चेति (कं. 143.4) विशेषाश्चातिशयास्ते च तुच्छरूपाभावे कथं घटन्ते ? कारणे च विशेषाभावे कुतस्ते कार्ये स्युरिति गमनिका / [10] तवयुक्तमिति (कं. 143.3) / अभावस्यानन्तयंमन्यथा सिद्धं मृत्पिण्डप्रध्वंसस्यानन्तयं पूर्वव्यूहनिवृत्तावेवोत्तरव्यूहस्योत्पत्तेः / प्रागभावस्य च सहकारितया न तूपादानतया; तथात्वे तदमादितया कार्यस्याप्यनादित्वप्रसङ्गात् / अत एव पाकजानां स्वप्रागभावसहकृतवह्निसंयोगकार्यतया तत्र [त] द्विशेषसम्भव इति भावः / विपक्षे बाधकमाह [अ]भावस्येति (कं. 143.4) / अभावमात्रस्य कारणत्वे व्रीहियवबीजयोरभावस्य स्वारसिकविशेषाभावादकॅरयोः कस्यचिद्यपाकुरस्य बीह्यकुरत्वमिति [वि] शेषानुपपत्तेः, अनुवर्तमानानां तदवयवानामुत्तरव्यूहविशिष्टानामेव कारणत्वमपि (भवितव्यमिति भावः / 1. कर्मारम्भेऽपि तृणे कर्मारम्भकवत् - कं. 1, कं. 2 / 2 अभावनिविशेषरवे - जे. 2 / 3 स्वाश्रवस्य-कं /