________________ 320 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् न्यायकन्दली ग्राह्यत्वम्, सुषुप्तावस्थायां 'ज्ञानात्मवदनुभूतस्यावश्यं ज्ञानसन्तानवदनुवर्तमानस्यापि ग्रहणाभावात् / अवभासमानत्वमेव तस्य ग्राह्यत्वमिति चेत् ? कोऽयमाकारस्यावभासः ? ज्ञानप्रतिबद्धहानादिव्यवहारयोग्यतापत्तिश्चेत् ? बाह्यस्यापि सैव योग्यता। तथा हिनीलं पीतमेतदिति संविदानाः / बाह्यमेवोपाददते जहत्युपेक्षन्ते वा, नान्तरमाकारमित्यसिद्धो ग्राह्यलक्षणायोगः, कथमन्यस्योत्पत्त्यान्यस्य व्यवहारयोग्यतेति चेत् ? तस्य 'स्वकारणसामग्रीनियमेन तद्विषयव्यवहारानुगुणस्वभावस्योत्पादनादिति यत्किञ्चिदेतत् / [टि०] पुनः प्रकारान्तरेणान्यथासिद्धि दर्शयति किञ्च ग्राहकाधीनम् इति :- ज्ञानस्य तु आत्ममात्रनिष्ठत्वेन सतोऽपि 'ज्ञानादन्यस्यार्थस्याग्राह्यतोपपद्यत इति / नन नीलादिविषयं ज्ञानमत्पद्यते व्यवहियते च बाह्य वस्तु इति कथं घटते भेदादित्येतदाश ने 'कथमन्यस्य [इति / [पं०] तस्येति (कं. 128.2) आकारस्य / अनुवर्तमानस्यापोति (कं. 128.3) आस्तां तावत्साक्षात्परिस्फुरत इति भावः / अवभासमानत्वमेव तस्य ग्राह्यत्वमिति (कं. 128.4) यो यस्य संविद्यवभासते स तस्य विषय इति हि बौद्धा(रंग)। सैवेति (कं. 128.5) योग्यता। अन्यस्य(कं. १२८.७)ति ज्ञानस्य / अन्यस्येति (कं. 128.7) अर्थस्य / तस्येति (कं. 128.8) ज्ञानस्य / तद्विषयेत्यादि (कं. 128.8) / तच्छाब्देन अर्थः / anfirs दशायत [कु०] तद्भावे च विशेष्यसिद्धो हेतुरित्याह कयं पुनरिति (कं. 127.23) / द्वितीयं दूषयति किञ्चेति (कं. 127.24) / अग्रहेण सम्बन्धाभावः / ग्राह्याभावात्-ग्रहणसम्बन्धाभावात् / साध्याविशिष्टमिति (कं. 127.26) द्वितीये पक्ष हीदं साध्यं ग्राह्येण न सम्बद्धमिति / तथा च स्वात्ममात्रनियतत्वात हेतुः साध्यं न विशिष्यत इत्यर्थः। अथ स्वरूपासिद्धि मन्दीमपन्यस्यति अपि चेदमिति (कं. 127.26) / न ह्यनाकारो ज्ञानहेतुस्तादात्म्यं च सुषुप्तिपर्यालोचनया अप्रयोजकमस्ति तथापि हानादिव्यवहारयोग्यतापत्तिलक्षणस्य तंत्रावभासमानत्वस्योभयसाम्यादानयं परित्यज्य बाह्यार्थपक्षपाते कि कारणमिति शङ्का"मुपनुदान्न चोक्तमुपपादयति तथा हि नीलमिति (कं. 128.5) / यत्किश्चिदेतदिति (क. 128.9) यथा ज्ञानत्वाविशेषे किञ्चित्रीलाकारं किञ्चित्पीताकारमिति नियमे स्वकारणसामग्री नियामिका एवं भो(य)दपि कस्यचिदुत्पत्तौ कस्यचिद्वानादियोग्यतापत्तिरिति भावः / 1 ज्ञानात्मभूतस्य - कं. 1, कं. 2 / 2 संवादिना - कं. 1, कं. 2 / 3 पेक्षते-कं. 1, कं. 2 / 4 स्वरूपकं. 1; कं. 2 / 5 धीनाम्-अ; 6 ज्ञानादर्थन्य - अ, ब, क; 7 दित्येतदनुशङ्कते-अ, 8 शब्दमन्यस्य-ड; 9 प्रतीकमिदं कन्दल्या नास्ति (कं. 127.3) ज्ञानात्मभूतस्य तस्य इति स्यात् / 10 अत्र किञ्चिद् भ्रष्टं भाति - अर्थो न स्पष्टः /