________________ टिप्पणपञ्जिकाकुसुमोदगमादिटीकात्रयोपेतम् 323 न्यायकन्दली भासनात्, अन्यथा दृष्टश्रुतानुभूतेष्वर्थेषु तदुत्पत्तिनियमायोगात् / किञ्च, यदि बाह्यं नास्ति किमिदानी नियताकारं प्रतीयते 'नीलमेतदिति / विज्ञानाकारोऽयमिति चेन्न, 'विज्ञानाद्वहि तस्य संवेदनात् / ज्ञानाकारत्वे त्वहं नीलमिति प्रतीतिः स्यान्न स्वियं नीलमिति / ज्ञानानां प्रत्येकमाकारभेदात् कस्यचिदहमिति 'प्रतीभासः कस्यचिदिदं नीलमेतदिति चेत् न नीलाद्याकारवदहमित्याकारस्य व्यवस्थितत्वाभावात् / तथा च यदेकेनाहमिति प्रतीयते तदपरेण त्वमिति प्रतीयते, स्वयं स्वस्य संवेदनेऽहमिति 'प्रतिभासते इति चेत् ? कि वै परस्यापि संवेदनमस्ति ? स्वरूपस्यापि भ्रान्त्या भेदप्रतीतिरिति चेत् ? प्रत्यक्षेण प्रतीतो भेदो वास्तवो न कस्मात् ? भ्रान्तं प्रत्यक्षमिति चेत् ? यथोक्तम् 'परिच्छेदान्तरं योऽयं भागो बहिरवस्थितः / ज्ञानस्यादिनो भेदप्रतिभासो ह्युपप्लवः // इति / [टिक] ज्ञानमित्यर्थः / सपक्षाघोपाद् विपक्षाच्च घटादेनित्ववत्वस्थ व्यावत्तत्वात / किन्त्वभाबादेव इति :प्रकाशस्याभावादेवेत्यर्थः / : यच्च प्रत्ययत्वाद् इति 'सर्वे प्रत्यया निरालम्बना इत्यत्रोक्तम् / व्यवस्थितत्वा भावमेव दर्शयति तथा च इत्यादि / सा यदि बाोति सा वासना यदि बाह्या सती अर्थक्रियाविशेषे निमित्तमिति / तज्जननसमर्थक्षणेति तस्थ [पं०] अनेनेति (कं. 128.18) सहोपलम्भनियमाख्य हेतूना। तदनुभवस्येति (कं. 128.19) नीलादिज्ञानस्य / अपेक्षते एवेति (कं. 128.23) अत्र प्रदीपः कर्ता। साध्यविकलतेति (कं. 128.23) साध्यं परानपेक्षत्वं तद्विकलतादष्टान्तस्येति / ज्ञानं स्वप्रकाशं प्रकाशते प्रदीपवदिति दृष्टान्तीकृतस्य प्रदीपस्य / असाधारणो हेतुरिति (कं. 128.24) सपक्षविपक्षव्यावृत्तः पक्ष एवं वर्तमानत्वात् , शब्दानित्यत्वसिद्धौ श्रावणत्ववत् / अभावादेवेति (कं. 128.26) प्रकाशस्याभावादेव / व्याप्त्यसिद्धिरिति (कं. 128.26) यथा किल पिहितस्य वस्तुनोऽव्यक्तता न प्रकाशस्याव्यक्तत्वात् किं तु प्रकाशस्याभावेद एवमेवार्थेऽपि यत्र ज्ञानस्याभावस्तत्राव्यक्तत्वं न तु यत्र ज्ञानं स्वसंविदितमपि वृत्तं तत्रापि अव्यक्तत्वं युज्यते / अतो न अव्यक्तप्रकाशत्वमित्यर्थः यच्च प्रत्ययत्वादिति [कु०] नाद्य इत्याह तद्देशवतॊति ( कं. 128.21) / इह आलोकश्चक्षुषः सहकारी। तत्रा चावयवावयविभेदेन ग्राह्यग्राहकभेदाङ्गीकारा[दा] लोकविषयमपि ज्ञानमालोकान्त रसव्यपेक्षमेवेति भावः / द्वितीयं दूषयति 'स्वप्रतीतौ त्विति (कं. 128.23) / किञ्च प्रदीपस्य ज्ञानकारणतया दृष्टान्तता, तस्मात् प्रकाशकत्वं ज्ञान कारण त्वमेव / न तु ज्ञानं, स्वविषयमेव ज्ञानं प्रतिकारणमित्यसिद्धश्च हेतुः / तत्परिहारायाशङ्कते अथेति (कं. 128.24) / स्वार्थे 'क'प्रत्यय इति भावः / / 1 नीलपीतमेतदिति -जे. 1, जे. 2 / 2 ज्ञानाद् - कं. 1, कं. 2 / 3 प्रतीतिः, कस्यचिदिदं नीलमिति ? - कं. 1, कं. 2 / 4 प्रतिभास इति चेत् - कं. 1, कं. 2 / 5 परिच्छेदोन्तरं-जे. 1, जे. 2 / 6 दीपादिपक्षाच्च -अ, ब; 7 सर्व या-अ, ब; 8 भावामव-अ; 9 स्वप्रतिपत्तौ-कं !