________________ 330 न्यायकम्बलीसंवलितप्रशस्तपावभाष्यम् न्यायकन्दली एवं व्यवस्थिते परिमाणे तस्य भेदं कथयति-तच्चतुर्विधमिति / यन रूपेण चातुविध्यं तद्दर्शयति-अणु महद् दीर्घ ह्रस्व चेति / चतुरस्रादिकं त्ववयवानां संस्थानविशेषो न परिमाणान्तरम् / दीर्घत्वादयोऽपि तथा भवन्तु ? न, अवयवसंस्थानानपलम्भेऽपि दूराहीर्घादिप्रत्ययस्य दर्शनात् / अपि च भोः ! द्वयणुकपरिमाणं तावदणु, महत्परिमाणोत्पत्तौ कारणाभावात् / तस्माच्च परमाणुपरिमाणमपकृष्टम्, कार्यपरिमाणात् कारणपरिमाणस्य हीनत्वदर्शनात् / ततश्च परमाणोः परिमाणं द्वयणुकपरिमाणाद्भिन्नम्। एवं घटादीनां परिमाणादन्यदेव प्रकर्षपर्यन्तप्राप्तमाकाशादिपरिमाणम्, तथा दीर्घ ह्रस्वं चेति परिमाण मष्टविधमेव, कुतश्चातुविध्यमित्याह-तत्रेति / तेषु चतुर्विधेषु परिमाणेषु मध्ये महद द्विविधं नित्यमनित्यं चेति / केषु 'नित्यमित्याशङ्कयाह-नित्यमाकाशकालदिगात्मसु / तच्च परममहत्त्वमित्युच्यते / अनित्यं महत्परिमाणं व्यणुकादावेव नाकाशादिष्वित्यर्थः। [टि०] षड्विधमेव इति -यैराकाशे दीर्घत्वं परमाणौ च ह्रस्वत्वं नाभ्युपगम्यते तदभिप्रायेणोक्तम् / स्वाभिप्रायेण तु आकाशदीर्घत्वस्य परमाणु ह्रस्वत्वस्य च स्वीकाराददृष्ट (दृष्ट) विधत्वं ज्ञेयम् / पिं०] परवाक्यं दीर्घत्वादयोऽपि तथा भवन्त्विति (कं 133.8) / सूरिवाक्यं नेत्यादि (कं. 133.8) / अथ सूरिरेव शिष्यानामन्त्र्य कथयति अपि भोः (कं. 133.9) इत्यादि / “तस्मादिति (कं. 133.10) द्वणुकपरिमाणात् / षड्विधमेवेति (कं. 133.13) परमाणो परमाणुत्वम् 1, द्वयणुकेऽणुत्वम् 2, घटादिषु महत्त्वम् 3, आकाशादिषु परममहत्त्वम 4, दीर्घम 5, ह्रस्वं 6 चेति षट्विधत्वम् / अन्यथा परमशब्देन विशेषणयोगादिति / अन्यथा संज्ञान्तरमेव कुर्यात् / न तु परमशब्देन विशिष्यादित्यर्थः / [कु०] एवं शब्दस्यार्थसाधकत्वं प्रसाध्य परिमाणस्य द्रव्याद्रव्यव्यतिरेकेण सिद्धसाधनत्वम शङ्कते यच्चेति (कं. 133.3) / दूषयति तदसिद्धमिति (कं. 133.4) / नैवमित्याशङ्कय परिहरति- अत एवेति (कं. 133.5) / संस्थानभेदो द्रव्यारम्भकसंयोगविशेष एव / अवान्तरभेदेन प्रकाराधिक्यमाशङ्कय भाष्येण परिहारयति-अयि भो इति (कं. 133.9) / कारणवत्तितया अणुपरिमाणस्य प्राथम्येऽपि प्रत्यक्षसिद्धतया महत्त्वस्य प्रथमं व्याख्यानमिति द्रष्टव्यम् / ननु महत्त्वाद्भिन्नं परम [मि] किमिति प्रयुक्तवानित्यत आह "तत्परमिति (कं. 133.15) / एवं शास्त्रप्रसिद्धिरित्यर्थः / 1 संस्थानभेदो-जे. 1, जे. 2 / 2 प्रत्ययदर्शनात -जे. 1, जे. 2 / 3 षड्विध-कं. 1, जे. 1, जे. 2 अत्र कं. 2 सम्पादकेन स्वबुद्धयाऽष्टविधमेव इति पाठः कल्पितः सोऽर्थदष्ट्या समीचीनोऽस्तीति स्वीकृतः - सं.। 4 चतुएं - कं. 1, कं. 2 / 5 इत्याह - कं. 1, कं. 2 / 6 परममहत्त्वमुच्यते - जे. 1, जे. 3 / 7 परिमाणौ -ड 8 तस्माच्च-कं। 9 अपि भो:-कं भाष्ये प्रतीकमिदं नास्ति / 10 तच्च परम . कं।