________________ टिप्पणपञ्जिकाकुसुमोदगमादिटीकात्रयोपेतम् 325 न्यायकन्दली वासनावैचित्र्यं यदि बोधाकारादनन्यत् कस्तासां परस्परतो विशेषः ? अथान्यदर्थे कः प्रद्वेषः ? येन सर्वलोकप्रतीतिरपह्नयते / केन चायमाकारो बहिरारोप्यते ? 'ज्ञानेन इति चेत् ? कि तस्य स्वात्मन्याकारसंवित्तिरेव बहिरारोपस्तदन्यो वा ? आये कल्पे संघ तस्य सम्यक्प्रतीतिः, सैव च मिथ्येत्यापतितम्, ज्ञानगतत्वेनाकारग्रहणस्य सत्यत्वात्, बाह्यतासंवित्तेश्चायथार्थत्वात् / अन्यत्वे च तयोर्न क्रमेण भावः, तत्कारणस्य ज्ञानस्य क्षणिकत्वात् / न चैकस्य युगपत्सत्यत्वेन मिथ्यात्वेन च प्रतीतिसम्भवः / न च क्रमयोगपद्याभ्यामन्यः प्रकारोऽस्ति, यत्र वर्तमानं ज्ञानं स्वात्मन्याकारं गृह्णीयादहिश्च 'तमारोपयेत् / अपि च यदि ज्ञानाकारो नीलादिरों यस्यैवायमाकारः स एव तं प्रतीयात्, न पुरुषान्तरं प्रतीयात् / प्रतीयते चायं बहुभिरेकः, सर्वेषां तदाभिमुख्येन युगपत्प्रवृत्तः, 'यस्त्वया दृष्टः स मयापीति प्रतिसन्धानात् / तस्मादर्थोऽयं न ज्ञानाकारः / [पं०] श्रीधरः पृच्छति कुत एतदिति (कं. 129.11) / पर. प्राह अनुमानेनेति (कं. 129.11) सहोपलम्भनियमादित्यनेन / नियतदेशाधिकरणा प्रतीतिरिति (कं. 129.14) नीलोऽयमित्येवंरूपा। तत्रायमिति (कं. 129.14) अयं नीलादिरित्यर्थः। तत्पूविकेति (कं. 129.17) अनुभवविका / पर: प्राह 'अस्ति तावदित्यादि / तद्वैचित्र्यंचार्थवत्तत्कारणानां वैचित्र्यादिति (कं. 129.19) यथा परस्य कारणवैचित्र्यादि (द) र्थवैचित्र्यं तथा वासनाकारणानां वैचित्र्याद्वासनावैचित्र्यमित्यर्थः / अनादिरिति (कं. 129.19) अत्रारोपनियमः कर्ता। श्रीधरः प्राह वासनावैचित्र्यमित्यादि (कं. 129.19) / अन्यदिति (कं. 129.20) अभिन्नम / कस्तासां परस्परतो विशेष इति (कं. 121 बोधाकारस्यकत्वादेकत्वमेव तासां स्यादित्यर्थः। अन्यत्वे तु तयोर्न क्रमेण भाव इति (कं. 129.24) तयोः स्वसंवित्तिबहिरारोपयोरन्यत्वे कक्षीक्रियमाणे क्रमेण भावो न घटते। अत्रार्थे हेतुमाह तत्कारणस्य (कं. 129.24) [कु०] भेदस्य भ्रान्तत्वाङ्गीकारेण पूर्वप्रतिकूलतर्कस्यान्यथासिद्धिमङ्गीकृत्य प्रतिकूलतर्कान्तरमाह अस्तु वेति (कं. 129.13) / ननु बाह्यार्थवादिभिरपि शुक्तिकादेशे रजतारोपस्य नियमे कारणं वाच्यमतः आह सति होति (कं. 129.16) / यद्दे [शो]ऽर्थ इति (कं. 129.16) “अर्थ्यते भ्रान्तत्वादिनियमित्वेनापेक्ष्यत इत्यर्थः। सादृश्यं तद्यत्र तस्मिन्नेव देशे तहसा(शा)नुभावः [तद्देशानुभवः, तद्देशवासनासंस्कारस्य तद्देशत्वं कार्याभिमुख्यम्, बाह्यार्थापलापे तु सादृश्यमपि बहिर्नास्तीत्यारोपस्य देशनियमो नोपपद्यत इति भावः / कार्यानसारिणि कारणवैचित्र्ये कल्पनीये बाह्यार्थपक्षपाते किं कारणमित्यत आह येनेति (कं. 129.21) / किञ्चेत्याह "केन पुनरिति (कं. 129.21) संवित्तिः तत्र प्रकाशनाया उत्पादः / 1 ज्ञानेन चेत् - कं. 1, कं. 2 / 2 तु - कं. 1, कं. 2 / 3 मारोपयति -. कं. 1, कं. 2 / 4 योयस्त्वयाजे. 2 / 5 धिकरण - कं। 6 प्रतीकमिदं कन्दल्यां नोपलभ्यते। 7 तद्वैचित्र्यस्य - कं। 8 अर्घ्यते-ह.लि.। 9 ह. लि. पुस्तकेऽशुद्धं भाति / 10 'पुनः' इति कं पुस्तके नास्ति /