________________ 328 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् न्यायकन्दली शब्दस्य तु कथम् ? न ह्यसावर्थात्मा, अन्नान्यसिशब्दोच्चारणे मुखस्य पूरणवाहपाटनप्रसङ्गात् / नाप्यर्थज;, कौष्ठयवायुकण्ठाभिघातजत्वात् / अतवात्मनोऽतदुत्पन्नस्य प्रतिपादकत्वेऽतिप्रसङ्गाः। 'अत्रोच्यते यदि कण्ठाद्यभिघातमात्रज एव शब्दो न वक्तुविवक्षामपि प्रतिपादयेत् तदुत्पत्यभावात् / तथा च वक्तुवि'वक्षामपि न सूचयेयुः शब्दा इति प्रमत्तगीतं स्यात् / पारम्पर्येण विवक्षापूर्वकत्वाच्छब्दस्य विवक्षाप्रतिपादकत्वमिति चेत् ? एवमर्थानुभवप्रतिपादकत्वमपि, विवक्षाया अर्थानुभवपूर्वकत्वात् / असत्यप्यर्थानुभवे विप्रलम्भकस्य तदर्थविवक्षाप्रतीतिरिति चेत् ? असत्यामपि तदर्थविवक्षायां भ्रान्तस्य तदर्थविषयं वाक्यमुपलब्धम् / 'तथाहुराचार्या:-- भ्रान्तस्याम्यविवक्षायामन्यद्वाक्यं हि दृश्यते / इति / .. नान्यविवक्षातोऽन्याभिधानस्य सम्भवः, अन्वयव्यतिरेकाभ्यां यग्रस्य कारणमवगतं तस्य तद्वयभिचारे विश्वस्याकस्मिकत्वप्रसङ्गात्, अतो भ्रान्तस्याप्रतीयमानापि तदर्थ [टि०] 'मर्थविशेषणमित्युक्तम् / 'शब्दस्य तु कथम् इति शब्दस्यार्थेन सम्बन्धाभावादिति भावः / तमेव दर्शयति न ह्यसौ इति / अतदात्मन इति तटस्थस्य वक्षादेरपि वह्निप्रतिपादकत्वं स्यात / एवमर्थानुभवेति :-"पूर्व शर्थानभबस्त वाचकस्मरणं ततो वक्तुमिच्छा, तत: प्रयत्न इति पारम्पर्येणानभवस्यापि कारणत्वम् / स्मरणकारणिका इति स्मरणं कारणं यस्याः सा तथा / "साक्षाद् अव्यवधानेनाहेत्यर्थः / विवक्षामात्रेति विवक्षाया दोहवाहादाबनुपयोगात् / [पं०] न वक्तुर्विवक्षामपि प्रतिपादयेदिति (कं. 132.11) वक्तुर्विवक्षामपि न ज्ञापयेत् / अथ वक्तुविवक्षा ज्ञापयति शब्द: यत: 'भयं पुमान् ककूदादिमदर्थविवक्षावान् गोशब्दोच्चारणकर्तृत्वादहमिव' इति प्रयोगः प्रवर्तते / तदुत्पत्यभावादिति (कं. 132.12) न हि शब्दो विवक्षात उत्पद्यते / पारम्पर्येणेति (कं. 132.13) प्रथमं हि विवक्षा, ततः कण्ठाद्यभिघातः, ततः शब्द इत्येवंरूपेण / एवमिति (कं. 132.14 ) पारम्पर्येण / असत्यामपि तदर्थविवक्षायामिति (कं. 132.15) वक्तुरिच्छां विनापीत्यर्थः / भ्रान्तस्येति (कं. 132.16) उन्मत्तादेः / [कु.] शब्दस्य त्विति (कं. 132.8) कथं न कथञ्चिच्छब्दानामर्था मथ) संस्पशित्वादिति भावः / अतदात्मन इति (कं. 132.10) न चैवंभूतानामपि चक्षुरादीनां प्रतिपादकत्वमाशङ्कनीयम्, अर्थादुत्पन्नं ज्ञानमेव तत्सारूप्यादर्थ प्रतिपादयति यतः शब्दस्यार्थकार्यत्वनिषेधः साक्षाद्वा परम्परया वा ? नाद्य इत्याह कण्ठादीति (कं. 132.11) / द्वितीयमाशय दूषयति पारम्पर्येणेति (कं. 132.13) / विवक्षाया अर्थानुभवव्यभिचारमाशङ्कते असत्यपीति (कं. 132.15) / ... मानो दोष इत्याह असत्यामपीति (कं. 132.15) / 1 °पादकत्वे चातिप्रसङ्गात्-कं. 1, कं. 2 / 2 तदयुक्तम्-कं. 1, कं. 2 / 3 विवक्षां सूचयेयुः-जे. 1, जे. 2 / 4 यथा-कं. 1, कं. 2 / 5 भिधानसम्भवः-कं. 1, कं. 2 / 6 'अर्थविशेषणं' मु. पुस्तके नास्ति किन्तु -जे. 1; जे. 3 इत्यत्रास्ति / 7 प्रतीकमिदं अबकपुस्तकेषु नास्ति। 8 ह्यर्थमनुभवंस्ततो - अ, ब, क / 9 स्मरणं यस्याः सा - अ,ब; 10 'साक्षात्' म. पुस्तके नास्ति, किन्तु-जे. 1; जे. 3 इत्यत्रास्ति /