________________ 324 न्यायकन्दलीसंवलितप्रशस्तपावभाष्यम् न्यायकन्दली कुत एतत् ? अनुमानेना भेदप्रसाधनाविति चेत् ? प्रत्यक्षस्य भ्रान्तत्वेनाबाधितविषयत्वादनुमानस्यात्मलाभः, लब्धात्मके चानुमाने प्रत्यक्षस्य भ्रान्तत्वमित्यन्योन्यापेक्षितादोषः / अस्तु वा 'भेदविप्लवो नियतदेशाधिकरणप्रतीतिः, कुतः ? नहि तत्रायमारोपयितव्यो नान्यत्रेत्य'स्ति प्रति नियमहेतुः। वासना नियमादारोपिते नियमः इति पन्न, तस्या अपि तद्देशनियमकारणाभावात् / सति ह्यर्थसम्भवे यद्देशोऽर्थस्तद्देशानुभवस्तद्देशा च तत्पूर्विका वासना, बाह्याभावे तु तस्याः किंकृतो 'देशनियमः ? अस्ति तावदारोपे नियमः न च कारणविशेषमन्तरेण कार्यविशेषो घटते, बाह्यश्चार्थो नास्ति / तेन वासनानामेव वैचित्र्यं तद्वैचित्र्यस्यार्थवत्तत्कारणामां वैचित्र्या दित्यनादिरति चेत् ? [fro] नीलादिप्रत्य' [यस्य जमने समर्थो योऽसौ ज्ञानक्षण सम्तानस्तस्य सर्वदा] सत्त्वात् / देशकालकारणस्वभावेति - एतेन प्रमाणमपि सूचितम्, विवादाध्यासितं नीलादिज्ञानाद् व्यतिरिक्तम्, विरुद्धधर्माध्यस्तत्वात्, यथा घटात् पट इति / विरुवधर्मा ध्यासश्च ज्ञानस्य "शरीरान्तः, अर्थस्य च बहिः, ज्ञानस्यापरकालेऽर्थस्य च पूर्वकाले वृत्तित्वात्, "ज्ञानस्यार्थावर्थस्य च स्वकारणेभ्य उत्पत्तेः, ज्ञानस्य "ह प्रकाशस्वभावत्वादधस्य तु जहरूपत्वादिति / / // सङ्ख्या // [पं०] (कं. 128.27) / सर्वप्रत्यया निरालम्बना इत्यत्रोक्तमासीत् / तदुत्पत्तिनियमायोगादिति (कं. 129.2) स्वप्नादि-. प्रत्ययोत्पत्तिनियमासम्भवात् / नीलाद्याकारवदिति (कं. 129.6) अयं व्यतिरेके दृष्टान्तः / स्वयं स्वस्य संवेदनेऽहमिति प्रतिभास इति (कं. 129.7) / स्वमिति तु परापेक्षसि [द्विरि ति भावः / कि वे "परस्परस्यापि संवेदनमस्तीति (कं. 129.8) / यदि हि परस्यापि संवेदनं न स्यात्तस्कथं स्वसंवेदनमित्युच्यते भवतेति भावः / “परिच्छेदान्तरं योयमित्यादि (कं. 129.10) लोकव्याख्या। परिच्छेदो ज्ञानलक्षणोऽतर्वर्तते यत्स्वयं भागो विकल्पाख्यो बहिर्घटादिरूपेणावस्थितः स परिच्छेदादन्य एव / एवं यो भेवस्य प्रतिभासः सह्यपप्लयो मिथ्येव ज्ञानस्याभेदत्वादिति श्लोकार्थः / [कु०] असिद्धोऽपि प्रसङ्ग इत्याह यच्चेति (कं. 128.24) / इति व्याप्त्यसिद्धिः; विपर्ययश्चेति शेषः / एवं तावद्ग्राह्यलक्षणायोगाद् वेद्यत्वात्स होपलम्भनियमादित्यर्थस्य शानाव्यतिरेकहेतवो दुषिताः अतः परमलीकवायुपन्यस्तं प्रत्ययत्वादित्यनेन हेतु[ना] बाह्यालम्बनत्वे साध्ये सङ्क्रमय्य दूषयति यच्चेति (कं. 128.27) / दृष्टान्तासिद्धेरिति (कं. 128.27) असिद्धिः साध्यविकलता, तदेतदिह स्वप्नादीति / तथा प्रतिभासमानादिति (कं. 129.1) असन्निहितानां सन्निहिततयेत्यर्थः / व्यवस्थितत्वाभावाविति (कं. 129.6) प्रतिपत्तभेदेऽपि समानत्वादित्यर्थः / न नावस्तवः कस्मादिति प्रमाणदूषणं विनेति शेष।। 1 भेदसाधनात् - कं. 1, कं.२। 2 भेदो-कं. 1, कं.२। 3 त्यस्ति नियमहेतुः-कं.१; कं.२॥ 4 रोपनियमः स्यादिति चेत-कं १:के. 2 / 5 देशनियम: ? न च-कं. 1. कं. 2 / 6 वैचित्र्यादनादि - जे. 1, जे. 2 / 7-9 नीलाद्येतदनन्तरं [ ] एतच्चिह्नान्तर्गत: पाठ: अबपुस्तकयोरावृत्तः। 8 ज्ञानक्षणसन्तानक्षणसन्तान-33; 10 ध्यासाश्च-अ, ब, 11 शरीरन्त:- अ: 12 ज्ञानास्पदर्थस्य-अ, ज्ञानस्यावर्षस्यब; 13 तु- पुस्तके नास्ति / 14 परस्यापि-कं। 15 परिच्छेदोन्तर-पं.।