________________ 340 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् प्रशस्तपादभाष्यम् [138] द्वित्वसंख्या चाण्वोर्वर्तमाना द्वयणुकेऽणुत्वमारभते / महत्त्ववत् त्र्यणुकादौ कारण बहुत्वमहत्त्वसमानजातीयप्रचयेभ्यो दीर्घत्वस्योत्पत्तिः। 'अणुत्ववद् द्वयणुके द्वित्वसंख्यातो ह्रस्वत्वस्योत्पत्तिः / न्यायकन्दली [138] द्वित्वसंख्या चाण्वोर्वर्तमाना द्वयणुकेऽणुत्वमारभते। यस्तु परमाणुपरिमाणाभ्यामेव द्वचणुके परिमाणोत्पत्तिमिच्छति, तं प्रति घणुकस्याप्यणुतमत्वप्रसक्तिरिति पूविकैव युक्ति'रावर्तनीया। अधिकं चैतद् 'यन्नित्यद्रव्यपरिमाणस्यानारम्भकत्वम् / परमाणुपरिमाणं न कस्यचिदारम्भकं नित्यद्रव्यपरिमाणत्वात्, आकाशादिपरिमाणवत्, परमाणुपरिमाणत्वाद्वा मनःपरिमाणवत् / [टि०] विजातीयत्वम्, यथा विजातीययोरेकत्वद्वित्वयोर्नेकत्र विरोधस्तथा परिमाणयोरप्यविरुद्धयोरेकवावस्थानं न दुष्यति / विरुद्धयोस्तु नैकत्रावस्थानमिति / अस्मदादीनां तु भाक्तयोः इति :-प्रत्यक्षसिद्धस्तु अस्मदादीनां अणुत्वमहत्त्वयो[ भेद] इति / केचिद् बौद्धाः / केवलेति :- अन्योन्यापेक्षामन्तरेण यावत् हस्तवितस्त्यादिपरिमाणं वस्त्रादेस्तदन्यापेक्षायामपि तदवस्थ मेवेति // परिमाणम् / / [पं०] [138] इदानीमणुत्वस्योत्पत्तिमाह द्वित्वसङ्ख्या चाण्वोरित्यादिना (कं. 137.7) / द्वयणुकस्याप्यणुतमत्वप्रसक्तिरिति (कं. 137.8) कारणानुरूपत्वात्कार्यस्य / अधिकं चैतदिति (कं. 137.9) अयं चापरो दोष इत्यर्थः / तमेव दोषं दर्शयति यनित्यद्रव्यपरिमाणस्यानारम्भकत्वमिति (कं. 137.9) / कोऽर्थः ? यदि हि परमाणुपरिमाणाभ्यां घणुकपरिमाणमारभ्यते तदा परमाणुपरिमाणस्यारम्भकत्वं प्रसज्यते इत्यर्थः / [कु०] [138] पूर्विकंव युक्तिरिति (कं. 137.9) कार्ये परिमाणमारभ्यमाणस्य सजातीयोत्कर्षहेतुतावगम्यते, तथा महदारब्धं महत्तरम्, एवमण्वो रा] रब्धमणुतरं भवेदित्यर्थः / अधिकं चैतदिति (कं. 137.9) अस्यैव तर्कस्यानुग्राह्यं प्रमाणमित्यर्थः। आकाशादिपरिमाणवदिति .(कं. 137.11) न च द्रव्याणा मा] रम्भकत्वमपाधिः अनुकूलस्य तर्कस्याभिहितत्वात् / व्यापकमहत्त्वस्य सङ्ख्याकारकत्वेऽभिहित: परिशेष इहापि द्रष्टव्यः। स चास्येति कार्यविशेषणं कारणविशेषसामर्थ्यावधारणं महत्त्वेन तुल्यमित्यर्थः / 1 बहत्त्वसमानजातीयेभ्य-जे. 1; दे। 2 अणवत्-दे। 3 राश्रयणीया-जे. 2 / 4 नित्यपरिमाणस्यानारम्भकत्वम् - जे. 2 / 5 न भवति - कं. 1, कं. 2 / 6 परिमाणयोरेकत्रावस्थानं - अ, ब, क; 7 'दीर्घत्व. महत्वयोः' इति अधिकः पाठः अबकपुस्तकेषु / 8 मवति -- अ /