________________ 338 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् न्यायकन्दली संयोगः प्रशिथिल इतरेतरपिण्डावयवानामितरेतरावयवैः संयोगा अपि प्रशिथिलाः, पिण्डयोरारम्भकाश्च न प्रशिथिलाः, तत्र पिण्डाभ्यामारब्धे द्रव्येऽत्यन्तनिबिडपरस्परावयवसंयोगपिण्डद्वयारब्धद्रव्यापेक्षया महत्त्वातिशयदर्शनात् पिण्डयोः प्रशिथिलः संयोग इतरेतरपिण्डावयवसंयोगापेक्षो महत्त्वस्य कारणमिति विवेकः / / ___अथ कथं तत्र बहुत्वमहत्त्वयोरेव क्लृप्तसामर्थ्ययोः कारणत्वं नेष्यते ? तत्राहन बहुत्वमहत्त्वानीति बहुत्वमहत्त्वानीति विषय भेदापेक्षया बहुवचनम् / 'यत्र यत्र प्रचयविशेषात् परिमाणविशेषप्रतीतिरस्ति न 'तत्र तत्र बहुत्वं महत्त्वं च कारणमित्यर्थः / अत्रोपपत्तिः-समानसंख्यापलपरिमाणैरारब्धेऽतिशयदर्शनात् / संख्या च पलं च परिमाणं च संख्यापलपरिमाणानि समानानि संख्यापलपरिमाणानि येषां तेरारन्धे कार्येऽतिशयदर्शनात् / यदि हि संख्यैव कारणं समानसंख्यस्त्रिभिश्चतुभिर्वा प्रशिथिलसंयोगनिबिडसंयोगैश्चारग्धयोव्ययोः प्रशिथिलसंयोगारग्धे निबिडसंयोगारब्धापेक्षया महत्त्वातिशयो [टि०] न चात्र स्पर्शवद्-द्रव्यपरिमाणत्वादि'त्युपाधिः, अनारम्भकस्यान्त्यावयविपरिमाणस्यास्पर्शवग्यपरिमाणत्वाभावेन साध्यव्यापकत्वाभावात् / ननु तथापि कार्यपरिमाणस्यासमवायिकारणत्वाभावस्योपाधित्वं भविष्यति ? नैवम्, विपके [पं०] अथ कथं तत्र बहुत्व-महत्त्वयोरेव 'प्रकृष्टसामर्थ्ययो: कारणत्वं नेष्यते इति (कं. 136.15) अत्र वाक्ये कारणत्वं नेष्यते इत्यस्मात्पुरः किं तु प्रचयस्यैव कारणत्वमिष्यते इति वाक्यमध्याहार्यम् / बहुत्वं सङ्ख्या 'बहुगणं भेद' इति वचनात्, महत्त्वं च परिमाणम् / अत एवाह समानसङ्खयापलेत्यादि (कं. 136.18) / कारणमिति महत्परिमाणस्य हेतुरित्यर्थः / यदि हि सङ्खयेव कारणम् (कं. 136.20) इत्यस्मात्पुरस्तदेत्यध्याहायम् / त्रिभिश्चतुभिर्वेति ( क. 136.20) कल्पनया पञ्चादिभिरपि / आरब्धयोरिति (कं. 136.21). आरब्धयोर्द्रव्ययोर्मध्यादित्यर्थः / महत्वातिशयो न स्यादिति (कं. 136.22) अथवास्तीति भावः / कारणसङ्खचाया इति (कं 136.22) अत्र कारणं संयोगाः / [0] अस्तु बहुत्वसमत्वादिकारणं महत्त्व तु सदेव कथमकारणमत आह अत्रोपपत्तिरिति (कं. 136.18) / समानमयस्त्रि(कं. 136.20) भिरित्यनेन भाष्ये सङ्ख्याग्रहणं सत्यपि बहुत्वे प्रचयस्य सामविधारणाय कृतमिति दर्शनात् प्रकरणाविरोधः। द्वित्वकालापेक्षया समानमहत्त्वाभ्यामिति वक्तव्ये समानमहत्त्वैरिति वचनं प्रयत्वस्य (प्रचयस्य) 1 प्रचयभेदा - कं. 1, कं. 2 / 2 यत्र प्रचयविशेषात् - कं. 1; कं. 2 / 3 तत्र बहुत्वं महत्त्वं च नकं. 1; कं. 2 / 4 रारब्धेऽतिशयदर्शनात-जे. 1; जे. 2 / 5 दित्युपाधेः-डा 6 न महत्त्वम् -कं /