________________ टिप्पणपञ्जिकाकुसुमोद्गमाविटीकात्रयोपेतम् 335 न्यायकन्दली परमाणुभ्यामारब्धं द्वयणुकं परमाणुद्वधणुकमित्युच्यते / तेषु त्रिष्वेकैकगुणालम्बनामीश्वरबुद्धिमपेक्ष्योत्पन्ना या त्रित्वसंख्या 'सा तैस्त्रिभिर्द्वयणुकै रारब्धे कार्यद्रव्ये व्यणु कलक्षणे रूपाद्युत्पत्तिसमकालमेव महत्त्वं दीर्घत्वं च करोति / तत्रेतिपदं महत्परिमाणकारण'निर्धारणार्थम्, व्यणुकादीत्यादिपदं चतुरणुकादिपरिग्रहार्थम् / कथं पुनरेष निश्चयः, व्यगुकादिपरिमाणस्य द्वयणुकगता बहुत्वसंख्यैवासमवायिकारणमिति? अन्यस्यासम्भवात् / न तावद् द्वयणुकवृत्तयो रूपरसगन्धस्पर्शकत्वैकपृथक्त्वगुरुत्वद्रवत्वस्नेहास्तस्यासमवायिकारणम्, तेषां कारणवृत्तीनां कार्ये गुणमारभमाणानां समानजातीयगुणान्तरारम्भे एव सामर्थदर्शनात् / द्वयगुकाणुपरिमाणानां चारम्भकत्वे व्यणुकस्याणुत्वमेव स्यान्न महत्त्वम्, परिमाणात् समानजातीयस्यैव परिमाणस्योत्पत्त्यवगमात् / अस्ति चात्र महत्त्वम् , भूयोऽवयवारब्धत्वाद् घटादिवत् / न चासमवायिकारणं विना कार्यमुत्पद्यते, दृष्टश्चान्यत्रावयवसंख्याबाहुल्यान् समानपरिमाणारब्धयोः कार्ययोरेकत्र महत्त्वातिशयः / तेनात्र संख्याया एव कारणत्वं कल्प्यते / द्वयणुकसंयोगाभ्यां 'व्यणुके महत्त्वोत्पत्तिरिति चेन्न, संयोगस्य महत्त्वारम्भकत्वे द्वयणुकेऽपि महत्त्वोपपत्तिः स्यात्, यदि तु भूयसामवयवानां संयोगः कारणमित्युच्यते, प्राप्ताप्राप्तविवेकादवयवानां भूयस्त्वमेव कारणं समथितं स्यात्, ईश्वरबुद्धयपेक्षस्य त्रित्वस्य स्थितिहेत्वदृष्टक्षयाद्विनाशो न तु कदाचिदाश्रयविनाशादपि 'विनाशः, न त्वपेक्षाबुद्धिविनाशाद् विनाशः ईश्वरबुद्धेनित्यत्वात् / पं०] तेष्विति (कं. 135.4) द्वयणुकेषु / ईश्वरबुद्धिमपेक्ष्योत्पन्नेति (कं. 135.4) अपेक्षाबुद्धिजा सङ्घयति वचनात / कथं पुनरित्यादि (कं. 135.7) परप्रश्नः। श्रीधरः प्राह अन्यस्यासम्भवादित्यादि (कं. 135.8) तस्येति (कं. 135.9) महत्परिमाणस्य / कारणवत्तीनामिति (कं. 135.9) दृयणकत्रयवृत्तीनाम / अस्ति चात्र महत्त्वमिति (क. 135.12) अत्र द्वयणुके। एकत्र महत्त्वातिशय इति (कं. 135 14) यत्रावयवसङ्ख्याबाहुल्यम् / द्वयणुकसंयोगाभ्यामिति (कं. 135.15) त्रिभिद्वर्यणकैहि संयोगद्वयं भवति अन्तरद्वयसयोगद्वयदर्शनात् स्थापना 000 / 'यणुकेऽपि महत्त्वोत्पत्तिः स्यादिति (कं. 135.15) तत्रापि परमाणुद्वयस्य संयोगात् / कारणमिति (क. 135.16) महत्परिमाणस्य कारणमित्यर्थः / प्राप्ताप्राप्तविवेकादवयवानां भूयस्त्वमेव कारणं समर्थितं स्यादिति (कं. 135.16) प्राप्ताप्राप्तविवेकादिति - अन्वयव्यतिरेकविवेकात / प्राप्ता अप्राप्ता वा भूयांसोऽवयवा महत्परिमाणस्य कारणं स्युर्भूयस्त्वं च सङ्ख्यवेत्यर्थः / परत्त्वापरत्व द्विपथक्तवादीनि त्वकारणान्येवेति नात्र चिन्तितानि / ईश्वरबुद्धयपेक्षस्य त्रित्वस्य स्थितिहेत्वदृष्टक्षयाद्विनाश इति (कं. 135.17) अन्यत्र हि सङ्ख्याऽपेक्षाबुद्धेर्जायते तद्विनाशाद्विनश्यति / 'कदाचिदाश्रयविनाशादपि विनाश इति (कं. 135.18) यत्र त्रयाणां द्वयणुकानां मध्यादेकं द्वि विण्यपि च विनश्यन्ति / सा त्रिभि-कं. 1, कं. 2 / 2 आरब्ध-कं. 1, कं.२। 3 निवारणार्थम - कं. 1, कं. 2 / 4 त्र्यणुके महत्त्वोत्पत्तिः स्यात् - कं. 1, कं. 2 / 5 यदि-कं. 1; कं. 2 / 6 विनाशः ईश्वरबुद्धेनित्यत्वात् - कं. 1, कं.२, कि। 7 त्र्यणुके महत्त्वोत्पत्ति-कं। 8 न तु कदाचिदाश्रयविनाशादपि-कं /