________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपेतम् प्रशस्तपादभाष्यम् अथ व्यणुकादिषु वर्त्तमानयोर्महत्वदीर्घत्वयोः परस्परतः को विशेषः ? 'द्वयणुकेषु चाणुत्वह्रस्वत्वयोरिति / तत्रास्ति महत्त्वदीर्घत्वयोः परस्परतो विशेषः, महत्सु दीर्घमानीयताम्, दीर्घषु च महदानीयतामिति 'विशिष्टव्यवहारदर्शनादिति / अणुत्वह्रस्वत्वयोस्तु परस्परतो विशेषस्तशिनां प्रत्यक्ष इति / 'एतच्चतुविधमपि परिमाणमुत्पाद्यमाश्रयविनाशादेव विनश्यतीति / . न्यायकन्दली दीर्घत्वस्योत्पत्तिमाह-महत्त्ववदिति / यथा महत्त्वस्य कारणबहुत्वात् समानजातीयात् कारणमहत्त्वात् 'प्रचयाच्चोत्पत्तिरेवं दीर्घत्वस्यापि कारणबहुत्वात् प्रचयोत्पत्तिरिति सर्वमस्य महत्त्वेन सह तुल्यम् / द्वयणुके ह्रस्वत्वस्यापि द्वित्वसंख्येवासमवायिकारणमित्याह-अणुत्ववदिति / कथमेकस्मात् कारणात् कार्यभेदः ? अदृष्टविशेषस्य सहकारिणो भेदात् / महत्त्वविशेष एव दीर्घत्वम्, अणुत्वविशेष एव ह्रस्वत्वमिति मन्यमान आह-अथेति / समाधत्ते-तत्रास्तीति / यदि दीर्घमहत्त्वयोरभेदो दीर्घष महदानीयतामिति निर्धारणं न स्यादभेदात् / नहि भवति रूपवत्सु रूपवदानीयतामिति, अस्ति चेदं निर्धारणम् / तेन दीर्घत्वमहत्त्वयोर्भेदः कल्प्यते, परिमाणस्य व्याप्यवृत्तित्वादेकस्मिन् द्रव्ये परिमाणद्वयानुपपत्तिरिति चेन्न, विजातीययोरेकत्र वृत्त्यविरोधात्, अवान्तरजाति [पं०] कारणबहुत्वादिति (कं. 137.12) अत्र कारणं सङ्ख्या / ह्रस्वत्वस्यापीति (कं. 137.14) न केवलमणुत्वस्य / परः प्राह कथमित्यादि (क. 137.15) / कार्यभेद इति (कं. 137.15) अणुत्वह्रस्वत्वलक्षणकार्यभेदः / सूरिः प्राह अदष्टविशेषस्येत्यादि (कं. 137.15) / पर: प्राह परिमाणस्येत्यादि (कं. 137.20) / परिमाणद्वयानुपपत्तिरिति (कं. 137.20) परिमाणद्वयं दीर्घत्वमहत्त्वलक्षणम् / विजातीययोरेकत्र वृत्यविरोधादिति (कं. 137.21) मजातीययोस्त्वेकत्र वृत्तिर्न स्यादेव / न हि महत्त्वेन महत्त्वं परिमाणस्य व्याप्यवृत्तित्वादेकेनैव कि०] कथमेकस्मादिति (कं. 137.15) कारणभेदो हि कार्यभेदे प्रयोजक इति भावः / अदष्टेति (कं. 137.15) ' कार्यभेदात् कारणभेद: कल्प्य इति भावः / महत्त्वविशेष इति (कं. 137.15) न सामान्यविशेषयोः समप्रधानतया परिगणनम्पपन्नमिति भावः / अशक्यनिराकरण इति (कं. 137.23) अन्यसाधर्म्यमात्रेण दृष्टनिराकरणेतिप्रसङ्ग इति भावः / 1 द्ववणुके-जे.। 2 व्यवहारदर्शनात् -जे। 3 तत् - कं. 1, कं. 2 कि। 4 आधार-जे। 5 प्रचयोत्पत्तिरिति सर्वमस्य - कं. 1, कं. 2 /