________________ टिप्पणपञ्जिकाकुसुमोदगमादिटीकात्रयोपेतम् 333 प्रशस्तपादभाष्यम् तत्रेश्वरबुद्धि मपेक्ष्योत्पन्ना परमाणुद्वयणुकेषु बहुत्वसंख्या, तैरारब्धे कार्यद्रव्ये व्यणुकादिलक्षणे रूपाद्युत्पत्तिसमकालं महत्त्वं दीर्घत्वं च करोति / द्विबहुभिर्म'हद्भिश्चारब्धे कार्यद्रव्ये कारणमहत्त्वान्येव महत्त्वमारभन्ते न बहुत्वम् / समानसंख्यैश्चारब्धेऽतिशयदर्शनात् / न्यायकन्दली दीर्घत्वह्रस्वत्वयोविषयं दर्शयति-दीर्घत्वह'स्वत्वे चेति / 'महत्वं चाणुत्वं च महदणुत्वे, उत्पाद्ये च ते महदणुत्वे चेत्युत्पाद्यमहदणुत्वे, ताभ्यामेकस्मिन्नर्थे समवेते दीर्घत्वहस्वत्वे / यत्रोत्पाद्यं महत्त्वं व्यणुकादौ तत्रोत्पाद्यं दीर्घत्वम्, यत्र चोत्पाद्यमणुत्वं द्वयणुके तत्रोत्पाद्यं ह्रस्वत्वमित्यर्थः / तत्र परमाणोः परिमण्डलत्वाद्धस्वत्वाभावो 'व्यापकत्वाच्चाकाशस्य दीर्घत्वाभाव इत्येके / अन्ये तु परमाणुपरममहद्वयवहारवत् परमहस्वपरमदीर्घव्यवहारस्यापि लोके दर्शनात् परमाणुषु परमह्रस्वत्वं परमदीर्घत्वं चाकाशे इत्याहुः / दोर्घपरिमाणाधिकरणमाकाशं महत्परिमाणाश्रयत्वात् स्तम्भादिवत् / एवं ह्रस्वपरिमाणाश्रयः परमाणुः, अणुपरिमाणाश्रयत्वात्, द्वयणुकवत् / [टि०] 'तत्रेश्वरबुद्धिमपेक्ष्य इति - यद्यपीश्वरबुद्धेरन्येऽप्येकगुणा विषयास्तथाप्यदृष्टस्य नियामकत्वादपेक्षाबुद्धिकत्वम् / 'तत्र सङ्ख्यापि इति :-'अपि' शब्दोऽवधारणे / विशेषं दर्शयतीति (कं. 134.9) विषयं दर्शयतीत्यपि पाठः / उत्पाद्ये इति (कं. 134.10) अनित्यत्वात् / ताभ्यामिति (क. 134.10) तृतीयान्तं पदम् / परिमण्डलत्वादिति (कं. 134.13) परमाणोः परिमाणं परिमण्डलम् / इत्येके इति (कं. 134.13) व्योमशिवपादाः / अन्ये विति-(कं. 134.14) ग्रन्थकारमतम् / अत एवैतत्साधनाय प्रयोगः परमाणुषु परमह्रस्वत्वं परमदीर्घत्वं चाकाश इत्याहुरिति (कं. 134.15) / परमाणौ आकाशे च ह्रस्वत्वदीर्घत्वे अनुत्पाद्ये इति ब्रुवन्तीत्यर्थः / [कु०] प्रकर्ष भावाभावस्योभाभ्यां भिद्यमानत्वं दर्शयति यत्र होति (कं. 134.6) / आहुरिति ब्रूम इत्यर्थः / प्रमाणोपन्यासात् कि नेष्यते इति मुख्यत इति शेषः / 1 महद्भिरारब्धे-जे. दे। 2 विशेष-कं. 1, कं. 2 / 3 ह्रस्वत्वे इति। 4 महत्त्वाणुत्वं च-जे. 1, जे. 2; महच्चा-कं. 1, कं. 2 / 5 व्यापकत्वादा-जे. 1, जे.२। 6 प्रतीकमिदं तत्र सङ्ख्यापि इत्यस्मादनन्तरं सर्वेष्वपि पुस्तकेषु किन्तु तत्र तस्यासङ्गतया यथास्थानं स्थापितम्। ईश्वरबुद्ध यपेक्षस्य इति मु. पुस्तके / 7 तत्रावयवसङ्ख्यापि मु, तत्र सङ्ख्यापि -जे. 1, जे. 3 :