________________ टिप्पणपञ्जिकाकुसुमोदगमादिटीकात्रयोपेतम् 337 प्रशस्तपादभाष्यम् [137] प्रचयश्च तूलपिण्डयोर्वर्तमानः पिण्डारम्भकावयव प्रशिथिलसंयोगानपेक्षमाण इतरेतरपिण्डावयवसंयोगापेक्षो वा द्वितूलके महत्त्वमारभते 'न बहुत्वमहत्त्वानि, समानसंख्यापलपरिमाणैरारब्धेऽतिशयदर्शनात् / न्यायकन्दली [137] 'प्रचयस्य कारणत्वमाह-प्रचयश्चेति / प्रचय इति द्रव्यारम्भकः प्रशिथिल: संयोगविशेषः। स तु द्वितलकद्रव्यारम्भकयोस्तुलपिण्डयोर्वर्तमानः प्रत्येक पिण्डयोरारम्भकान् प्रशिथिलानवयवसंयोगानपेक्षमाण इतरेतरपिण्डयोरवयवानां परस्परसंयोगानपेक्षमाणो वा द्वितूलके महत्त्व'मारभते / यत्र पिण्डयोः संयोगः स्वयं प्रशिथिलस्तयोरारम्भकाश्चावयव संयोगा अपि प्रशिथिलास्तत्र पिण्डाभ्यामारब्धे द्रव्ये निबिडावयवसंयोगारब्धपिण्डद्वनिबिडसंयोगजनितद्रव्यापेक्षया महत्त्वातिशयदर्शनात्, पिण्डयोः प्रशिथिलः संयोगः पिण्डारम्भकप्रशिथिलसंयोगापेक्षो महत्त्वस्य कारणम् / यत्र तु पिण्डयोः [टि०] [137- 138] 'गुणकर्मारम्भे तु सापेक्ष इति वचनादपेक्षणीयं दर्शयति प्रत्येक पिण्डयो: इति / 'अणुतमत्वप्रसक्तिः इति कारणसमानजातीयापेक्षया कार्यपरिमाणस्य सातिशयितादर्शनात् / परमाणपरिमाणम् इत्यादि : [पं०] [137] द्वितूलकद्रव्यारम्भकयोरिति (कं. 136.4) तूलशब्देन पिण्ड: संयोगो गुणकारम्भे सापेक्ष इति वचनादपेक्षणीयं दर्शयति प्रत्येक पिण्डयोरित्यादि (कं. 136.5) / संदर्भेण संयोग इति (कं. 136.7) परस्परं संयोगः / तयोरिति (कं. 136.7) पिण्डयोः / “स्वावयवसंयोगा इति (कं. 136.7) मौलिक्याः पिण्डद्वयारम्भकाः / पिण्डारम्भकप्रशिथिलसंयोगापेक्ष इति (कं. 136.10) पिण्डप्रत्येकस्थप्रशिथिलसंयोगापेक्ष इत्यर्थः / पिण्डयोरारम्भकाच न प्रशिथिला इति (कं. 136.12) पिण्डयोः प्रत्येकस्थाश्च संयोगास्ते प्रशिथिला इत्यर्थः / एतावान् विशेष: पाश्चात्यपक्षादत्रेति द्रष्टव्यम् / महत्त्वस्येति (कं. 136.14) महत्परिमाणस्य / [कु०] [137] 'प्रचयो हीति (कं. 136.3) अत्र द्रव्यारम्भक इति [वि] शेषणं द्रव्यारम्भकरस्य समवायिकारणा भावेन परिमाणानारम्भकत्वात् / प्रत्येकमिति (कं. 136.5) इदं च गुणकर्मस्वारब्धेषु सापेक्ष इति नियमादुक्तमनुसन्धेयम् / “यत्र पिण्डयोरिति (कं. 136.7) पूर्वत्र प्रमाणोपदर्शनम् / यत्र त्वित्युत्तरत्र / 1 प्रशिथिलसंयोगापेक्षमाणः -कि प्रशिथिलसंयोगापेक्षः - जे. व्यो. 477;. प्रशिथिलावयवसंयोगापेक्ष: - दे। 2 न महत्त्वानि - कि.। 3 प्रचयमाह-कं. 1; कं. 2, कि। 4 मारभ्यते - कं. 1; कं. 2 / 5 संयोगा प्रशिथिला:- जे. 1; जे. 2 / 6 गुण: कारम्भे---ड-.-७ अणुमहत्त्व -अ, ब, क; ...8 -अवयवसंयोगा-कं: 9 प्रचयश्च-कं / 1. अत्र-ह. लि. / 43