________________ 334 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् न्यायकन्दली यदि ह्रस्वत्वमुत्पाद्यनाणुत्वेनैकार्थसमवेतं कथमन्यत्र ह्रस्वत्वव्यवहारः ? तत्राहसमिदिक्षुवंशादिष्विति / समिच्चेक्षश्च वंशाश्च समिदिक्षवंशाः / एतेष्वञ्जसा परमार्थतो दीर्घष्वपि 'वंशे यः परिमाणप्रकर्षभावो दीर्घातिशययोगित्वं तस्याभावमिक्षावपेक्ष्य प्रतीत्य भाक्तो गौणो व्यवहारः, एवमिक्षोः प्रकर्षभावस्तस्याभावं समिध्यपेक्ष्य ह्रस्वव्यवहारः / यत्खलु परमार्थतो ह्रस्वं द्वयणुकं तत्र दाभावः, इक्षावपि वंशस्य यादशं दैर्घ्य तादृशं नास्तीत्युपचारः / नन्वेतेषु वास्तव एव ह्रस्वत्वव्यवहारः किं नेष्यते ? नेष्यते, तेष्वेव परापेक्षया दीर्घव्यवहारदर्शनात् / न चैकस्य दीर्घत्वं ह्रस्वत्वं चोभयमपि वास्तवं युक्तम्, विरोधात् / अथ कस्माद् दीर्घव्यवहार एव गौणो न भवति ? न तस्योत्पत्तिकारणसम्भवात् / सर्वत्रैव भाक्तो ह्रस्वव्यवहारो भवतु ? नैवम्, मुख्यभावे गौणस्यासम्भवात् / अथेदानीमुत्पाद्यस्य परिमाणस्य कारणनिरूपणार्थमाह-अनित्यं चतुविधमपीति / अनित्यं चतुनिधमपि दीर्घ ह्रस्वं महद् 'अणु चेति चतुविधं परिमाणम्, संख्यापरिमाणप्रचययोनि, संख्यापरिमाणप्रचयकारणकम् / संख्यायास्तावत्कारणत्वमाह-तत्रेति / [पं०] एकार्थसमवेतमिति (कं 134.18) एकार्थों द्वय गुक लक्षगः / अन्यत्रेति (कं. 134.18) पदार्थान्तरे / अंजसेति (कं. 134.19) व्याख्येय पदं परमार्थत (कं. 134.19) इति व्याख्यातपदम् / तादशं नास्तीत्युपचार इति (क. 134.23) सादृश्यं हि विना उपचारो न सम्भवति / नन्वतेष्वित्यादि (कं. 134.23) परप्रश्नः / नेष्यते (कं. 134.24) इत्यादि उत्तरम् / तस्योत्पत्तिकारणसम्भवादिति (कं. 134.26) तस्येति दीर्घस्योत्पत्तिकारणमस्ति कृतकत्वात् ह्रस्वस्योत्पत्तिकारणं नास्ति परमाणोनित्यत्वादित्यर्थः / पर: प्राह सर्वत्रवेत्यादि ( कं. 134.26) / [कु०] उत्पाद्यस्येति (कं. 134.27) अनित्यशब्दोऽविनाभावेनोत्पत्ति लक्षयतीति। परमाणुद्वयणुकमित्युच्यत इति (कं. 135.3) परमाणवो द्वयणकादिप्रक्रमेणव कार्यमारभन्त इति दर्शयितुमिति शेषः / अत्र भाष्ये ईश्वरग्रहणं द्वयणुकस्यास्मदाद्यतीन्द्रियत्वात् / यद्यपीश्वरबुद्धिः (द्धेः) सर्वविषयत्वात्त्रीण्येवैकत्वानि[स] माहृत्य न विषयीकरोति तथापि द्वयकोत्पादकादष्टसहकारितया त्रित्वोत्पत्त्यनुकलापेक्षया बुद्धिः | स] म्भवत्येवेति भावः / गुरुत्वद्रवत्वयोविजातीयपतनस्पन्दनारम्भकत्वदर्शनाद्गुणमारभमाणानामित्युक्तं संयोगस्येति / अत्र विभाग आश्रयविनाशितया विरोधान्न महत्त्वकारणं शब्दबुद्धयादयस्तु प्रत्यासत्तेरिति द्रष्टव्यम् / ईश्वरबुद्धयपेक्षस्य त्रित्वस्येत्युपलक्षणम् / द्वयणकाणुत्वारम्भकपरमाणुद्वित्वस्याप्यदृष्टक्षयादेव विनाशः / आश्रयविनाशस्यासम्भवात् / 3 अणुत्वं -जे. 1, जे. 2 / 1 तस्मिन् वंशे-जे. 1, जे. 2 / 2 कारणासम्भवात् - कं. 1, कं. 2 / 4 कारणा-कं। 5 भवन्त्येव -ह. लि /