________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपेतम् 331 प्रशस्तपादभाष्यम् [136] तथा चावपि द्विविधम्-नित्यमनित्यं च / नित्यं परमाणुमनस्सु तत् पारिमाण्डल्यम् / अनित्यं द्वयणुक एव / 'कुवलामलकबिल्वादिषु महत्स्वपि तत्प्रकर्षभावाभावमपेक्ष्य भाक्तो'ऽणुव्यवहारः। न्यायकन्दली [136यथा महद् द्विविधं तथाण्वपि द्विविधं नित्यमनित्यं च / उभयत्रापि चकारः प्रकारान्तरव्यवच्छेदार्थः / नित्यमणुपरिमाणं परमाणुमनःसु, उत्पत्तिविनाशकारणाभावात्। पारिमाण्डल्यमिति सर्वापकृष्टं परिमाणम् / अनित्यमणुपरिमाणं द्वयणुक एव नान्यत्रेत्यर्थः / एतेनैतदुक्तं भवति, अणुपरिमाणप्रभेद एव परमाणुपरिमाणं महत्परिमाणप्रभेदश्च परममहत्परिमाणम्, अन्यथा परमशब्देन विशेषणायोगात् / यत्खलु परिमाणं रूपसहायं स्वाश्रयं प्रत्यक्षयति तत्र महदिति व्यपदेशः, यच्च नो प्रत्यक्षयति तत्राण्विति व्यवहारः / न चैवं सति व्यणुकस्याप्यणुत्वप्रसक्तिः ? तस्यापि प्रत्यक्षत्वात्, त्र्यणुकमस्मदादिप्रत्यक्षं बहुभिः समवायिकारणै रारब्धत्वात्, 'घटादिवत् / यस्य च प्रत्यक्षस्य [टि०] [136] परमाणु मनस्सु इति :- परमाणुत्वस्य साधारणत्वेऽपि द्रव्यानारम्भकत्वेनासाधारणत्वान्मनसः पृथग् निर्देशः / व्यणुकमस्मदादि इति - अत्र वायुव्यवच्छेदार्थ विवादाध्या सितपदं कार्यम् / वायुत्र्यणुकेन व्यभिचारवारणार्थमुद्भूत"रूपवत्त्वे सतीति हेतुर्विशेषणीयः / "आकाशस्य प्रत्यक्षेति -आकाशपरिमाणं महत् 'द्वयणुकव्याप्त्यधिकव्याप्तिकाश्रयाश्रितत्वात घटादिपरिमाणवत् / [पं०] [136] "प्रत्यक्षद्रव्यस्यावयवा (कं. 133.25) इति द्वयणुकत्रयलक्षणाः / प्रत्यक्षहेतुत्वाभावेऽपीति (कं. 133.26) यत्खलु परिमाणं रूपसहायमित्यादि (कं. 133.21) वचनात् महत्त्वसाधनोऽयम् / प्रयोगमाह तदाश्रयस्य द्वघणुकव्याप्तितोऽधिकव्याप्तिकत्वाद् घटादिपरिमाणवदिति (कं. 13326) / तदाश्रयस्येति नभसः / शेषं सुगमम् / व्याप्तिरत्रैवं दर्शनीया- 'यद्यद द्वयणकव्याप्तितोऽधिकं तत्तन्महद् यथा घटादि' / [कु०] [136] सर्वापकृष्टमित्य (कं. १३३.१८)नेन सर्वतोभावे प्रवृत्ति दर्शयति / पारिमाण्डल्यशब्दस्य पङ्कजादि शब्दवद्योगरूढितां दर्शयति / कथमेतेन प्रकाराधिक्यं परिहृतमित्यत आह एतेनेति (कं. 133.19) / ननु परस्परप्रकर्वनिकर्षापेक्षया महदणुव्यवहारः, तत्कथमिदं व्यवस्थेत्यत आह यत्खल्विति (कं. 133.21) / "बहुभिरारभ्यमाण१ कुवलया-कं. 1, कं. 2 / 2 प्रकर्षाभाव - दे। 3 ऽणुत्व - कं. 1, कं. 2 / 4 'परिमाणम्' इति - जे. 1, जे. 2 पुस्तकयो स्ति। 5 रारब्धमाणत्वात्-जे. 2 / 6 घटवत्-कं. 1, कं. 2 / 7 प्रत्यक्षद्रव्यस्य - जे. 1, जे. 2 / 8 मनःस्थिति -ब; 9 दाध्यासितं - अ, ब, क; 10 रूपत्वे - ड; 11 आकाशपरिमाणस्य - मु. -जे. 1, जे. 3 / 12 महत द्वियणत्वैकार्थसमवेते दीर्घत्व ह्रस्वत्वे प्रतिपादितव्याप्त्यधिकव्याप्तिकाश्रयत्वात् ] अ%B ब - पुस्तके [ ] एतच्चिह्नान्तर्गतः पाठः लिखित्वाऽप्यधिक इति सूचितम् / 13 प्रत्यक्षस्य-कं। 14 बहुभिः समवायिकारणरारब्धत्वात्-कं /