________________ टिप्पणपञ्जिकाकुसुमोदगमारिटीकात्रयोपेतम् 345 न्यायकन्दली एवं संख्यया सह पृथक्त्वस्य साधम्यं प्रतिपाद्य वैधम्यं प्रतिपादयति-एतावास्स्विति / संख्यायाः सकाशात् पृथक्त्वस्यैतावान् भेदो यथा संख्यात्वपरसामान्यापेक्षयकत्वद्वित्वाविकमपरसामान्यमस्ति, तथा पृथक्त्वपरसामान्यापेक्षयैकपृथक्त्वद्वित्वाविकमपरसामान्य 'नास्तीति / कथं तानेकेष्वेकपृथक्त्वादिष्ववान्तरप्रत्ययविशेषस्तत्राह-संख्यया तु विशिष्यते इति / अयमेकः पृथग द्वाविमौ पृथगित्येकत्वादिसंख्याविशिष्टो ग्यवहारः पृथक्त्वे दृश्यते / तेनैकत्र द्रव्ये वर्तमानं पृथक्त्वमेकार्थसमवेतय'कत्वसंख्यया विशिष्यते, द्वयोर्वर्तमानं द्वित्वसङ्ख-यया स्मृत्युपनीतया विशिष्यते तद्विशेषाच्चावान्तरग्यवहारविशेषः, अनुबत्तिप्रत्ययश्च पृथक्त्वसामान्यकृत एवेत्यभिप्रायः / एतेन परमाणुपरिमाणेष्वपि परमाणुत्वं सामान्यं प्रत्याख्येयम्, परमशब्दविशेषितादेवाणुस्वसामान्याद् व्यवहारानुगमोपपत्तेः / अथ कस्मात् सर्वद्रव्यानुगतमेकमेव पृथक्त्वमेकत्वादिसंख्याविशेषणभेवात् प्रत्ययभेवहेतुरिति नेष्यते ? नेष्यते, क्रमेणोपजायमानेषु द्रव्येषु सामान्यवद् गुणस्य समवायावर्शनात् / अथेदं सामान्यमेव भविष्यति ? न, पिण्डान्तराननुसन्धामे सामाग्यबुद्धिवत् पृथक्त्व बुद्धरभावात / [पं०] (कं. 139.8) अत्राणुत्वमेव सामान्यमित्यर्थः, केवलं परमशम्देन विशेष्यते इति द्रष्टव्यम् / नेष्यते इत्यादि (कं. 139.10) श्रीधरवाक्यम् / क्रमेणोपजायमानेषु व्रम्येषु सामान्यवद् गुणसमवा[या]पर्शनादिति (कं. 139.10) सामान्यं हि प्रथमक्षण एव द्रव्यं समवेति गुणास्तु द्वितीयक्षणे द्रव्ये समवयन्ति अतो गुण: पृथक्त्वमित्यर्थः / पिण्डान्तराननुसन्धाने इत्यादि (कं. 139.12) 'सामान्ये पिण्डान्तरमनुसंधात्तेः इत्यादि-सामान्यं पिण्डान्तरानुसन्धायि पृथक्त्वं तु न तथा अतः कथं सामान्यमिदम्, अवान्तरजातिमत्त्वाभावादिति माक्यार्थः / पिण्डान्तरानुसन्धाने इत्यतः पुरः सति इत्यध्याहार्यम् / // इति पृथक्त्वगुणविवरणं समर्थितम् / / [कु०] एवं सङ्ख्ययेति (कं. 128.26) निष्यत्त्यतिदेशे तत्वत्यु(यु)क्तावान्तरजातिभेदः शङ्कां निवारयितुमित्यर्थः / अपरसामान्यं नास्तीति (कं. 139.3) तदङ्गीकारे द्वित्वादिना सह सङ्करः स्यादिति भावः / निमित्तविशेषमन्तरेणानुवृत्तिविशेषानुपपत्तेरिति भावः / एकत्वसङ्ख्यया विशिष्यत इति - (कं. 139.6) उपलक्ष्यत इत्यर्थः / विशेष्यानधिकरणस्य विशेषणत्वायोगात्तद्विशेषाच्चेति आधारभेदः कृतः कोऽपि माधर्यादिवज्जातिभेदोऽस्त्येवेति / स तु दिक्पृथक्त्वमित्यनेन साक्षायुज्यते / तथा च सति जातिसाङ्कर्यप्रसङ्गात् / इममेव विशेषं दर्शयितुं-मूल्य इत्युक्तम् / एतेनेति (कं. 139.7 ) पृथिवीत्वादिभिर्जातिसार्यप्रसङ्गेनेत्यर्थः / न पिण्डान्तरेति (कं. 139.12) सामान्यं हि विनावधिन निरूप्यते, पृथक्त्वमवधिनैव निरूप्यत इति सामान्याद्भिद्येत इत्यर्थः / / [इति पृथक्त्व म् ] 1 नास्ति-जे. 1, जे. 2 / 2 तकत्र-कं. 1, कं. 2 / 3 °कत्वगङ्ख्यया विशिष्यते तद्विशेषश्च-कं. 1, कं. 2 / 4 पुनरावृत्तमिव भाति। YY