________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटोकात्रयोपेतम् 329 न्यायकन्दली विवक्षा सहसोपजाता गच्छत्तणसंस्पर्शज्ञानवदस्पष्टरूपा कार्येण कल्पनीयेति चेत् ? विप्रलम्भकस्यापि विवक्षाविशेषण तदर्थानुभवः कल्प्यताम्, असंविदितेऽर्थे तद्विषयस्य विवक्षाविशेषस्यायोगात् / तदानीं विप्रलम्भकस्य तदर्थानभवो नास्तीति चेत् ? मा स्म भूत्, स्मरणं तावद्विद्यते, विप्रलम्भको हि पूर्वानुभूतमेवार्थमन्यथाभूत'मन्यथा कथयति / तत्रास्य तदर्थ विवक्षा साक्षात् स्मरणकारणिका भवन्ती पारम्पर्येण तदनुभवकारणिकेति नास्ति व्यभिचारः, मिथ्यानुभवपूर्विकाया अपि विवक्षायाः पारम्पर्येण सत्यानुभवपूर्वकत्वात् / अनुभवश्चार्थाव्यभिचारीति शब्दादर्थसिद्धिः। अन्यथा वाक्यश्रुतौ श्रोतुरर्थप्रतीत्यभावाद् विवक्षामात्रप्रतीतेश्चापुरुषार्थत्वाच्छाब्दो व्यवहार उच्छिद्येत, वादिप्रतिवादिनोश्च जयपराजयव्यवस्थानुपपत्तिः, विवक्षामात्रं प्रत्युभयोरपि भूतार्थवादित्वात् / यच्चोक्तं द्रव्यादव्यतिरिक्त परिमाणम्, द्रव्याग्रहे तबुद्धयभावादिति, तदसिद्धम् / दूराद् द्रव्यग्रहणेऽपि तत्परिमाणविशेषस्याग्रहणात् / अत एव महानप्यणुरिव भ्रान्त्या दृश्यते / [टि०] विवक्षामात्रं प्रति इति :-उभयोरपि विवक्षायाः सत्यत्वात् / यच्चोक्तम् इति यद्ग्रहणे सति न गृह्यते तत्ततो न भिद्यते यथा वृक्षात शिशपा, 'न गृह्यते चागृह्यमाणे द्रव्ये परिमाणमिति बौद्धः प्रत्यवतिष्ठते / तत्रासिद्धिमेव स्फूटयति दूराद् द्रव्यग्रहणेऽपि इति :-यद्यप्यत्र द्रव्याग्रहणेऽपि परिमाणग्रहणं दर्शयितुमुचितं तथापि तादात्म्यादेकग्रहणेऽन्यतरस्याग्रहणं दर्शितम् / अवयवसंस्थानानुपलम्भेऽपि इति / यद्यवयवसंस्थानमुपलभ्येत तहि मनुष्यादिविशेषोऽप्युपलभ्येत / [पं०] परः प्राह 'नास्य विवक्षास (कं. 132.17) इत्यादि / विश्वस्याकस्मिकत्वप्रसङ्गादिति (कं. 132.18) मृत्पिण्डादिकं विनापि घटाद्यत्पत्तिप्राप्तेरित्यर्थः / कार्येणेति (कं. 132.20) तथाविधवचनेन / विवक्षामात्रप्रतीतेश्चापुरुषार्थत्वादिति (कं. 133.1) अर्थप्रतीतिरेव हि पुरुषार्थः / विवक्षामात्रं तु दोहवाहादावनुपयोगान्न पुरुषार्थः / [क] प्रतिबंदी मोचनमाशङ्कते नान्येति (कं. 132.17) / अप्रतीयमानाऽपि (कं. 132.13) शब्दातिरिक्तलिङ्गेनेति शेषः / कार्येण वाक्यात्मके न्यायसमानन्यायतया परिहरति विप्रलम्भकस्येति (कं. 132.22) अस्त्वेवं विप्रलम्भकविवक्षया, स्वविवक्षायास्तु का गतिरत आह मिथ्येति (कं. 132.25) / विपर्यस्तस्यापि संसर्गमात्रे भ्रमः / पदार्थस्मृतिस्तु सत्यैवेति भावः / नन्वेवमप्यनुभवतामात्रं प्रतिपाद [ना]य पदार्थे किमायातमत आह अनुभवश्चेति (कं. 132.26) / वाक्यात्परम्परयार्थानुमानस्यानुकूलतर्कमाह अन्यथेति (कं. 132.26) / अपुरुषार्थत्वात् = प्रवृत्तिनिवृत्तियोग्यार्थविरहा। 1 अन्यथा च - कं. 1, कं 2 / 2 विवक्षा स्मरणकारणिका-कं. 1, कं. 2 / 3 प्रतिवादिनोर्जय-क. 1, कं. 2 / 4 न गृह्यमाणे द्रव्ये-अ, ब, क / 5 नान्य-कं, ब /