________________ 332 न्यायकन्दलीसंवलितप्रशस्तपावभाष्यम् प्रशस्तपादभाष्यम् दीर्घत्वह्रस्वत्वे 'चोत्पाद्यमहदणुत्वैकार्थसमवेते / समिदिक्षुवंशादिष्वजसा 'दीर्घध्वपि 'तत्प्रकर्षभावाभावमपेक्ष्य भाक्तो 'ह्रस्वत्वव्यवहारः / अनित्यं चतुर्विधमपि संख्यापरिमाणप्रचययोनि / न्यायकन्दली द्रव्यस्यावयवा न प्रत्यक्षास्तदेव त्र्यणुकम् / आकाशपरिमाणस्य तु प्रत्यक्षहेतुत्वाभावेऽपि महत्त्वमेव, तदाश्रयस्य द्वयणुकव्याप्तितोऽधिक व्याप्तिकत्वात्, घटादिपरिमाणवत् / ___ अनित्यमणुपरिमाणं द्वयणुक एवेत्ययुक्तम्, 'कुवलामलकबिल्वादिषु परस्परापेक्षयाणुव्यवहारदर्शनादत आह-'कुवलामलकबिल्वादिष्विति / बिल्वे यः प्रकर्षभावो महत्परिमाणातिशययोगित्वं तस्यामलकेऽभावमपेक्ष्याणुव्यवहारो भाक्तः / उभाभ्यां भज्यते इति भक्तिः सादृश्यम्, तस्यायमिति भाक्तः। सादृश्यमात्रनिबन्धनो गौण इत्यर्थः / एवमामलकपरिमाणातिशयाभावं कुवलेऽपेक्ष्याणुव्यवहारः। यत्र हि मुख्यमणुत्वं द्वयणुके तत्र महत्परिमाणस्याभावो दृष्टः / आमलकेऽपि यादृशं बिल्वे महत्परिमाणं तादृशं नास्तीत्येतावता साधर्म्यणोपचारप्रवृत्तिः / [टि०] अथ स्वमतं प्रकाशयति अन्ये तु इति, ननु भाष्ये उत्पाद्यमहदणुत्वैकार्थसमवेते प्रतिपादिते न तु नित्यमहदणुत्वैकार्थसमवेते इत्यस्मिन्पक्षे भाष्यविरोधः ? नैवम्, उत्पाद्ययोर्दीर्घत्वह्रस्वत्वयोस्तानियमात् / अनुत्पाद्ययोरनुत्पाद्यमहदणुत्वैकार्थ 'नियमाविरोध एवेति / सर्वत्रव 'भाक्त इति :- सर्वत्रेति परमाणुद्वयणुकादौ / [पं०] पर: प्राह-"अनित्यादि (कं. 134.1) / "कुवलामलकबिल्वादिष्विति (कं. 134.2) कुवलं बदरम् / एतावता साधयेणोप"चारवृत्तिरिति (कं. 134.8) अत एव भक्तिः सादृश्यमित्युक्तम् / [कु०] त्वादिति (क. 133.24) बहुत्ववदारब्धत्वादित्यर्थः / बहुत्ववत्त्वं च आरम्भकस्य समवायेन वा, एकार्थसमवायेन वा द्रष्टव्यमिति व्याख्येयम् / ततश्च 'द्वयणुकमस्मदादिप्रत्यक्ष रूपवत्त्वे सति द्वाभ्यामारभ्यमाणत्वाद् द्वितन्तुकवदिति प्रतिबंदी निरस्तः स्यात् / बहुत्ववदारब्धस्योपाधित्वात्-द्वितन्तुकस्य च बहत्वैकार्थसमवेतारब्धत्वेन बहुत्ववदारब्धत्वात, बहुत्वे सतीति विशेषणीयो हेतुर्वा / त्र्यणके व्यभिचारपरिहाराय द्वयणक व्याप्त्यधिक "व्याप्तितोधिक व्याप्तिकत्वादिति दघणकसंयोग्यधिकसंयोगित्वादित्यर्थः / 1 तुत्पाद्य-दे। 2 दीर्घऽपि-दे। 3 प्रकर्षाभावा-दे। 4 ह्रस्वव्यवहार:-जे। 5 व्याप्तित्वात् - जे. 1, जे. 2 / 6, 7 कुवलया - कं. 1, कं. 2 कि.। 8 नियमादिविरोध - अ, ब, क। 9 भत्त-अ%; 10 अनित्यमित्यादि - कं. 1 कं 2 / 11 कुवल्य - कं; अशुद्धमेतत् - सं। 12 - पचारप्रवृत्तिः - कं / 13 कन्दल्यामेवमस्ति /