________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपेतम् 321 न्यायकन्दली [134] एतेन वेद्यत्वमपि प्रत्युक्तम् / भेदेऽपि 'ज्ञानस्य स्वकारणनियमादेव तस्योपपत्तः, सन्दिग्धविपक्षव्यावृत्तिकस्वात् / यदपि जरस्य प्रकाशायोग इति, तदपि प्रकाशात्मकत्वाभावाभिप्रायेण / सिद्धसाधनं संसर्गाभिप्रायेण निरुपपत्तिकम् / नहि जडस्य प्रकाशसंसर्गेण न भवितव्यमित्यस्ति राजाज्ञा, यथा छिदिक्रिया छेछन सम्बध्यते भिद्यते च, तथा ज्ञानक्रियापि 'ज्ञेयेन सह संभन्त्स्यते भेत्स्यते च / सहोपलम्भनियमस्यापि विपक्षाद् व्यावृत्तिः सन्दिग्धा, ज्ञानस्य स्वपर संवेदनप्तामात्रेणैव नीलतद्धियोर्युगपद्ग्रहणनियमस्योपपत्तेः / बाह्याभावाज्ज्ञानं परस्य संवेदकं न भवतीति चेत् ? बाह्याभावसिद्धौ हेतोविपक्षाद् व्यावृत्तिसिद्धिः, तत्सिद्धौ चास्य विपक्षाभावं प्रति हेतुत्वमित्यन्योन्यापेक्षिता ? अन्यतो बाह्याभावसिद्धावस्य हेतुत्वमिति चेत् तदेवास्तु किमनेन ? असिद्धश्च सहोपलम्भनियमो नीलमेतदिति बहिर्मुखतयार्थेऽनुभूयमाने तदानीमेवान्तरस्य तदनुभव'स्यानुभवात् / [रि०] [134] 'बाह्याभावे सिद्ध इति विपक्षात बाह्यार्थात् / तस्सियौ च इति विपक्षाव्यावृत्तिसिद्धावस्य हेतोः सन्दिग्धानकान्तिकत्व रहितस्य बाह्यार्थाभावं प्रति हेतुस्वम् / यत्प्रकाशकम् इति प्रकाशकं प्रकाशरूपमित्यर्थः / तस्य स्वयमेव "नीलादिप्रकाशस्वरूपत्वात् / [पं०] [134] वेयत्वमपि प्रत्युक्तमिति (कं. 128.9) अर्था धर्मिणः ज्ञानान्न व्यतिरिच्यन्ते तद्वद्यत्वात् / यद्येन वेद्यते तत्ततो न भिन्नं ज्ञानस्य आत्मा / वेद्यन्ते च नीलादयस्तस्माज्ञानादभिन्ना इत्येतत् पूर्वोक्तं प्रतिषिद्धमित्यर्थः / मेदेऽपोति (कं. 128.9) अर्थास्पार्थक्येपि / तस्येति (कं. 128.10) वेद्यत्वस्य / सन्दिग्धविपक्षव्यावत्तिकत्वादिति (कं. 128.10 ) संदिग्धा [द्] विपभाद् भेदाद्वयावृत्तिर्यस्य स सन्दिग्धविपक्षव्यावृत्तिकः, तस्य भावः सन्दिग्धविपक्षव्यावृत्तिकत्वम्, तस्मात् / किमर्थस्य वे [द्यत्वं ज्ञानेन अभेदात् ? किं वा स्वकारणसामग्रीत इति हि सन्देहोऽत्र मूलत इति भावना। संसर्गाभिप्रायेगेति (कं. 128.11) ज्ञाने सम्बन्धाभिप्रायेण / सहोपलम्भनियमस्यापीति (कं. 128.14) अभेदसाधनाय हेतूक्तस्तस्य / विपक्षादिति (कं. 128.14) भेदात् / सन्दिग्धेति (कं. 128.14) कु०] [134] सामग्रीभेदप्रयुक्तस्वभावनियमाङ्गीकारनिरसनीयतया सहोपलम्भनियमं व्युत्क्रम्य वेद्यत्वहेतुमतिदेशेन दूषयति एतेनेति (कं. 128.9) इदानीं सहोपलम्भनिमयहेतुं तत्साधकमनूद्य दूषयति यदपि जडस्येति (कं. 128.10) / ज्ञानस्य स्वपरसंवेदनतामात्रेणेति (कं. 128.15) परमप्ताभिप्रायेणोक्तं स्वमते स्वयंप्रकाशतानङ्गीकारात् / अत एव स्वमतमालम्ब्याह-असिद्धश्चेति (कं. 128.18) / ज्ञानस्य शेयेन सहोपलम्भः किमनुभवाद् व्यवस्थाप्यते अनुमानाद्वा ? 1 ज्ञानस्वभावकारणसामग्री-कं. 1, कं. 2 / 2 प्रकाशाना-कं. 1, कं. 2 / 3 शेयेन सम्भत्स्यते-जे. 1, जे. 2 / 4 संवेद्य - कं. 1, कं. 2 / 5 न्यापेक्षित्वम्, तदेवास्तु- कं. 1, कं. 2 / 6 स्याननुभवात् - जे. 1, जे. 2 / 7 बाह्याभावसिद्धो - मु. 8 रहितस्या-अ, ब, क; 9 प्रकाशम् - मु. प्रकाशकम् - जे. 1; . 3 / 10 प्रनीलादि-अ, ब, क / 41