________________ टिप्पणपञ्जिकाकुसुमोदगमाबिटीकाबयोपेतम . 343 343 प्रशस्तपादभाष्यम् [139] पृथक्त्वमपोद्धारव्यवहारकारणम् / तत्पुनरेकद्रव्यमनेकद्रव्यं च / तस्य तु नित्यत्वानित्यत्वनिष्पत्तयः संख्यया व्याख्याताः / एतावांस्तु विशेषः- एकत्वादिवदेक पृथक्त्वाद्यपरसामान्याभावः संख्यया तु विशिष्यते तद्विशिष्टव्यवहारदर्शनादिति / , न्यायकन्दली [139] पृथक्त्वमपोद्धारव्यवहारकारणम् / अपोद्धारव्यवहार इदमस्मात् पृथगिति ज्ञानं व्यपदेशश्च, तस्य कारणं पृथक्त्वमिति / व्याख्यानं पूर्ववत् / इतरेतराभावनिमित्तोऽयं ग्यवहार इति चेन्न. प्रतिषेधस्य विधिप्रत्ययविषयत्वायोगात् / तत्पुनरेकद्रव्यमनेकद्रव्यं च / एक द्रव्यमाश्रयो यस्य तदेकद्रव्यम्, अनेक द्रव्यमाश्रयो यस्य तदनेकद्रव्यम्, पुनःशब्द [139] ___ ( // अथ पृथक्त्वनिरूपणम् / / ) [टि०] ननु द्वित्वद्विपृथक्त्वयोभिन्न भिन्नापेक्षावुद्धिनिष्पाद्यत्वात् द्विपृथक्त्वकाले 'द्वित्वाभावान् कथं 'द्वित्वेन पृथक्त्वं विशिष्यते इत्याह 'द्वयोर्वर्तमानम् इति / एतेन परमाणु इति नन्वणत्वसामान्यात् परमाणुपरिमाणेऽपि द्वघणुकवदणुव्यपदेश एव स्यान्नतु परमाणु व्यपदेशः / नैवम् , अणुत्वप्रकर्षातथा व्यपदेशोपपत्तेः / / पृथक्त्वम् // / अथ पृथक्त्वगुणविवरणम् / | इतरेतराभावनिमित्तोऽयं व्यवहार इति (कं 138.11) य एव हि घटस्य पटेऽभावः स एव घटस्य पृथक्त्वम् / य एव च पटस्य घटेऽभावः स एव पटस्य पृथक्त्वम् / तस्मादलं पृथक्त्वलक्षणकल्पनयेति चोद्यार्थः / प्रतिषेधस्य विधिप्रत्ययविषयत्वायोगादिति (कं. 138.12) पृथक्त्वं हि विधिप्रत्ययविषयम् / इदमस्मात्पृथगिति यथा / अनेकं द्रव्यमाश्रयो यस्येति (कं. 138.13) द्विपृथक्त्वादौ द्रष्टव्यम् / [कु०] [139] अपोद्धारव्यवहारः- अवच्छिद्य निर्धारण पञ्चम्या निर्धारणमित्यर्थः विधिप्रत्यययोगादिति (कं. 138.12) (न)न च पृथक्त्वादिशब्दानां प्रलयादिशब्दसाम्यम् अत उभयोपसृष्टवाक्यार्थे पदवचनात् इह तु तदभावात् / किश्च पृथगन्यदित्यादिपदानामित रेतराभावार्थत्वे घट: पटो न भवतीत्यत्रापि 'अन्यारादितर' इति पञ्चमी स्यात् / अन्य इत्यर्थग्रहणादिति भावः / इह प्रत्ययहेतुत्वाच्च न समवायः / पृथक्त्वमस्मदादिप्रत्यक्षत्वाच्च न विशेषेप्यन्तर्भावः। एकद्रव्यस्यापि सम्भवात् [न]सामान्ये, अचलनात्मकत्वान्न कर्मणि निर्गुणत्वान्न द्रव्ये, परिशेषाद् गुणः / ततो 3 द्वित्वभावात् - अ. ब; . 1 पृथक्त्वादिषु-कं. 1; कं. २-पृथक्त्वादिसामान्या-कि। 4 द्वित्वे पृथक्त्वं-अ, ब, क; 5 द्रव्ये - मु. जे. 1 मे. 3 / 2 भिन्ना-अ, ब, क; 6 परिमाण -अ, ब /