________________ 322 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् न्यायकन्दली ज्ञानस्य स्वसंवेदनतासिद्धौ सहोपलम्भनियमसिद्धिरिति चेत् ? स्वसंवेदनसिद्धौ कि प्रमाणम् ? यत्प्रकाशकं तत्स्वप्रकाशे परानपेक्षं यथा प्रदीप इति चेत् ? प्रदीपस्य तद्देशतितमोपनयने व्यापारः, स चानेन स्वयमेव कृत इति तदर्थ प्रदीपान्तरं नापेक्षते, वैयर्थ्यात् / 'स्वप्रतीतौ तु चक्षुरादिकमपेक्षत एवेति साध्यविकलता दृष्टान्तस्य / अथ प्रकाशकत्वं ज्ञानत्वमभिप्रेतम् ? तस्मात् परानपेक्षा, तदानीमसाधारणो हेतुः। . यच्चोक्तं यस्याव्यक्तः प्रकाशः तत्स्वयमव्यक्तं तथा पिहितं वस्त्विति, 'तत्रापि पिहितस्याव्यक्तता अप्रकाशः, तत्स्वयमव्यक्तत्वात्किन्त्वभावादेवेति व्याप्त्यसिद्धिः / यच्च प्रत्ययत्वादिति तदप्यधानम् दृष्टान्तासिद्धः। स्वप्नादिप्रत्यया अपि समारोपितबाह्यालम्बना न 'स्वात्ममात्रपर्यवसायिनः, जाग्रदवस्थोपयुक्तानामेवार्थानां संस्कारवशेन तथा प्रति [हि०] ननु 'प्रकाशकं तावदन हेतुः ततश्च किमिदं 'प्रकाशकत्वम् ? कि व्यापारः ? किं वा प्रतिपत्तिः ? किं वा ज्ञानत्वम्? 'तत्रायेऽन्यथासिद्धिमापादयति प्रदीपस्य तद्देशेति "स्वप्रकाशे स्वव्यापारे तमोपनयने इत्यर्थः / द्वितीये प्राह"स्वप्रतीतौ तु इति -स्वप्रकाशे स्वप्रतीपत्तावित्यर्थः / तृतीये प्राह -अथ "प्रकाशकत्वमिति / तस्मात "प्रकाशकत्वात पिं०] सहोपलम्भनियमोऽपि भविष्यति, अभेदभ्र न भविष्यति / ज्ञानस्य स्वपरसंवेदेन'मेतामात्रेण(त)धनीलतद्धियोर्ययपदग्रहणनियमस्योपपत्तेरिति (कं. 128.15) ज्ञानं हि स्वपरसंवेदनतामात्रेण नीलं गह्णाति स्वसंवेदनतामात्रेण च नीलधियं, तदनयोः सहोपलम्भो नास्ति नत्वाभेद इति भावना। अनभ्युपगमेऽपि परं स्वसंवेदनात् स्वसंवेदनं विपक्ष इति कृत्वा एतदुक्तं श्रीधरेणेति द्रष्टव्यम् / भत्र गद्ये स्वसंवेदनतामात्रेणैवेति एवकारस्य व्यवच्छेदकत्वादभेदस्य व्यवच्छेदः / तेन स्वपरसंवेदनतामात्रेणैव न पुनरभेदेनेत्यर्थः सिद्धः / हेतोरिति (कं. 128.16) सहोपलम्भनियमस्य / विपक्षादिति (कं. 128.16) भेदात् / अस्येति (कं. 128.17) सहोपलम्भनियमस्य हेतोः / "विपक्षाभावादिति (कं. 128.17) अभेदः / “अन्यत इति विपक्षव्यावृत्तितोऽन्यस्मात् ऋतेऽपि / तदेवेति (कं. 128.18) अन्यत् / [कु०] नाद्य इत्याह नीलमेतदिति (कं. 128.18) / द्वितीयमाशङ्कय दूषयति ज्ञानस्येति (कं. 128.19) / अत्र तत्स्वयंप्रकाशसाधनप्रसङ्गदूषणावसरे प्रसङ्गात् सन्दिग्धविपक्षम्यावृत्तित्वेन सहोपलम्भनियमो दूषितः, सम्प्रति तस्यैव स्वरूपासिसिप्रदर्शनाय प्रसङ्गविपर्ययो दृष्यते इति न क्रमव्यतिक्रमदोषः / "यत्परप्रकाशकमित्यत्र परप्रकाशकत्वं (परे) परामङ्गीकारावसिद्ध चक्षुरादौ व्यभिचारी च। प्रकाशमानत्वे सतीति विशेषणं चासिद्धमित्येतदुषणं स्पष्टमित्यपेक्षदृष्टान्तं दूषयति प्रदीपस्येति (कं. 128.21) / इह सजातीयानपेक्षत्वं प्रदीपस्य, आलोकजात्यापेक्षया वा? 1 प्रकाशं-कं. 1, कं. 2 / 2 प्रतिपतौ- कं. 1, कं. 2 / 3 तत्र-कं. 1, कं. 2 / 4 प्यसारम् - कं. 1, कं.२। 5 स्वांशपर्यवसायिन:-ने. 2 / 6 प्रकाशकत्वमत्र - अ%; प्रकाशत्वं - ड; 7 तदश्च - अ; 8, 12 प्रकाशस्वम-ड ९तत्राम्यथा-अ 10 स्वप्नप्रकाशे-अ, 11 स्वप्रतिपत्ती-म. स्वप्रतीती-जे. 1, जे. 3 / 13 प्रकाशकत्वाज्ञान - अ, ब; 14 विपक्षभावं प्रति / 15 प्रतीकस्यास्य पाठः कन्दल्यां नोपलभ्यते - सं / 16 अत्र कन्दल्यां 'यत्प्रकाशम्' इति पाठः सचाशुसः (कं. 128.21) /